SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ मेहुण 427- अमिधानराजेन्द्रः - भाग 6 मेहुण एतदेव निगमयतिमूलमेयमहम्मस्स, महादोससमुस्सयं / तम्हा मेहुणसंसर्ग, निग्गंथा वज्जयंति णं // 16|| मूलम्-बीजम् एतद् अधर्मस्य--पापस्येति पारलौकिकापायः महादोष- | समुच्छ्यम् महतां दोषाणाम्--चौर्यप्रवृत्त्यादीनां समुच्छयं-संघातवद्, इत्यैहिकापायः, यस्मादेवं तस्मान् मैथुन-संसर्गम्-मैथुनसंबन्धं योषिदालापाद्यपि निर्ग्रन्था वर्जयन्ति। णमिति वाक्यालंकारे। इति सूत्रार्थः / दश० 6 अ०२ उ०। (मैथुनस्य दर्पिका कल्पिका च प्रतिसेवना'मूलगुणपडिसेवणा' शब्देऽस्मिन्नेव भागे 370 पृष्ठे गता) "नय किंचि अणुण्णायं, पडिसिद्ध वावि जिनवारेदेहिं / मोत्तुं मेहुणभावं, न विणा तं रागदोसेहिं 1" ध०३ अधि। कथमेकान्ततो निषेधः? अत्रोच्यते नैष दोषोऽत्रा-स्माकमार्हतानाम्, नैकान्ततः किंचित्प्रतिषिद्धम् अभ्युपगतं वा, मैथुनमेकं विहाय / अपि तु-द्रव्यक्षेत्र कालभावनाश्रित्य तदेव प्रतिषिध्यते, तदेव चाभ्युपगम्यते / उत्सर्गोऽप्यगुणाय, अपवादोऽपि गुणाय, कालज्ञस्य साधोः। आचा०१ श्रु०८ अ०४उ०। मैथुनदोषेऽष्टकम्। अथ यदुक्तम् 'न च मैथुने" दोष इति तन्निराचिकीर्षुराहरागादेव नियोगेन, मैथुनं जायते यतः। ततः कथं न दोषोऽत्र, येन शास्त्रे निषिध्यते / / 1 / / रागः-अभिष्वङ्गलक्षणः, अथवा-स्नेहरागविषयरागदृष्टिरागभेदात् त्रिविधो रागः / तत्राद्यः-अपत्यादिषु, द्वितीयः-'वेदादिरूपः, तृतीयः-- वादिना स्वदर्शनपक्षपातरूपः। तत्र रागात्कामोदयरूपादेव शब्दोऽनाभागमाध्यस्थ्यादिव्यवच्छेदार्थः, नियोगेन-अवश्यं भावेन अनेन च मैथुने माध्यस्थ्येन प्रवृत्त्यसंभवोपदर्शनेन मैथुनद्र-तस्य निरपवादतामाह। आह च-"न वि किंचि अणुन्नायं, पडिसिद्धं वावि जिणवरिंदेहिं। मोत्तुं मेहुणभावं, न विणा तं राग-दोसेहि।।१।।" इति। मैथुनस्य प्रायः स्त्रीपुरुषद्वन्द्वस्य कर्म मैथुनंजायते-उपपद्यते, यतो यस्मात्तत्तस्मात्कथम्-केन प्रकारेण, न-नैव, दोषो-दूषणम्, रागलक्षणस्तजन्यकर्मबन्धलक्षणो वा / अत्रैतस्मिन् मैथुने येन कारणेन शास्त्रे-नच मैथुने दोष इत्येवं लक्षणे ग्रन्थे, निषिध्यतेनिराक्रियते, त्वया दोष इति गम्यम्। अथवा-चकारदर्शनाद्येन च यतश्च शास्त्रे निषिध्यते मैथुनमतः कथं न दोषः इति हृदयम्। अथवा-यदि नाम रागाज्जायते मैथुनं तदा जायताम्, कुतोऽत्र दोषसद्भावः? उच्यते-येन कारणेन शास्त्रे निषिध्यते राग इत्यनुवर्तत। आह च-"को दुक्खं पाविज्जा, कस्स व सोक्खेहि विम्हओ हुजा। को व न लभेज मोक्खं, रागद्दोसा जइ न होज्जा / / 1 // " अतः शास्त्रनिषिद्धरागपूर्वकत्वान्मैथुने कथं न दोष इति हृदयम् / प्रयोगोऽत्र "यद्रागजन्यं तत्सदोषम्" यथा-हिंसाविशेषो, रागजन्यं च मैथुनम, अतः सदोषमिति॥१॥ अथ पक्षकदेशात्सिद्धोऽयं हेतुरिति परमतमाशङ्कमान आहधर्मार्थ पुत्रकामस्य, स्वदारेष्वधिकारिणः। ऋतुकाले विधानेन, यत्स्याहोषो न तत्र चेव / / 2 / / धर्मार्थम्-पुण्यनिमित्तम्, पुत्रकामस्य सुतार्थिनः अपुत्रस्य हि धर्मो न भवति। यदुच्यते-"अपुत्रस्य गति स्ति, स्वर्गो नैव च नैव च।तस्मात् पुत्रमुखं दृष्ट्वा, पश्चाद्धर्मं चरिष्यति // 1 // " इति / स्वदारेषु-स्वकलत्रेषु परकलत्रे वेश्यायां वा तदधिगमस्यानर्थहेतुत्वात् / यदाह-"कुलानि पातयन्त्यष्टौ, परदारानधिश्रयन्। स्वयं च नष्टसंस्कारः, षण्ढत्वं लभते मृतः / / 1 / / " तथा- "वृषलीफेनपीतस्य, निःश्वासोपहतात्मनः / तस्याश्चैव प्रसूतेश्व, निष्कृतिर्नोपपद्यते // 1 // " तस्याश्चैव प्रसूतेश्चवृषलीप्रसवस्य च। निष्कृतिः-प्रतिक्रिया सुद्धिरित्यर्थः, अधिकारिणोगृहस्थस्य न यतेः तस्य कलत्राद्यभावात्। ऋतुकाले आर्त्तवसंभवावसरे अन्यदा दोष-संभवात्। यदाह- "ऋतुकाले व्यतिक्रान्ते, यस्तु सेवेत मैथुनम् / ब्रह्महत्याफलं तस्य, सूतकं च दिने दिने॥१॥" विधानेनस्त्रीशरीरे नवानीतदर्भाच्छादनदर्भमणिमूलबन्धनादिना स्मृति-मार्गाभिहितेन विधिना यन्मैथुनं स्याद्भवेदोषो-दूषण, न-नैव, तत्र-मैथुने प्रवृत्तत्वाद्वेदना कारणाश्रितभोजन इवेति, चेद्यदि मन्यसे त्वम्, परम्अनेन च पक्षकदेशासिद्धता हेतोदर्शिता, न च मैथुने दोष इत्यस्य च पक्षस्य विषयविशेषोपदर्शनेनाव्याहतिरभिहितेति। अत्राचार्य उत्तरमाहनापवादिककल्पत्वान्नैकान्तेनेत्यसंगतम्। वेदं ह्यधीत्य स्नायाद्यदधीत्यैवेति शासितम् // 3 // 'धर्मार्थम्' इत्यादिविशेषणोपेतमैथुने न दोषः, इति यदुक्तं तत् ननैव, कुत इत्याह-अपवादो-विशेषोक्तविधिः तत्रापवादे भव आपवादिकः स चासौ कल्पश्चाचार आपवादिककल्पआपवादिकप्रायं चापवादिककल्पंतद्भावस्तत्त्वं तस्मादापवादिककल्पत्वाद्, व्यसनगतस्य श्वमांसभक्षणवदिति दृष्टान्तोऽभ्यूह्यः। अयमभि-प्रायो–यद्यप्यपवादेन श्वमांसाद्यासेव्यते तथापि तत्स्वरूपेण निर्दोषं न भवति प्रायश्चित्ताद्यप्रतिपत्ति प्रसङ्गात्, किं तर्हि गुणान्तरकारणत्वेन गुणान्तरार्थिना तदापद्यत इति। एवं मैथुनं स्वरूपेण सदोषमप्याकौमाराद्यतित्वपालनासहिष्णुः गुणान्तरापेक्षी समा-श्रयते सर्वथा निर्दोषत्वे त्वकुमारत्वात् यतित्यपालनोपदेशोऽनर्थकः स्यागार्हस्थ्यत्यागोपदेशश्चेत्यतः साधूक्तं धर्मार्थादिविशेषणेन मैथुने दोषाभावः अपवादिककल्पत्वात्तस्येति / ततश्च नैकान्तेन सर्वथा मैथुने दोष इति यदुक्तम् 'न च मैथुने' इत्यनेन च वचनेन इत्येतदसङ्गतमयुक्तं रागादिभावन कथंचित्तस्य सदोषत्वाद्धर्मार्थिनोऽपि हि पुंसो मैथुने मेहनविकारकारिणः कामोदयस्य तथा-विधारम्भपरिग्रहयोश्चावश्यंभावित्वात्, न च कामोद्रेकं विना मेहनविकारविशेषः संभवति, भयाद्यवस्थायामिवेति / आपवादिक-कल्पत्वादिति क्वचित् पठ्यते। तत्रैकवाक्यतया व्याख्या कार्या। अथ कथमापवादिककल्पत्वं धर्मार्थादिविशेषणयुक्तमैथुनस्येत्याह-वेदम्-ऋगादिकं हिशब्दोवाक्यालंकारार्थः अधीत्य-पठित्वा, स्नायात-कलत्रसंग्रहाय स्नानं कुर्यादित्यत्र वेदवाक्ये वेदव्याख्यातृभिर्यादिति यस्मादधीत्यैव वेदं पठित्वैव, नाऽपठित्वा स्नायादित्येवावधारणे शासितं व्याख्यातमिति।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy