________________ मोक्ख 433 - अमिधानराजेन्द्रः - भाग 6 मोक्ख विषयनिवृत्तिजं सुखमनुभवसिद्धमेव, तद्यदि मोक्षे विशिष्टं नास्ति ततो मोक्षो दुःखरूपएवापद्यत इत्यर्थः / ये अपि विषमधुनी एकत्र संपृक्तेत्यज्येते ते अपि सुखविशेषलिप्सयैव / किञ्च-यथा प्राणिनां संसारावस्थायां सुखमिष्टं दुःखं चानिष्ट, तथा मोक्षावस्थायां दुःखनिवृत्तिरिष्टा सुखनिवृत्तिस्तु अनिष्टव / ततो यदि त्वदभिमतो मोक्षः। स्यात्तदा न प्रेक्षावतामत्र प्रवृत्तिःस्यात्, भवति चेयम् / ततः सिद्धो मोक्षः सुखसंवेदनस्वभावः, प्रेक्षावत्प्रवृत्तेरन्यथाऽनुपपत्तेः / अथ यदि सुखसंवेदनैकस्वभावो मोक्षः स्यात्तदा तद्रागेण प्रवर्तमानो मुमुक्षुर्न मोक्षमधिगच्छेत् / न हि रागिणां मोक्षोऽस्ति, रागस्य बन्धनात्मकत्वात्, नैवम्। सांसारिकसुख एव रागो बन्धनात्मकः विषयादिप्रवृत्तिहेतुत्वाद्, मोक्षसुखे तु रागस्तनिवृत्तिहेतुत्वान्न बन्धनात्मकः। परां कोटिमारूढस्य च स्पृहामात्ररूपोऽप्यसौ निवर्तते, "मोक्षे भवेच सर्वत्र निःस्पृहो मुनिसत्तमः" इति वचनात्। अन्यथा भवत्पक्षेऽपिदुःखनिवृत्त्यात्मकमोक्षाङ्गीकृतौ दुःखविषयं कषायकालुष्यं केन निषिध्येत? इति सिद्धं कृत्स्नकर्मक्षयात्परमसुखसंवेदनात्मको मोक्षः न बुद्ध्यादिविशेषगुणोच्छेदरूप इति। स्या० आव० सकलकर्मक्षयाद्यत्स्यात्तदर्शयितुमाहकृत्स्नकर्मक्षयान् मोक्षो, जन्ममृत्त्य्वादिवर्जितः। सर्वबाधाविनिर्मुक्त, एकान्तसुखसङ्गतः।।१।। मोक्ष एवान्यैः परमपदसंज्ञयाऽभिहित इति परमपदरूपं दर्शयन्नाहयत्र दुःखेन संभिन्नं, नच भ्रष्टमनन्तरम्। अभिलाषोपनीतं यत्, तज्ज्ञेयं परम पदम् / / 2 / / एकान्तसुखसंगतो मोक्ष इत्युक्तं तत्र परविप्रतिपत्तिं दर्शयन्नाहकश्चिदाहान्नपानादि, भोगाभावादसंगतम्। सुखं वै सिद्धिनाथानां, प्रष्टव्यः स पुमानिदम्॥३॥ तदेव प्रष्टव्यमाहकिंफलोऽन्नादिसंभोगो, बुभुक्षादिनिवृत्तये। तन्निवृत्तेः फलं किं स्यात्, स्वास्थ्यं तेषां तु तत्सदा // 4 // अमुमेवार्थ भङ्गयन्तरेणाऽऽहअस्वस्थस्येव भैषज्यं, स्वस्थस्य तुन दीयते। अवाप्तस्वास्थ्यकोटीनां, भोगोऽन्नादेरपार्थकः / / 5 / / यत एवमत एवम्अकिञ्चित्कारकं ज्ञेयं, मोहाभावाद्रताद्यपि। तेषां कण्डाद्यभावेन, हन्त कण्डूयनादिवत्॥६॥ सिद्धसुखं स्वरूपत आहअपरायत्तमौत्सुक्य-रहितं निष्प्रतिक्रियम्। सुखं स्वाभाविकं तत्र, नित्यं भयविवर्जितम् / / 7 / / इदं च परैः परमानन्द इत्यभिहितमेतदेवाऽऽहपरमानन्दरूपं तद्, गीयतेऽन्यैर्विचक्षणः। इत्थं सकलकल्याण-रूपत्वात्सांप्रतं ह्यदः।।