SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ मेहकुमार 411- अभिधानराजेन्द्रः - भाग 6 मेहकुमार 'बहुधणबहुजायरूवरयए' बहुधनं-गणिमादिकं बहुनी च जातरूपरजते यस्य स तथा, 'आयोगपयोगसंपउत्ते, आयोगस्य-अर्थलाभस्य प्रयोगा--- उपायाः संप्रयुक्ताव्यापारिता येन स तथा' 'विच्छड्डियपउरभत्तपाणे' विच्छर्दितेत्यक्ते बहुजनभोजनदाने नावशिष्टोच्छिष्टसंभवात् संजातविच्छ वा नानाविधभक्तिके भक्तपाने यस्य स तथा 'बहुदासीदासगोमहिसगवेलगप्पभूए' बहुदासीदासश्चासौ गोमहिषगवेलगभूतश्चेति समासः, गवेलका-उरभ्राः, 'पडिपुण्णजंतकोसकोट्ठागाराउहागारे' यन्त्राणि-पाषाणक्षेपयन्त्रादीनिकोशो-भाण्डागारं कोष्ठागारं-धान्यगृहम् आयुधा-गारंप्रहरणशाला, 'बलवं दुबलपचमिते' प्रत्यमित्राः-प्रातिवेशिकाः, 'ओहयकंटयं निहयकंटयं गलियकंटयं उद्धियकंटयं अकंटयं' कण्टकाः-प्रतिस्पर्द्धिनो गोत्रजाः उपहता विनाशनेन निहताः समृद्ध्यपहारेण गलिताः मानभङ्गेन उद्धृता देशनिर्वासनेन अतएवाकण्टकमिति, एवम् ‘उवहयसत्तु मित्यादि, नवरं शत्रवो गोत्रजा इति, 'ववगयदुडिभक्खमारिभयविप्पमुक्कं खेमं सिर्वसुभिक्खंपसंतडिंबडमरं' अन्वयव्यतिरेकाभिधानस्य शिष्टसंमतत्या-त्न पुनरुक्ततादोषोऽत्र 'रज्जं पसाहेमाणे विहरइत्ति। 'जाया' इति हे जात! पुत्र ! किं दलयामो' त्ति भवतोऽनभिमतं किं विघट-यामो विनाशयाम इत्यर्थः, अथवा-भवतोऽभिमतेभ्यः किं दद्मः, तथा भवते एव किं प्रयच्छामः? 'किं वा ते हियइच्छियसामत्थे' त्ति को वा तव हृदयवाञ्छितो मन्त्र इति 'कुत्तियावणाउ' त्ति देवताधिष्ठितत्वेन स्वर्गमर्त्यपाताललक्षणभूत्रितयसंभविवस्तुसंपाद-क आपणो-हट्टः कुत्रिकापणः तस्मात् आनीतं काश्यपकं च-नापितं शब्दितुम्-आकारितुमिच्छामीति वर्तते,श्रीगृहात्-भाण्डामासत् 'निक्के' त्ति सर्वथा विगतमलान् ‘पोत्तियाइ' त्ति वस्त्रेण 'महरिहे' त्यादि, 'महरिहेणं' ति महतां योग्येन महापूज्येन वा हंसस्येव लक्षणं स्वरूपं शुक्लता हंसा वा लक्षणं-चिह्र यस्य स तथा तेन शाटको-वस्त्रमात्र सच पृथुलः पटोऽभिधीयत इति पटशाटकस्तेन 'सिंदुवारे' त्ति वृक्षविशेषो निर्गुण्डीति केचित् तत्कुसुमानि सिन्दुवाराणि तानि च शुक्लानि। एस णं' ति एतत् दर्शनमिति योगः णमित्यलंकारे, अभ्युदयेषुराज्यलाभादिषु उत्सवेषु-प्रियसमागमादिमहेषु प्रसवेसु-पुत्रजन्मसुतिथिषुमदनत्रयोदशीप्रभृतिषु-क्षणेषु इन्द्रमहादिषु यज्ञेषुनागादिपूजासुपर्वणीषु च कार्त्तिक्यादिषु अपश्चिमम्-अकारस्यामङ्गलपरिहारार्थत्वात् पश्चिम दर्शनं भविष्यति, एतत्केशदर्शनमपनीतकेशावस्थस्य मेघकुमारस्य यद्दर्शनं सर्वदर्शनपाश्चात्यं तद्भविष्यतीति भावः, अथवा-न पश्चिममपश्चिमंपौनःपुन्येन मेघकुमारस्य दर्शनमेतद्दर्शनेन भविष्य-तीत्यर्थः 'उत्तरावक्कमणं' ति उत्तरस्यां दिश्यपक्रमणम्-अवतरणं यस्मात्तदुत्तरापक्रमणम् उत्तराभिमुखं राज्याभिषेककाले पूर्वाभिमुखं तदासीदिति, 'दोच्चं पि' द्विरपि 'तचं पि' त्रिरपि 'श्वेतपीतैः' रजतसौवण : ‘पायफ्लंघ' 'तिपादौयावयः प्रलम्बते अलङ्कार-विशेषः सपादप्रलम्बः, 'तुडियाई' ति बाहुरक्षकाः, केयूराङ्गदयोर्यद्यपि नाम कोशे बाह्वाभरणतया न