________________ मेहुणिआ 431 - अभिधानराजेन्द्रः - भाग 6 मोक्ख मेहु (थु)णिआ-(देशी) श्याली-मातुलात्मजयोः, दे०ना०६ वर्ग 148 गाथा। मेहुणिय-पुं०(मैथुनिक) मातुलपुत्रे, बृ० 4 उ०॥ मेहुणिया-स्त्री०(मैथुनिकी) मैथुनजीवनायां पण्याङ्गनायाम्, व्य०१ उ०। मातुलदुहितरि, बृ०४ उ०। मेहोदय-न०(मेघोदक) मेघेषु वर्षत्सु यत्कस्मिंश्चिन्निर्लेपे शुभे स्थानेऽधिक्रियते तन्मेघोदकम् / मेघजले, ज्यो०२ पाहु०। मेहोह-पुं०(मेघौघ) मेघानामोघः-संघातो मेघौघः / मेघसमूह, रा०॥ "मेहोहरसिय" मेघस्येवौधेन प्रवाहेनरसितं यस्याः सा मेघौघरसिता। आ०म०१अ० रा० मोअ-(देशी) अधिगतचिमिटिकादिबीजकोशयोः, देखना०।६ वर्ग 148 गाथा। मोक्कणिआ-(देशी) असितपद्मोदरे, दे०ना०६ वर्ग 140 गाथा। मोक्ख-पुं०(मोक्ष) मुच्- षः / परित्यागे, श्रा० निसर्गे ,विशे० आत्यन्तिके पृथग्भागे, उत्त०१ अ०! छुटने, आ० चू०१ अ०। संसारप्रतिपक्षभूते, जी०१ प्रतिका दुःखापगमे, मोक्षकारणे वा संयमानुष्ठाने, आचा०१ श्रु०६ अ०१ उ०ा निर्वाणे, पञ्चा०१ विव०। सम्यग्दर्शनज्ञानचारित्रेभ्यः कर्मणामत्यन्तोच्छदे, ध०१ अधि०। सूत्र०ा जीवस्य रागद्वेषमदमोहजन्मरोगादिदुःखक्षयरूपेऽवस्थाविशेषे, ध०२ अधि०। सकलकर्माशैः (नि०१ श्रु०१वर्ग१०) मुक्तत्वे, आ०चू०१ अ०सकलकर्मवियोगे, औ०। सर्वकर्माभावलक्षणे, आत्मनस्तादात्म्यावस्थाने, अष्ट० 27 अष्ट०। सव्वकम्मावगमो मोक्खो भण्णति / नि०चू०१उ०। कृत्स्नकर्मक्षये,स्या० उपा०। नीसेसकम्मविगमो, मुक्खा जीवस्स सुद्धरूवस्स। साइणपज्जवसाणं, अव्वाबाहं अवत्थाणं // 8 // निःशेषकर्मविगमो मोक्षः-"कृत्स्नकर्मक्षयान् मोक्ष' इति वचनात्। (तत्त्वार्थाऽधिगमसूत्रम्-१०१) जीवस्य शुद्धस्वरूपस्य-कर्मसंयोगापादितरूपरहितस्येत्यर्थः। साद्यपर्यवसानम् अव्या-बाधम्-व्याबाधावर्जितमवस्थानम्-अवस्थितिः जीवस्यासौ मोक्ष इति / साद्यपर्यवसानता चेह व्यक्त्यपेक्षया न तु सामान्येन, तेन मोक्षस्याप्यनादिमत्त्वमिति / श्रा०। कर्मविचटने, आचा०१ श्रु० 4 अ०४उ०। "पुष्टिः पुण्योपचयः, सुद्धिः पापक्षयेण निर्मलता। अनुबन्धिनि द्वयेऽस्मिन, क्रमण मुक्तिः परा ज्ञेया // 1 // " षो०३ विव०। ('धम्म' शब्दे चतुर्थभागे 2666 पृष्ठे व्याख्यातम्) तस्योपात्तपुंस्त्रीशरीरस्य सम्यग्ज्ञानक्रियाभ्यां कृत्स्नकर्मक्षयस्वरूपा सिद्धिः / / 57 // तस्य-अनन्तरनिरूपितस्वरूपस्य आत्मनः, उपात्तपुंस्त्रीशरीरस्यस्वीकृतपुरुषयोषितपुषः, एतेन स्त्रीनिर्याणद्वेषिणः काष्ठाम्बरान शिक्षयन्ति। सम्यग्ज्ञानं च यथावस्थितवस्तुतत्त्वावबोधः, क्रिया च तपश्चरणादिका, 'ताभ्याम् / ननु सम्यग्दर्शनमपि कृत्स्नकर्मक्षयकारणमेव / यदाहुः(उमास्वातिवाचकाः)-''सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग;"इति। / तत्कथमिह नोपदिष्टम्? उच्यते-सम्यग्ज्ञानोपादानेनैव तस्याक्षिप्तत्वात्, द्वयोरप्यनयोः सहचरत्वात्। सम्याज्ञानस्य क्रियातः पृथगुपादानाद्या क्रिया सम्यग्ज्ञानपूर्विका सैव तत्कारणं न