८|| अथ केषामिदमवसेयमित्यत आह संवेद्यं योगिनामेतदन्येषां श्रुतिगोचरः। उपमाऽभावतोऽव्यक्तमभिधातुं न शक्यते।।६हा० 32 अष्टO ('ठाण' शब्दे 'सिद्ध शब्द च सिद्धानां स्थानप्ररूपणावसरेऽप्युक्त एषोऽर्थः / सम्मतितर्के च-"ठाणमणोवमसुखमुवगयाणं'' इति सम्मतितर्के द्वितीये काण्डे प्रथमगाथाया व्याख्यानावसरे प्रपञ्चतो भावितं तत एवावगन्तव्यम्, विस्तरभियाऽत्र न लिख्यते) विशे०। ण य संसारम्मि सुह, जाइजरामरणदुक्खगहियस्स। जीवस्स अस्थि जम्हा, तम्हा मोक्खो उवाए उ। सव्वभावंतरेहिं णं गोयम ! तिबेमि। महा०६ अ०। (न स्त्री मोक्षमेतीति दिगम्बरमतम्, स्त्री अपि निर्वाणं गन्तुं शक्नोतीति स्वमतप्रदर्शनपुरः सरमस्माभिरुपपादि 'इथिलिंग- . सिद्ध' शब्दे द्वितीयभागे 560 पृष्ठे) (कृत्स्नकर्मक्षयानमोक्षो भवत्वितीदमपि निदानत्वेन मन्यते इत्यादि आरुगबोहि-लाभ' शब्दे द्वितीयभागे 386 पृष्ठे)आव०ाला (ज्ञानमात्रान्मोक्षः, क्रियाया एव मोक्षः, समुदिताद् वा द्वयादिति 'णाणणय' "किरियाणय'--णाणकिरियाणय-शब्देषु व्यवस्थितम्) आ०चू०आचा०] ज्ञानक्रियामिश्रतयैवैताः क्लेशहानोपायभूता ___ भवन्ति नान्यथेति विवेचयन्नाहज्ञानं च सदनुठानं, सम्यकसिद्धान्तवेदिनः। क्लेशानां कर्मरूपाणां, हानोपायं प्रचक्षते / / 1 / / (ज्ञानं चेति) सज्ज्ञानम्-सदनुष्ठानं च सम्यग-अवैपरीत्येन सिद्धान्तवेदिनः कर्मरूपाणां क्लेशानां हानोपायम्-त्याग-सामग्रीम्प्रचक्षते-प्रकथयन्ति। "संजोगसिद्धीइफलं वयंति" इत्यादिग्रन्थेन॥१॥ नैरात्म्यदर्शनादन्ये, निबन्धन वियोगतः। क्लेशप्रहाणमिच्छन्ति, सर्वथा तर्कवादिनः॥२॥ (नैरात्म्यति) नैरात्म्यदर्शनात-सर्वत्रैवात्माभावावलोकनात्। अन्येबौद्धाः, निबन्धनवियोगतो-निमित्तविरहात्क्लेश-प्रहाणम्-तृष्णाहानिलक्षणमिच्छन्ति, सर्वथा-सर्वे :प्रकारेस्तर्कवादिनः न तु शास्त्रानुसारिणः 2 // अत एव स्वमतं पुरस्कर्तुमाहुःसमाधिराज एतच, तदेतत्तत्त्वदर्शनम्। आग्रहाच्छेदकार्येतत्तदेतदमृतं परम् // 3 // (समाधिराज इति) समाधिराजः सर्वयोगाग्रेसरत्वात्। एतच नैरात्म्यदर्शनम्, तदेतत्तत्त्वदर्शनम् परमार्थावलोकनतः; आग्रहच्छेदकारिमूछ विच्छेदकम्, एतत्तदेतदमृतम्-पीयूषम्, परंभावरूपम्॥३॥ जन्मयोनिर्यतस्तृष्णा, धुवा सा चात्मदर्शने। तदभावे च नेयं स्याद्रीजाभाव इवाङ् कुरः // 4 // (जन्मेति) यतः-यस्मात् तृष्णा-लोभलक्षणा जन्मयोनिः-पुनर्भवहेतुः ध्रुवा--निश्चिता ! सा च-तृष्णा आत्मदर्शनेअहमस्मीति निरीक्षणरूपे तदभावे आत्मदर्शनाभावेच नेयं तृष्णा स्यात्; अङ्कुर इव बीजाभावे॥४॥ न ह्यपश्यन्नहमिति, स्निह्मत्यात्मनि कश्चन। न चात्मनि विना प्रेम्णा, सुखहेतुषु धावति // 5 //