विशेषःतथाऽपीहाकारभेदेन भेदो दृश्यः, दशमुद्रिकानन्तकंहस्ताङ्गुलि संबन्धि मुद्रिकादशकम् ‘सुमणदामं ति पुष्पमालां पिनह्यतः-परिधत्तः दर्दर:-चीवरावनद्धकुण्डिकादिभाजनमुखंतेन गालितास्तत्र पक्का वा ये 'मलय' ति मलयोद्भवं श्रीखण्डं तत्संबन्धिनः सुगन्धयो गन्धास्तान पिनह्यतः, हारादिस्वरूपं प्राग्वत्, ग्रन्थिम-यद्ग्रथ्यते सूत्रादिना वेष्टिमयद् ग्रथितं सद्वेष्ट्यते यथा पुष्पलम्बूसकः गेन्दुक इत्यर्थः, पूरिमं येन वंशशलाकामयपञ्जरकादि कूर्चादि वा पूर्यते सांयोगिकं-यत्परस्परतो नालसंघातनेन संघात्यते अलंकृतं कृतालंकारं, विभूषितं जातविभूषम्। "सहावेह ०जाव सदाविति' 'एगा वरतरुणी त्यादिशृङ्गारस्यागारमिव शृङ्गारागारम्, अथवा-शृङ्गारप्रधान आकारो यस्याश्चारुश्चा वेषो यस्याः सा तथा, सङ्गतेषु गतादिषु निपुणा युक्तेषूपचारेषु कुशला च या सा तथा, तत्र विलासो नेत्रविकारो, यदाह- "हावो मुखविचारः स्याद्भावश्चित्तसमुद्भवः। विलासो नेत्रजो ज्ञेयो, विभ्रमो भ्रूसमुद्भवः॥१॥ संलापो मिथो भाषा, उल्लपः काकुवर्णनम्।" आह च-"अनुलापो मुहुर्भाषा, प्रलापोऽनर्थकं वचः। काक्वा वर्णनमुल्लापः,संलापो भाषणं मिथः / / 1 / / " इति। 'आमेलग' त्ति आपीड:-शेखरः स चस्तनः प्रस्तावाचूचुकस्तत्प्रधानौ आमेलको वा परस्परभीषत् संबद्धौ यमलौ-समश्रेणि-स्थिती युगलौ-युगलरूपौ द्वावित्यर्थः, वर्तितौ-वृत्तौ अभ्युन्नतौ-उचौ पीनौस्थूलौ रतिदौ-सुखप्रदौ संस्थितौ विशिष्टसंस्थानवन्तौ पयोधरौ-स्तनौ यस्याः सा तथा, हिमंचरजतंच कुन्दश्वेन्दुश्चेति द्वन्द्वः एषामिव प्रकाशौ यस्य तत्तथा सकोरण्टानि कोरण्टकपुष्पगुच्छयुक्तानि माल्यदामानिपुष्पमाला यत्र तत्तथा, धवलमातपत्रं-छत्रं, नानामणिकनकरत्नानां महार्हस्य महाघस्य तपनीयस्यच सत्कावुज्ज्वलौ विचित्रौ दण्डौ ययोस्ते तथा, अत्र कनक-तपनीययोः को विशेषः? उच्यते-कनकं पीतं, तपलीयं रक्तम्, इति। 'चिल्लियाओ' त्ति दीप्यमाने लीने इत्येके सूक्ष्मवरदीर्घवाले शंखकुन्ददकरजसाम् अमृतस्य मथितस्य सतो यः फेन पुञ्जस्तस्य च सन्निकाशे सदृशे येते तथा, चामरे, चन्द्रप्रभवज्रवैडूर्यविमलदण्डे, इह चन्द्रप्रभः चन्द्रकान्तमणिः, तालवृन्तंव्यजनविशेषः मत्तगजमहामुखस्य आकृत्या आकारेण समानः-सदृशो यः स तथा तं भृङ्गारम् ‘एगे' त्यादि,एक:-असदृशः आभरणलक्षणो गृहीतो निर्योगःपरिकरो यैस्ते तथा तेषां कौटुम्बिकवरतरुणानां सहस्रमिति। 'तएणं ते कोडुंबियवरतरुणपुरिसा सद्दाविय' त्ति शब्दिताः 'समाण' ति सन्तः, अट्ठमंगलय त्ति अष्टावष्टाविति वीप्सायां द्विवचनं मङ्गलकानिमाङ्गल्यवस्तूनि, अन्ये त्याहुः अष्टसंख्यानि अष्टमङ्गलसंज्ञानिवस्तूनीति 'तप्पढ़मयाए' त्ति तेषां विवक्षितानांमध्ये प्रथमता तत्प्रथमता तया 'वद्धमाणयं' ति शरावं, पुरुषारूढः पुरुष इत्यन्ये, स्वस्तिकपञ्च-कमित्यन्ये, प्रासादविशेष इत्यन्ये 'दप्पण' ति आदर्शः, इह यावत्करणादिदं दृश्यम्'तयाऽणंतरं च णं पुण्णकलसभिंगारा दिव्वा य छत्तपडागा सचामरा दंसणरइयआलोइयदरिसणिज्जा वाउद्भूयविजयवेजयंती य ऊसिया गगणतल १-कोरेण्ट शब्दोऽपि।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy