________________ मेहुण 428 - अभिधानराजेन्द्रः - भाग 6 मेहुण विपर्यमाहस्नायादेवेति न तु यत्ततो हीनो गृहाश्रमः। तत्र चैतदतो न्यायात, प्रशंसाऽस्य न युज्यते // 4 // वेदमधीत्य स्नायादेव, वेदाध्ययनानन्तरं कलत्रसंग्रहाय स्नानं कुर्यादव इत्येव, नतु नपुनरवधारणंशासितम्, अतः औत्सर्गिको मैथुनपरिहारः। आपवादिकमैथुनमित्यभिहितमनेन चापवादिकेऽपि तत्र रागभावसूचनातो--रागजन्यत्वहेतोः, पक्षकदेशासिद्धता परिहता। अथाधिकृतवाक्यार्थनिगमनायाऽऽह-यदिति-यस्मादेवमवधारणविधिः, ततस्तस्माद् कारणात् हीनः जघन्यो, गृहाश्रमो-गृहस्थत्वम्, यत्याश्रमापेक्षयेति गम्यम् / ततः किमित्याह-तत्र च-तस्मिन् पुनर्गृहस्थाश्रमे, एतत्मैथुनम्, धर्मार्थादिविशेषणं संभवति। तत्रैव दारसंग्रहाद्, अतः एतस्माद्, न्यायाद्-नीतेः प्रशंसाश्लाघा अस्य-मैथुनस्य न युज्यते-न घटते यत्याश्रमापेक्षया हीनगृहाश्रमसंभवित्वेन हीनत्वादस्येति भावः। यथोक्तं पुत्रार्थमित्यत्र 'अपुत्रस्य गतिनास्ति' इति, तदयुक्तम्-परमतेनैवतस्य बाधितत्वात् / यदाह-"अनेकानि सहस्राणि, कुमार ब्रह्मचारिणाम् / दिवं गतानि विप्राणामकृत्वा कुलसन्ततिम् / / 1 / / " इति // 4 // अथ यदुक्तम् 'प्रशंसाऽस्य नयुज्यते' इति, अत्र परमतमाशङ्कमान आहअदोषकीर्तनादेव, प्रशंसा चेत्कथं भवेत्। अर्थापत्त्या सदोषस्य, दोषाभावप्रकीर्तनात्॥५|| अदोषः-दूषणाभावः तस्य कीर्तनं "नच मैथुने' इत्यनेन मनु-वचनेन संशब्दनमदोषकीर्तनम्, तस्मादेव निमित्तान्तर व्यवच्छेदार्थमवधारणम्, प्रशंसा-श्लाघा मैथुनस्य युज्यत इति शेषः? चेद्यद्येवं मन्यसे तदा यो दोषस्तमाह-कथम् केन प्रकारेण न कथं-चिदित्यर्थः, भवेत्जायेत, प्रशंसेति वर्तते / अर्थापत्त्या च वेदं ह्यधीत्य स्नायादिति पूर्वोक्तप्रमाणेन सदोषस्य-पापस्वरूपस्य मैथुनस्यदोषभावप्रकीर्तनात्। न च मैथुने इत्येवं लक्षणाद्दोषा-भावोक्तिमात्रादेवाप्रमाणकादिति। न-- हि यदर्थापत्त्या दोषवदिति निश्चित्तं तदप्रमाणकेन वचनमात्रेण निर्दोषमिति प्रतिपतुं शक्यमिति भावः। अथवा 'प्रशंसाऽस्य नयुज्यत' इति यदुक्तम् तदुयुक्तम्, यतो न मया तत् प्रशंतितमत्, किं तु-निर्दोषमित्युक्तशङ्कां परिहरन्नाह–'अदोषे त्यादि अदोषकीर्तनमात्रादेव कथं प्रशंसाऽस्य भवतीति चेदिति परमतं,सूरिराह-अर्थापत्त्या भवति। अथ तामे-वाह-सदोषस्य दोषाभावप्रकीर्तनात्प्रशंसा कृता भवतीति॥५॥ यदुक्तमदोषकीर्तनात्प्रशंसाऽस्य युक्तेतितत्रादोषतोक्तेरेवान्याय्यत्वमुपदर्शयन्नाहतत्र प्रवृत्तिहेतुत्वात्त्याज्यबुद्धरसंभवात्। विध्युक्ते रिष्टसंसिद्धरुक्तिरेषा न भद्रिका // 6|| उक्तिः-'न मांसभक्षणे दोष' इत्यादिभणनम्। एषा-अनन्तरा भिहिता इति, धर्मिनिर्देशः, न भद्रिका-न शोभनेति साध्यधर्म-निर्देशः, कुत इत्याह-तत्र मैथुनेऽर्थापत्त्या प्रागुपदर्शितदोषे प्रवृत्तिहेतुत्वात् प्राणिनां प्रवर्त्तननिबन्धनत्वादिति हेतुः, प्रयोगश्चैव या प्राणिनां सदोषपदार्थे प्रवृत्तिहेतुभूतोक्तिः सान भद्रिका यथा हिंसानिर्दोषतोक्तिः