________________ मेहकुमार 416 - अभिधानराजेन्द्रः - भाग 6 मेहकुमार शेषः, 'बलियतरायं' ति गाढतरम्।'तएण' मित्यादि, इहैवमक्ष-रघटनात्वया हे मेघ ! एको गजवरयुवा करचरणदन्तमुशलप्रहा-रैर्विप्रालब्धो विनाशयितुमिति गम्यते, विपराद्धो वा-हतः सन् अन्यदा कदाचित् स्वकाद् यूथात् चिरम् 'निजूढे त्ति निर्धाटितो यः स पानीयपानाय तमेव महाह्रदं समवतरति स्मेति, आसुरुत्ते' ति स्फुरितकोपलिङ्गः रुष्टःउदितक्रोधः कुपितः-प्रवृद्धकोपोदयः चाण्डिक्यितःसंजातचाण्डिक्यः प्रकटितरौद्ररूप इत्यर्थः, 'मिसि-मिसीमाणे' त्ति-क्रोधाग्निना देदीप्यमान इव, एकार्थिका वैते शब्दाः कोपप्रकर्षप्रतिपादनार्थं नानादेशजविनेयानुग्रहार्थ वा, 'उच्छुहइ'- अवष्टभ्नाति विध्यतीत्यर्थः, 'निजाए' ति-निर्यात-यति समापयति, वेदनाः किं विधाः?-उज्ज्वला विपक्षलेशेनापि अकलङ्किता विपुला शरीरव्यापकत्वात् कृचित्'तितुले' त्ति पाठस्तत्र त्रीनपि मनोवाकायलक्षणानर्थास्तुलयति जयति तुला-रूढानिव वा करोतीति त्रितुला कर्कशा-कर्कशद्रव्यमिवानिष्टेत्यर्थः, प्रगाढा प्रकर्षवती चण्डारौद्रा दुःखा-दुःखरूपा न सुखे-त्यर्थः, किमुक्तं भवति?-दुरधिसह्या, 'दाहवक्कंतीए' त्ति दाहो व्युत्क्रान्तःउत्पन्नो यस्य स तथा स एव दाहव्युत्क्रान्तिकः 'अट्टवसट्टदुहट्टे' त्तिआर्त्तवशम्-आर्त्तध्यानवशतामृतोगतो दुःखार्तश्च यः स तथा, 'कणेरुए' त्ति-करेणुकायाः ‘रत्तुप्पले' त्यादि रक्तोत्पलवद्रक्तः सुकुमारकश्च यः स तथा, जपासुमनश्च आरक्तपारिजातकश्च वृक्षविशेषो लाक्षारसश्च सरसकुड्कुमं च सन्ध्या--भ्ररागश्चेति द्वन्द्वः, एतेषामिव वर्णो यस्य स तथा, 'गणियार' त्ति गणिकाकाराः- समकायाः करेणवस्तासां 'कोत्थं' तिउदरदेशस्तत्र हस्तो यस्य कामक्रीडापरायणत्वात् स तथा, इह चेत्समासान्तो द्रष्टव्यः / 'कालधम्मुण' ति कालःमरणं स एव धर्मोजीवपर्यायः कालधर्मः 'निव्वत्तियनामधेजो' इह यावत्करणेन यद्यपि समग्रः पूर्वोक्तो हस्तिवर्णकः सूचितस्तस्थापि श्वेततावर्णकवो द्रष्टव्यः, इह रक्तस्य तस्य वर्णितत्वादत एवाग्रे 'सत्तुस्सेहे' इत्यादि कमतिदेश वक्ष्यति यत् पुनरहि दृश्यते 'सत्तंगे' इत्यादितद्वाचनान्तरम्, वर्णकाक्षेपं तु लिखितमिति / लेस्साही' त्यादि तेजोलेश्याद्यन्यतरलेश्यां प्राप्तस्येत्यर्थः, अध्यवसानं-मानसी परिणतिः परिणामोजीवपरिणतिः, जातिस्मरणावरणीयानि कर्माणि मतिज्ञानावरणीयभेदाः क्षयोपशम:उदितानां क्षयोऽनुदितानां विष्कम्भितोदयत्वम् ईहा-सदाभिमुखो वितर्क इत्यादि प्राग्वत्, संज्ञिनः पूर्वजातिः-प्राक्तनं जन्म तस्या यत् स्मरणं तत्संज्ञिपूर्वजातिस्मरणम्, व्यस्तनिर्देशे तु संज्ञी पूर्वो भवो यत्र तत्संज्ञिपूर्वं संज्ञीति च विशेषणं स्वरूपज्ञापनार्थम्, न ह्यसंज्ञिनो जातिविषयं स्मरणमुत्पद्यत इति, 'अभिसमेसि' त्ति-अवबुध्यसे प्रत्यपराह्नः-अपराह्नः, 'तएण' मित्यादिको ग्रन्थो जातिस्मर-णविशेषणमाश्रित्य वर्णितः, 'दवग्गिजायकारण?' त्ति दवाग्नेः संजातस्य कारणस्यभयहेतोर्निवृत्तये इदं दवाग्निसंजातकारणार्थम्, अर्थशब्दस्य निवृत्त्यर्थत्वात्, क्वचित्– 'दयग्गिसंताणकारण?' ति दृश्यते, तत्र दवाग्रिसन्त्राणकारणायेति व्याख्येयम्, 'मंडलं घाएसि' वृक्षाद्युपघातेन तत्करोतीत्यर्थः 'खुवेतयति व त्ति क्षुवोह्रस्वशिखः शाखी 'आहुणिय' त्ति प्रकम्प्य चलयित्वेत्यर्थः, 'उडवेसित्ति उद्धरसि 'एडेसि' त्तिछर्दयसि, 'दोचं पि' द्वितीयं तस्यैव मण्डलस्य घातम्, एवं तृतीयमिति, नलिनीयनविवधनकरे, इह विवधनं विनाशः, 'हेमंते' त्ति शीतकाले कुन्दाः-पुष्पजातीयविशेषाः लोध्राश्चवृक्षविशेषास्ते च शीतकाले पुष्यत्यतस्ते उद्धताः-पुष्पसमृद्ध्या उद्धरा इव यत्रस तथा, तथा तुषारं हिम तत् प्रचुरं यत्र स तथा, ततः कर्मधारयः ततस्तत्र, ग्रीष्मे-उष्णकाले विवर्तमानोविचरन् वनेषु वनकरेणूनां ताभिर्वा विविधा 'दिन्न' त्ति दत्ताः कजप्रसवैः-पन्नकुसुमैर्घाताः-प्रहारा येषु यस्य वा स तथा 'वनरेणुविविहदिन्नकयपंसुघाओ' त्ति पाठान्तरेतु वनरेणवो-वनपांशवो विविधम्-अनेकधा 'दिन्न' त्ति दत्ता दिक्ष्यात्मनि च क्रीडापरतया क्षिप्ता येन स तथा, तथा क्रीडयैव कृताः पांशुधाता येन स तथा,ततः पदद्वयस्य कर्मधारयः, 'तुम' तित्वम्, तथा कुसुमैः कृतानि यानि चामरवत्कर्णपूराणि तैः परिमण्डितोऽभिरामश्चयः सतथा क्वचित्- 'उउयकुसुम' त्ति पाठः, तत्र ऋतुजकुसुमैरिति व्याख्येयम्, तथा मदवशेन विकसन्ति कटतटानि-गण्डतटानि क्लिन्नानि आर्टीकृतानि येन तत्तथा तय तद्न्धमदवारिचतेन सुरभिजनितगन्धः-मनोज्ञकृतगन्धः करेणुपरिवृत्तः ऋतुभिः समस्ता समाप्ता वा-परिपूर्णा जनिता शोभा यस्य स तथा, काले किंभूते?-दिनकरः करप्रचण्डो यत्र स तथा तत्र, परिशोषिताः-- नीरसीकृताः तरुवणाः श्रीधराः-शोभावन्तो येन परिशोषिता वा तरुवराणां श्रीः-संपद्धरायां-भुवि वा येन, पाठान्तरे-परिशोषितानि तरुवरशिखराणि येन स तथा स चासौ भीमतरदर्शनीयश्चेति, तत्र भृङ्गाराणां-पक्षिविशेषाणांरुवता-रवं कुर्वतां भैरवो-भीमो रवः-शब्दो यस्मिन् स तथा तत्र, नानाविधानि पत्रकाष्ठ-तृणकचवराण्युद्धृतानिउत्पाटितानि येन स तथा स चासौ प्रतिमारुतश्च-प्रतिकूलवायुस्तेन आदिग्धं--व्याप्त नभस्तलंव्योम ‘पडुममाणे' त्ति पटुत्वादुपताकारि यस्मिन, पाठान्तरे उक्तविशेषणेन प्रतिमारुतेनादिग्धंनभस्तलंद्रुमगणश्च यस्मिन् स तथा, तत्र वातोल्या-वात्यया दारुणतरो यः स तथा तत्र, तृष्णावशेन ये दोषा-वेदनादयस्तैःषिता-जातदोषा दूषिता वा भ्रमन्तो विविधा ये श्वापदास्तैः समाकुलो यः स तथा तत्र भीमं यथा भवत्येवं दृश्यतेयः सभीमदर्शनीयः तत्र वर्तमानेदारुणे ग्रीष्मे, केनेत्याह-मारुतवशेन यः प्रसरः--प्रसरणं तेन प्रसृतो विजृम्भितश्च–प्रवलीभूतो यः स तथा तेन, वनदवेनेति योगः, अभ्यधिकं यथा भवत्येवं भीम-भैरवःअतिभीष्मो खप्रकारो यस्य स तथा तेन, मधुधाराया यत्पतितं-पतनं तेन सिक्त उद्धावमानः प्रवर्द्धमानो धगधगायमानो-जाज्वल्यमानः स्पन्दोद्धतश्च-दह्यमानदारुस्पन्दप्रबलः, पाठान्तरेशब्दोद्धतश्चयः स तथा तेन दीप्ततरोयः सस्फुल्लिङ्गश्च तेन धूममालाकुलेनेति प्रतीतम्, श्वापदशतान्तकरणेनतद्विनाशकारिणा ज्वालाभिरालोपितः कृताच्छादनो निरुद्धश्च-विवक्षितदिग्गमनेन निवारितो धूमजनितान्धकाराद् भीतश्च यः स तथा, आत्मानमेव पालयतीत्यात्मपालः, पाठान्तरेण- 'आयवालो य' तितत्र आतपालोकेन-हुतवहता-पदर्शनन महान्तौतुम्बकितीस्तब्धत