________________ मोक्ख 432- अमिधानराजेन्द्रः - भाग 6 मोक्ख न्तोच्छेदो मोक्ष'' इति वचनात् / घशब्दः पूर्वोक्ताभ्युपगमद्वयसमुच्चये। ज्ञानं हि क्षणिकत्वादनित्यम्, सुखं च सप्रक्षयतया सातिशयतया च न विशिष्यते, संसारावस्थातः इति। तदुच्छेदेआत्मस्टरूपेणावस्थानं मोक्षः इति। प्रयोगश्चात्र-नवानामात्मविशेषगुणानां सन्तानः-अत्यन्तमुच्छिद्यते सन्तानत्वात्, यो-यः सन्तानः सः-सोऽत्यन्तमुच्छिद्यते, यथा. प्रदीपसन्तानः, तथा चायम्, तस्मादत्यन्तमुच्छिद्यत इति। तदुच्छेद एव महोदयः, न कृत्स्नकर्मक्षयलक्षण इति। "न हि वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति"। "अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः'। इत्यादयोऽपि वेदान्तास्तादृशीमेव मुक्तिमादिशन्ति। अत्र हि प्रिया-प्रियेसुखदुःखे ते चाशरीरंमुक्तं नस्पृशतः। अपिच"यावदात्मगुणाः सर्वे, नोच्छिन्ना वासनादयः। तावदात्यन्तिकी दुःख-व्यावृत्ति विकल्प्यते // 1 // धर्माधर्मनिमित्तो हि,सम्भवः सुखदुःखयोः। मूलभूतौ च तावेव, स्तम्भौ संसारसद्मनः॥२॥ तदुच्छेदे च तत्कार्य-शरीराद्यनुपप्लवात्। नात्मनः सुखदुःखे स्तः, इत्यसौ मुक्त उच्यते॥३॥ इच्छाद्वेषप्रयत्नादि, भोगाऽऽयतनबन्धनम्। उच्छिन्नभोगाऽऽयतनो,नाऽऽत्मा तैरपि युज्यते // 4 // तदेवं धिषणाऽऽदीनां, नवानामपि मूलतः। गुणानामात्मनो ध्वसः, सोऽपवर्गः प्रतिष्ठितः / / 5 / / ननु तस्यामवस्थायां, कीदृगात्माऽवशिष्यते? स्वरूपैकप्रतिष्ठानः,परित्यक्तोऽखिलैर्गुणैः // 6 / / ऊर्मिषट्काऽतिगं रूपं, तदस्याऽऽहुर्मनीषिणः / संसारबन्धनाऽधीन-दुःखक्लेशाद्यदूषितम्॥७॥" कामक्रोधलोभगर्वदम्भहर्षा-ऊर्मिषट् कमिति / तदेतदभ्युपगमत्रयमित्थं समर्थयद्भिः, अत्वदीयैः-त्वदाज्ञाबहिभूतैः कणादमतानुगामिभिः, सुसूत्रमासूत्रितम्--सम्यगागमः प्रपञ्चितः। अथवाः-'सुसूत्रमिति' क्रियाविशेषणम् शोभनं सूत्रं वस्तुव्यवस्थाघटनाविज्ञानं यत्रैवमासूत्रितं तत्तच्छास्त्रार्थोपनिबन्धः कृतः इति हृदयम्। 'सूत्रंतु सूचनाकारि, ग्रन्थे तन्तुव्यवस्थयोः'। इत्यनेकार्थवचनात्। अत्र च सुसूत्रमिति विपरीतलक्षणयोपहासगर्भ प्रशंसावच-नम्। यथा- "उपकृतं बहुतत्र किमुच्यते, सुजनता प्रथिता भवता चिरम्' इत्यादि। उपहसनीयता चयुक्तिरिक्तत्वात् तदङ्गीकाराणाम् (स्या०) यदपि "न संविदानन्दमयी च मुक्तिरिति व्यवस्थापनाय अनुमानमवादि सन्तानत्वादिति। तत्राभिधीयते-ननु किमिदं सन्तानत्वम्-स्वतन्त्रम्-अपरापरपदार्थोत्पत्तिमात्रं वा एकाश्रया अपरापरोत्पत्तिा? तत्राद्यः पक्षः सव्यभिचारः, अपरापरेषामुत्पादकानां घटपटकटादीनां सन्तानत्वेऽप्यत्यन्तमनुच्छिद्यमानत्वात्। अथ द्वितीयः पक्षस्तर्हि तादृशंसन्तानत्वं प्रदीपे नास्तीति साधनविकलो दृष्टान्तः / परमाणुपाकजरूपादिभिश्च व्यभिचारी हेतुः, तथाविधसन्तानत्वस्य तत्र सद्भावेऽप्यत्यन्तोच्छेदाभावात्। अपि च- | सन्तानत्वमपि भविष्यति अत्यन्तानुच्छेदश्च भविष्यति विपर्यये बाधकप्रमाणाभावात्, इति संदिग्धविपक्षव्यावृत्तिकत्वादप्यनैकान्तिकोऽयम् / किं च-स्याद्वादवादिनां नास्ति क्वचिदत्यन्तमुच्छेदः द्रव्यरूपतया स्थास्नूनामेव सतां भावानामुत्पादव्यययुक्तत्वाद्, इति विरुद्धश्चेति नाधिकृतानुमानाद्बुद्ध्यादिगुणोच्छेदरूपा सिद्धिः सिध्यति। नापि "न हि वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ती'' त्यागमेन शरीरराहित्ये सुखदुःखाभावप्रतिपादनान्न मोक्षे सुखमध्यवसातव्यम्। तत्र हि शुभाऽशुभाऽदृष्टपरिपाकजन्ये सांसरिकप्रियाप्रिये परस्परानुषक्ते अपेक्ष्य व्यवस्थितः / मुक्तिदशायां तु-सकलादृष्टक्षयहेतुकमैकान्तिकमात्यन्तिकं च केवलं प्रियमेव तत्कथं प्रतिषिध्यते? आगमस्य चायमर्थ:-सशरीरस्य गतिचतुष्टयान्यतमस्थावर्तिनश्चात्मनःप्रियाप्रिययोः परस्परानुषक्तयोः सुखदुःखयोः, अपहतिः-अभावो नास्तीति, अवश्यं हि तत्र सुखदुःखाभ्यांभाव्यम्, परस्परानुषक्तत्वंच समासकरणादभ्यूह्यते। अशरीरं मुक्ताऽऽत्मानं वाशब्दस्यैवकारार्थत्वाद् अशरीरमेव; वसन्ते-सिद्धिक्षेत्रमध्या-सीनं प्रियाप्रिये-परस्परानुषक्ते सुखदुःखे, न स्पृशतः / इदमत्र हृदयम्-यथा किलसंसारिणः सुखदुःखे परसपरानुषक्ते स्यातां, न तथा मुक्तात्मनः, किंतु-केवलं सुखमेव दुःखमूलस्य शरीरस्यैवाभावात्।सुखंतुआत्मस्वरूपत्वादवस्थितमेव, स्वस्वरूपावस्थानं हि मोक्षः, अत एव चाशरीरमित्युक्तम् / आगमार्थश्चायमित्थमेव समर्थनीयः यत एतदर्थानुपातिन्येवस्मृतिरपि दृश्यते-"सुखमात्यन्तिकं यत्र, बुद्धिग्राह्यमतीन्द्रियम्। तं वै मोक्षं विजानीयाद, दुष्प्रापमकृतात्मभिः / / 1 // " न चायं सुखशब्दो दुःखाभावमात्रे वर्तते-मुख्यसुखवाच्यतायां बाधकाभावात्, अयं रोगाद् विप्रमुक्तः सुखी जात इत्यादिवाक्येषु च सुखीति प्रयोगस्य पौनरुक्त्यप्रसङ्गाच / दुःखाभावमात्रस्यरोगाद्विप्रमुक्तः इतीयतैव गतत्वात् / न च भवदुदीरितो मोक्षः पुंसामुपादेयतया संमतः, को हि नाम-शिलाकल्पमपगतसकलसुखसंवेदनमात्मानमुपपादयितुंयतेत दुःखसंवेदनरूपत्वादस्य; सुखदुःखयोरेकस्याभावेऽपरस्यावश्यं भावात्। अत एव तदुपहासः श्रूयते-'वरं वृन्दावने रम्ये, क्रोष्टुत्वमभिवाञ्छितम्।न तु वैशेषिकी मुक्तिं, गौतमोगन्तुमिच्छति॥१॥ सोपाधिकसावधिकपरिमितानन्दनिष्यन्दात् स्वर्गादप्यधिकं तद्विपरीतानन्दमम्लानज्ञानं च मोक्षमाचक्षते विचक्षणाः यदि तु जडः पाषाणनिर्विशेष एव तस्यामवस्थायामात्मा भवेत् तदलमपवर्गण, संसार एव वरमस्तु / यत्र तावदन्तराऽन्तराऽपि दुःखकलुषितमपि कियदपि सुखमनुभुज्यते, चिन्त्यतां तावत्-किमल्पसुखानुभवो भव्यःउत सर्वसुखोच्छेद एव? अथास्तितथाभूते मोक्षे लाभातिरेकः प्रेक्षादक्षाणाम्, तेह्येवं विवेचयन्तिसंसारेतावदुःखास्पृष्ट सुखनसंभवति, दुःखं चावश्यं हेयम्, विवेकहानं चानयोरेकभाजनपतितविषमधुनोरिव दुःशकम्, अत एव द्वे अपि त्यज्येते, अतश्च संसारान्मोक्षः श्रेयान् / यतोऽत्र दुःखं . सर्वथा न स्याद् वरमियती कादाचित्कसुखमात्राऽपि त्यक्ता, न तु तस्याः कृते दुःखभार इयान् व्यूढ इति / तदेतत्सत्यम्, सांसारिकसुखस्य मधुदिग्धधाराकरालमण्डलाग्रग्रासवदुःखरूपत्वादेवयुक्तैव मुमुक्षूणां तजिहासा, किन्त्वात्यन्तिकसुखविशेषलिप्सूनामेव। इहापि