सदोषमैथुन- | प्रवृत्तिहेतुश्चेयम्, न मांसेत्यादिकोक्तिरिति / प्रवृत्तिहेतुत्वमेव कुत इत्याह- "त्याज्यं मैथुनम्" एवंभूता या बुद्धिस्तस्या असंभवात्अनुत्पादात् न मैथुने दोष एतामुक्तिं श्रद्दधानस्य न मे त्याज्यमिदमित्येषा बुद्धिराविरस्तीति त्याज्यबुद्ध्यभावे च को हि नाम न तत्र प्रवर्तेत, इत्यादित्याज्य-बुद्ध्यसंभवः कुत इत्याह-विधिविधानमनुष्ठान मैथुनस्य तस्योक्तिः-भणितिर्विध्युक्तिस्ततो विध्युक्तः, को हि नाम मैथुने नदोषोऽस्तीति वचनाद्विधेयं मैथुनं न प्रतिपद्यते इति। नन्वनेन वचनेन दोषाभावमात्रमेव मैथुनस्योक्तमिति कथमियं विध्युक्तिः स्यादित्याहइष्टस्यानादिमहामोहवासनावासितमानसानां देहिनामभिलषितस्य मैथुनस्येतो मैथुननिर्दोषताभिधायकवचनात्संसिद्धिर्निष्पत्तिरिष्टसंसिद्धिस्तत इष्टसंसिद्धेः,को हि तस्य निर्दोषतामवगम्य तदिष्टं न निष्पादयति / इष्टं चेदं सर्वप्राणभृता-मित्याह च- "कामिनीसंनिभा नास्ति, देवताऽन्या जगत्त्रये। यां समस्तोऽपि पुंवर्गा, धत्ते मानसमन्दिरे // 1 // " अत उक्तिरेषा न भद्रिकेति व्याख्यातमेव / अथवा-उक्तिरषा न भद्रिकेत्यस्यां प्रतिज्ञायां प्रवृत्तिहेतुत्वादयो भिन्नाश्चत्वारो हेतव इति॥६॥ मैथुनं प्रकारान्तरेण दूषयन्नाहप्राणिनां बाधकं चैत-च्छास्त्रे गीतं महर्षिभिः। नालिकातप्तकणक-प्रवेशज्ञाततस्तथा / / 7 / / प्राणिनां जीवानां बाधकमुपघातकम्।चशब्दोदूषणान्तरसमुच्च-यार्थः / एतन्मैथुनं शास्त्रे व्याख्याप्रज्ञप्त्याख्यपञ्चमाङ्गे गीतं-गदितं महर्षिभिः-- महामुनिभिः श्रीवर्द्धमानस्वामिप्रमुखैः / कथं बाधकं गीतमित्याह-- नलिकायां-वेणुपर्वादिरूपायां तप्तस्याग्निना दीप्तस्य कणकस्य-लोहशलाकावि शेषस्य प्रवेशः--प्रक्षेपः स एव ज्ञातमुदा-हरणम्, ततो नलिकातप्तकणकप्रवेशज्ञाततः, तथेति-तत्प्रकारात् रूतभृतनलिकेति विशेषणयुक्ता। तथा हि (भगवत्याम्-) "हेहुणं भंते! सेवमाणस्स केरिसए असंजमे कजइ? गोयमा ! से जहानामए केइ पुरिसे बूरनलियं वा रूयनलियं वा तत्तेणं 2 अओ कणएणं रसमहिधंसेजा मेहुणं सेवमाणस्स एरिसए णं असंजमे कज्जइ त्ति (भ०२श० 5 उ०) // 7 // दूषणान्तरमाप्तवचनप्रसिद्ध मैथुनस्य ब्रुवाणः प्रकरणो पसंहारायाऽऽहमूलं चैतदधर्मस्य, भवभावप्रवर्द्धनम्। तस्माद्विषान्नवत्त्याज्यमिदं मृत्युमनिच्छता ||8|| मूलम् कारणम्। चशब्दः समुच्चये। एतन्मैथुनमधर्मस्य-पापस्ययत एवमत एव भवभावस्य-संसारसत्तायाः, अथवा भवे-संसारेयेभावा-उत्पादास्तेषां भवहेतूनां वा भावानांपरिणामानां प्राणवधादिक्रोधादीनां प्रवर्द्धन वृद्धिकरमितिविग्रहः / उक्तञ्च- "मूलमेयमहम्मरस, महादोस-ममुस्सयं। तम्हा मेहुणसंसग्गं, णिगंथा वज्जयतिणं // 1 // " यस्मादेवं तस्मात्कारणाद्विषान्नवत्हालाहलमिश्रभोजनमिव त्याज्यपरिहार्य मृत्युंमरणम-निच्छता-अनभिलषता अमुमूर्षुणा यथा विषानंत्यजनीयमेवं मैथुनंत्याज्यमिति भावः / / 8 / हा०२० अष्टा द्वाof सूत्र०। (यो ह्याचार्यो गणावच्छेदको वा गणादपक्रम्य गणमनिक्षिप्य वा मैथुनप्रतिसेवतेसनोपदेष्ट्र शक्नोतीति'उ