पुनर्मिथ्यात्वमलपटलावलुतविवेकविकलानां मिथ्याज्ञानपूर्विका दफलमूलशैवालकवलनादिका। कृत्स्नस्य-अष्टप्रकारस्यापि न तु कतिपयस्य जीवन्मुक्तेरनभिधित्सितत्वात्; कर्मणः ज्ञानावरणीयादेरदृष्टस्य नतुबुद्धयादिगुणानामपि, नापि ज्ञानमात्रसन्तानस्य, क्षयः-सामस्त्येन प्रलयःस्वरूपं यस्याः सा तथा; एतेन नैयायिकसौगतोपकल्पित-मुक्तिप्रतिक्षेपः / एवंविधा सिद्धिर्मोक्षो भवति। रत्ना०७ परि०ा "सम्यग्भावपरिज्ञानाद, विरक्ताभावतोजनाः / क्रियां सत्कृत्याऽविघ्नेन, गच्छन्ति परमां गतिम् // 1 // " दशा०१ अ०॥ (मोक्ष-सिद्धिः 'केवलिसमुग्घाय' शब्दे तृतीयभागे 656 पृष्ठे तत्रैव केवलिनः सर्वा समुद्धातक्रिया च प्रत्यपादि)"विनिर्मुक्ताशेषबन्धनस्य प्राप्तनिजस्वरूपस्यात्मनो लोकान्तेऽवस्थानं मोक्षः" "बन्धवियोगो मोक्षः" इति वचनात्। सम्म०३ काण्ड। ('बंध' शब्दे पञ्चमभागे 1168 पृष्ठेऽत्र विशेषो गतः) सर्वकर्मनिर्जरावद्भिस्तु स्वसंवेदनाध्यक्षतः परमपदप्राप्तिहेतोः सम्यग्दर्शनज्ञानदेः स्वसंवेदितत्वात्सर्वकर्मापगमाविर्भूतचैतन्यसुखस्वभावात्मस्वरूपस्य मोक्षस्याप्यनन्तरोक्तन्यायतः प्रतिपत्तिः मता, तथाहि-यदुत्कर्षतारतम्याद्यस्यापचयतारतम्यं तत्प्रकर्षनिष्ठागमने भवति तस्यात्यन्तिकः क्षयः यथा-उष्णस्पर्शतारतम्याच्छीतस्पर्शस्य, भवति च ज्ञानवैराग्यादेरु(कर्षतारतम्यादज्ञान-रागादेरपचयतारतम्यमित्यनुमानतो भगवदागमतश्चास्मदादेरपवर्गसिद्धिः। भगवतांतु केवलाध्यक्षत इति / सम्म०३ काण्ड०६३ गा०टी०। आचा० नं०। स्था०। विशे० ('निव्वाण' शब्दे 'बन्ध' शब्दे च मोक्षतत्त्वसिद्धिर्विस्तरेण प्रपञ्चिता) एगे मोक्खे (सूत्र-१०) मोचन कर्मपाशवियोजनमात्मनो मोक्षः, आह च-'कृत्स्नकर्मक्षयान्मोक्षः, सचैको ज्ञानावरणीयादिकमपिक्षयाऽष्टविधोऽपि मोचनसामान्यात्, मुक्तस्यव वा पुनर्मोक्षाभावात् / ईषत्प्राग्भाराख्यक्षेत्रलक्षणो वा द्रव्यार्थतयैकः, अथवा द्रव्यतो मोक्षो निगडादितः, भावतः कर्मतस्तयोश्च मोचनसामान्यादेको मोक्ष इति / स्था०१ ठा० स०। ‘णत्थि बंधे य मोक्खे य, णेवं सन्नं निवेसए। अत्थि बंधे यभोक्खे य, एवं सन्नं निवेसए // 15 // " सूत्र०२ श्रु०५ अ०। ('अस्थिवाय' शब्दे प्रथमभागे 520 पृष्ठे व्याख्यातैषा) (सिद्धशब्दोऽप्यत्र वीक्ष्यः) मोक्षे सुखमस्तीति 'सिद्ध शब्दे वक्ष्यामि) सचिदानन्दलक्षणं ब्रह्मपरमार्थतत्त्वं तत्संप्राप्तिर्मोक्ष इति वेदान्तिनः। ज्ञानं सुखं वा मोक्षेऽवतिष्ठते सत्तातत्त्वादिति नैयायिकाः प्रत्यवतिष्ठन्तेएवं च आत्मविशेषगुणोच्छेदस्वरूपां मुक्तिमज्ञानादङ्गीकृतवतः परानुपहसन्नाहनसंविदानन्दमयीच मुक्तिः, सुसूत्रमासूत्रितमत्वदीयैः।।८।। तथा न संविदित्यादि, मुक्ति-मोक्षः; न संविदानन्दमयीन ज्ञानसुखस्वरूपा। संविद्- ज्ञानम्, आनन्दः-सौख्यम्, ततोद्वन्द्वः, संविदानन्दौ प्रकृतीयस्यां सा संविदानन्दमयी एतादृशीन भवति।बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काररूपाणां नवानामात्मनो वैषेशिकगुणानामस्य