________________ मेहकुमार 421 - अभिधानराजेन्द्रः - भाग 6 मेहकुमार जातः, 'विपुलकुलसमुब्भवे ण' मित्यादौ णकारा वाक्यालङ्कारे निरुपहतं शरीरं यस्य स तथा, दान्तानि–उपशमं नीतानि प्राक्काले लब्धानि सन्ति पञ्चेन्द्रियाणि येन स तथा, ततः कर्मधारयः, पाठान्तरेनिरुपहतशरीरप्राप्तश्वासौ लब्धपञ्चेन्द्रियश्चेति समासः 'एव' भित्युपलभ्यमानरूपैरुत्थानादिभिः संयुक्तो यः स तथा, तत्र उत्थानचेष्टाविशेषः, बलं-शारीरं वीर्य-जीवप्रभवं पुरुषकार:-अभिमानविशेषः पराक्रमः स एव साधितफल इति, नो सम्यक् सहसे भयाभावेन क्षमसे क्षोभाभावेन तितिक्षसे दैन्यानवलम्बनेन अध्यासयसि अविचलितकायतया एकार्थिकानि वेतानि पदानि, तस्य मेघस्यानगारस्य जातिस्मरणं समुत्पन्नमिति सम्बन्धः / समुत्पन्ने च तत्र किमित्याह-एतमर्थ पूर्वोक्तं वस्तु सम्यक् 'अभि–समेइ' त्ति अभिसमेति अवगच्छतीत्यर्थः / 'संभारियपुव्व-जाईसरणे' त्ति संस्मारित पूर्वजात्योः-प्राक्तनजन्मनोः सम्बन्धि सरणं-गमनं पूर्वजातिसरणं यस्य स तथा, पाठान्तरे--- संस्मारित-पूर्वभवः, तथा प्राक्कालापेक्षया द्विगुण आनीतः संवेगो यस्य स तथा, आनन्दाश्रुभिः पूर्णं भृतं प्लुतमित्यर्थो मुखं यस्य स तथा, 'हरिसवस' त्ति अनेन 'हरिसवसविसप्पमाणहियए' त्ति द्रष्टव्यम्, धाराहतं यत्कदम्बकं-कदम्बपुष्पं तद्वत् समुच्छ्रितरोमकूपो रोमाश्चित इत्यर्थः, 'निसट्टे' ति निसृष्टो दत्तः अनगारवर्णको वाच्यः, सचायम्- "इरियासमिए भासासमिए एसणासमिए आयाणभंडमत्तनिक्खेवणासमिए उचारपासवणखेलसिघाणजल्लपरिट्ठावणियासमिए मणसमिए वयसमिए कायसमिए मणगुत्ते वयगुत्ते कायगुत्ते' मनःप्रभृतीनां समितिः-सत्प्रवृत्तिः गुप्तिस्तु-निरोधः, अत एव 'गुत्ते गुत्तिदिए गुत्तंबभयारी' ब्रह्मगुप्तिभिः 'चाई -सङ्गानां 'वणे लज्जू'--रज्जुरिवा वक्रव्यवहारात् लज्जालु संयमेन लौकिक-लज्जया वा 'तवस्सी खंतिखमे' क्षान्त्या क्षमते यः स तथा 'जिइंदिए सोही' शोधयत्यात्मपराविति शोधी शोभी या 'अणिदाणे' अप्पुस्सुए अल्पौत्सुक्योऽनुत्सुक इत्यर्थः, 'अवहिल्ले' संयमादबहिर्भूतचित्तवृत्तिः 'सुसामण्णरए इणमेव निग्गंथं पावयणं पुरओ त्ति कट् टुविहरइ' निर्ग्रन्थप्रवचनानुमार्गेण इत्यर्थः।। तते णं से मेहे अणगारे अन्नया कदाइ समणं भगवं महावीरं वंदति नमंसति २त्ता एवं वदासी-इच्छामि णं मंते ! तुम्भेहिं अब्भणुनाए समाणे मासियं भिक्खुपडिमं उवसंपजित्ता णं विहरित्तए, अहासुहं देवाणुप्पिया! मा पडिबन्धं करेह / तते णं से मेहे समजेणं भगवया महावीरेणं अब्भणुनाते समाणे मासियं भिक्खुपडिमं उवसंपञ्जित्ता णं विहरति / मासियं भिक्खुपडिम अहासुत्तं अहाकप्पं अहामग्गं०सम्मं काएणं फासेति पालेति सोमेति तीरेति किट्टेति सम्मं कारणं फासेत्ता पालेत्ता सोभत्ता तीरेत्ता किट्टेत्ता पुणरवि समणं भगवं महावीरं वंदति नमसति 2 ता एवं वदासी-इच्छामि णं भंते ! तुम्भेहिं अब्भणुनाते समाणे दोमासियं भिक्खुपडिमं उपसंपञ्जित्ता णं विहरित्तए, अहासुहं देवाणुप्पिया!