________________ मोक्ख 437 - अभिधानराजेन्द्रः - भाग 6 मोक्ख भिष्वङ्गाभावेनानिष्टाननुबन्धिन्यपि मोक्षेऽनिष्टानुबन्धित्वेनानिष्ट-- प्रतिपत्तेः // 22 // भवाभिनन्दिनां सा च, भवशर्मोत्कटेच्छया। श्रूयन्ते चैतदालापा, लोके शास्त्रेऽप्यसुन्दराः // 23 // (भवेति) सा च-मोक्षेऽनिष्टप्रतिपत्तिश्च भवाभिनन्दिनाम्- उक्तलक्षणानाम् भवशर्मणो-विषयसुखस्योत्कटेच्छया भवति, द्वयोरे--- कदोषजन्यत्वात् // 23 // मदिराक्षी न यत्रास्ति, तारुण्यमदविहला। जडस्तं मोक्षमाचष्टे, प्रिया स इति नो मतम्॥२४॥ (मदिराक्षीति) लोकालापोऽयम् // 24 // वरं वृनवने रम्ये, क्रोटुत्वमभिवाञ्छितम्। नत्वेवाविषयो मोक्षः, कदाचिदपि गौतम ! / / 2 / / (वरमिति) गौतभेति गालवस्य शिष्यामन्त्रणम् / ऋषिवचनमिदमिति शास्त्रालापोऽयम् // 25 // देषोऽयमत्यनाय, तदभावस्तु देहिनाम् . . भवानुत्कटरागेण, सहजाल्पमलत्वतः // 26 // (द्वेष इति) अयम्-मुक्तिविषयो द्वेषोऽत्यनर्थाय-बहुलसंसार–वृद्धये। / तदभावस्तु मुक्तिद्वेषाभावः पुनर्देहिनाम्-प्राणिनाम् भवानुत्कटरागेणभवोत्कटेच्छाभावेन सहजम्-स्वाभाविकम्। यदल्पमलत्वंततः मोक्षरागजनकगुणाभावेन तदभावेऽपि गाढतरमिथ्यात्वदोषाभावेन तवेषाभावो भवतीत्यर्थः / / 26 / / ("मलस्तु०" (27) इति श्लोकः 'मल' शब्देऽस्मिन्नेव भागे गतः) प्रागबन्धान बन्धचेत्, किं तत्रैव नियामकम्। योग्यतां तु फलोनेयां, बाधते दूषणं न तत् / / 2 / / (प्रागिति)प्राक्-पूर्वम् अबन्धाद्-वन्धाभावाज्जीवत्वरूपा-विशेषेऽपि न बन्धो मुक्तस्य चेत् किं तत्रैव-प्रागबन्धे एव, नियामकम्; योग्यताक्षयं विना / योग्यतां तु फलोनेयाम्-फलबलकल्पनीयां तदूषणं न बाधते। तत्र कुतो न योग्यता? इत्यत्र फलाभावस्यैवोत्तरत्वात् / युक्तं चैतत् वन्धस्य बध्यमानयोग्यतापेक्षत्वनियमाद्वस्त्रादीनां मञ्जिष्ठादिरागरूपबन्धने तथा दर्शनात्; तद्वै-चित्र्येण फलभेदोपपत्तेस्तस्या अन्तरङ्गत्यात्तत्परिपाकार्थमेव हेत्वन्तरापेक्षणादित्याचार्याः // 28 // ('"दिदृक्षा०" (29) इति-श्लोकः दिदिक्खा' शब्देचतुर्थभागे 2520 पृष्ठेगतः) प्रत्यावर्त व्ययोऽप्यस्या-स्तदल्पत्वेऽस्य संभवः। अतोऽपि श्रेयसां श्रेणी, किं पुनर्मुक्तिरागतः॥३०॥ (प्रत्यावर्तमिति) प्रत्यावर्तम्-प्रतिपुद्गलावर्तम् ध्ययोऽपि-अपगमोऽपि अस्याः योग्यतायाः दोषायां क्रमहासं विना भव्यस्य मुक्तिगमनानुपपत्तेः / तदल्पत्वे-योग्यताल्पत्वे अस्य-मुक्त्यद्वेषस्य संभव-उपपत्तिः। तदुक्तम्-"एवं चापगमोऽप्यस्या, प्रत्यावर्त सुनीतितः / स्थित एव तदल्पत्वे भावशुद्धिरपि ध्रुवा / / 9 / / " अतोऽपिमुक्त्यद्वेषादपि श्रेयसां श्रेणी-कुशलानुबन्धसन्ततिः, किं पुनर्वाच्यं मुक्तिरागतस्तदुपपत्तौ // 30 // नचायमेव रागः स्या-न्मृदुमध्याधिकत्वतः। तत्रोपाये च नवधा, योगिभेदप्रदर्शनात्॥३१॥ (न चेति) न चायमवे-मुक्त्यद्वेष एव रागःस्यात्-मुक्तिरागो भवेदिति वाच्यम्-मृदुमध्याधिकत्वतो-जघन्यमध्यमोत्कष्टभावात्। तत्र मुक्तिरागे उपाये च नवधा नवभिः प्रकारैर्योगिभेदस्य प्रदर्शनाद्-उपवर्णनात् (अतः परनवधा योगिभेदप्रतिपादिकाव्याख्या 'जोइ' शब्देचतुर्थभागे 1587 पृष्ठ) देषस्याभावरूपत्वा-दद्वेषश्चक एव हि। रागात् क्षिप्रंक्रमाचातः, परमानन्दसंभवः // 32 // (द्वेषस्येति) अद्वेषश्च द्वेषस्याभावरूपत्वादेक एव हि / अतो न तेन योगिभेदोपपत्तिरित्यर्थः; फलभेदेनापि भेदमुपपादयति-ततो मुक्तिरागात् क्षिप्रमनतिव्यवधानेन अतो मुक्त्यद्वेषात्क्रमेण मुक्तिरागापेक्षया बहुद्वारपरम्परालक्षणेन परमानन्दस्य निर्वाणसुखस्य संभवः॥३२॥ द्वा० 12 द्वा० मुक्त्यद्वेषं प्राधान्येन पुरस्कुर्वन्नाहउक्तभेदेषु योगीन्द्र-मुक्त्यद्वेषः प्रशस्यते। मुक्त्युपायेषु नो चेष्टा, मलनायैव यत्ततः॥१॥ विषान्नतृप्तिसदृश, तद्यतो व्रतदुर्ग्रहः। उक्तःशास्त्रेषु शस्त्रानि-व्यालदुर्ग्रहसनिमः॥२॥ (अनयोर्व्याख्या 'मुत्तिअदोस' शब्देऽस्मिन्नेव भागे गता) ननु दुर्गृहीतादपि श्रामण्यात्सुरलोकलाभः केषांचिद्भवती तिकथमत्रासुन्दरतेत्यत्राऽऽहप्रैवेयकातिरप्यस्मा-दिपाकविरसाऽहिता। मुक्त्यद्वेषश्च तत्रापि, कारणं न क्रियैव हि // 3 // (ग्रेवेयकाप्तिरिति) अस्माद्-व्रतदुर्ग्रहात् ग्रैवेयकाप्तिरपि-शुद्ध-समाचारवत्सुसाधुषु चक्रवर्त्यादिभिः पूज्यमानेषु दृष्टषु संपन्नतत्पूजास्पृहाणां तथाविधान्यकारणवतां च केषांचिद्व्यापन्नदर्शनानामपि प्राणिनां नवमवेयकप्राप्तिरपि विपाकविरसा-बहुतरदुःखानुबन्धबीजत्वेन परिणतिविरसा, अहिता-अनिष्टा तत्त्व-तश्चौर्जितबहुविभूतिवदिति द्रष्टव्यम्। तत्रापि-नवमग्रैवेयकप्राप्तावपिचमुक्त्यद्वेषः कारणं न केवला क्रियैव हि अखण्डद्रव्यश्रामण्यपरिपालनलक्षणा। तदुक्तम्-"अनेनापि प्रकारेण, द्वेषाभावोऽत्र तत्त्वतः / हितस्तु यत्तदेतेऽपि, तथा कल्याणभागिनः ||1||" इति // 3 // लाभाधर्थितयोपाये, फले चाप्रतिपत्तितः। व्यापन्नदर्शनानां हि, न देषो द्रव्यलिङ्गिनाम् // 4 // (लाभेति) व्यापन्नदर्शनानां हि द्रव्यलिङ्गिनामुपाये-चारित्रक्रियादौ लाभाद्यर्थितयैवन द्वेषो रागसामग्रयां द्वेषानवकाशात्। फले च-मोक्षरूपे अप्रतिपत्तित एव न द्वेषः / न हि ते मोक्षं स्वर्गादिसुखाद्भिन्नं प्रतीयन्ति, यत्र द्वेषावकाशः स्यात्। स्वर्गादिसुखाभिन्नत्वेन प्रतीयमाने तु तत्र तेषां राग एव। वस्तुतो भिन्नस्य तस्य प्रतीतावपि स्वेष्टविघातशङ्कया तत्र द्वेषो नस्यादिति द्रष्टव्यम्॥४ मुक्तौ च मुक्त्युपाये च, मुक्त्यर्थ प्रस्थिते पुनः।