मा पडिबन्धं करेह,जहा पढमाए अभिलावो तहा दोचाए तच्चाए चउत्थाए पंचमाए छम्मासियाए सत्तमासि-याए पढमसत्तराइंदियाए दोचं सत्तरातिदियाए तइयं सत्तराति-दियाए अहोरातिंदियाए वि एगराइंदियाए वि, तते णं से मेहे अणगारे बारस भिक्खुपडिमाओ सम्मं कारणं फासेत्ता पालेत्ता सोभत्ता तीरेत्ता किट्टेत्ता पुणरवि वंदति नमसइ 2 ता एवं वदासीइच्छामि णं भंते ! तुन्भे हिं अब्भणुनाए समाणे गुंणरतणसंवच्छरं तवोकम्म उवसंपज्जित्ता णं विहरित्तए / ज्ञा०। (गुणरत्नसंवत्सर तपःकर्म 'गुणरयणसंवच्छर' शब्दे तृतीयभागे 626 पृष्ठे गतम्) तते णं से मेहे अणगारे गुणरयणसंवच्छरं तवोकम्मं अहासुत्तंजाव सम्मं कारणं फासेइ पालेइ सोभेइ तीरेइ किट्टेइ अहासुत्तं अहाकप्पं०जाव किट्टेत्ता समणं भगवं महावीरं वंदति नमंसति २त्ता बहूहिं छट्ठट्ठमदसमदुवालसेहिं मासद्धमासखमणेहिं विचित्तेहिं तवोकम्मे हि अप्पाणं भावेमाणे विहरति / (सूत्र-३३)। 'अहासुहं' ति यथासुखं सुखानतिक्रमेण, मा पडिबन्धंविघातं विधेहि विवक्षितस्येति गम्यम्, 'भिक्खुपडिम' ति अभिग्रहविशेषः, प्रथमा एकमासिकी एवं द्वितीयाद्याः सप्तम्यन्ताः क्रमेण द्वित्रिचतुष्पञ्चषट्सप्तमाः समानाः, अष्टमीनवमीदशम्यः प्रत्येकं सप्ताहोरात्रमानाः एकादशी अहोरात्रमाना द्वादशी एकरात्रमानेति। तत्र'पडिवज्जइ एयाओ, संघयणधिइजुओ महासत्तो। पडिमाओ भॉवियप्पा, सम्मं गुरुणा अणुन्नाओ / / 1 / / गच्छे चिय निम्माओ, जा पुव्या दस भवे असंपुणा। नवमस्स तइयवत्थू, होइ जहन्नो सुयाहिगमो।।२।। योसट्ठचत्तदेहो, उवसग्गसहो जहेव जिणकप्पी। एसण आभिग्गहिया, भत्तं च अलेवडं तस्स।।३।। दुवस्सहत्थिमाई, तओ भएणं पयं पि नो सरई। एमाइनियमसेवी, विहरइ जाऽखंडिओ मासो॥४॥" इत्यादि ग्रन्थान्तराभिहितो विधिरासां द्रष्टव्यः / यच्चेह एकादशाङ्गविदोऽपि मेघानगारस्य प्रतिमानुष्ठानं भणितं तत्सर्ववेदिसमुपदिष्टत्वादनवद्यमवसेयमिति, यथासूत्रम्-सूत्रानतिक्रमेण, यथाकल्पम्प्रतिमाचारानतिक्रमेण, यथामार्गम्-ज्ञानाद्यनतिक्रमेण, क्षायोपशमिकभावानतिक्रमेण वा कायेन न मनोरथमात्रेण, फासेइ त्ति उचितकाले विधिना ग्रहणात्, पालयति असकृदुपयोगेन प्रतिजागरणात्, शोभयतिपारणकदिने गुरुदत्तशेषभोजनकरणात्, शोधयति वा--अतिचारपङ्कक्षालनात्, तीरयति पूर्णेऽपि काले स्तोककालमवस्थानात्, कीर्तयतिपारणकदिने इदं चेदं चैतस्याः कृत्यं कृतमित्येवं कीर्तनात्। ज्ञा०। (गुणरत्न-सवत्सरतपःकर्मव्याख्या गुणरयणसंवच्छर' शब्दे तृतीयभागे 626 पृष्ठ गता) तते णं से मेहे अणगारे तेणं उरालेणं विपुलेणं सस्सिरीएणं पयत्तेणं पग्गहिएणं कल्लाणेणं सिवेणं धनेणं मंगल्लेणं उदग्गेणं उदारएणं उत्तमेणं महाणभावेणं तवोक