________________ मेहकुमार 392 - अमिधानराजेन्द्रः - भाग 6 मेहकुमार विशेषितः, सरसकुङ कुमेन, नीरसं हि विवक्षितवर्णोपेतं न भवतीति सरसमुक्तं, तथा उरभ्रः ऊरणः शशः-शशकस्तयो रुधिरेण-रक्तेन इन्द्रगोपको-वर्षासु कीटकविशेषस्तेन च समा प्रभा येषां ते तथा तेषु रक्तेष्वित्यर्थः, तथा बर्हिणो-मयूराः नीलं-रत्नविशेषः गुलिकावर्णकद्रव्यं शुकचाषयोः पक्षिविशेषयोः पिच्छं-पत्रं भृङ्ग:-कीटविशेषस्तस्य पत्रं-पक्षः सासको-बीयकनामा वृक्षविशेषः, अथवा--'साम त्ति' पाठः तत्र श्यामा-प्रियङ्गुःनीलोत्पलनिकर:- प्रतीतः नवशिरीषकुसुमानि च नवशाढलं-प्रत्यग्रहरितम् एतत्समप्रभेषु नीलप्रभेषु नीलवर्णेष्वित्यर्थः, तथा जात्यं-प्रधानं यदजन-सौवीरकं भृङ्गभेदःभृङ्गाभिधानः कीटविशेषः विदलिताङ्गारो वारिष्टकं-रत्नविशेषः, भ्रमरावली-प्रतीता / गवलगुलिका-महिषशृङ्गगोलिका कज्जलं-मषी तत्समप्रभेषु कृष्णेष्वित्यर्थः स्फुरद्विद्युत्काश्च सगर्जिताश्च ये तेषु, तथा वातवशेन विपुले गगने चपलं यथा भवत्येवं परिसक्किरसुत्ति परिष्वष्कितुं शीलं येषां ते तथा तेषु, तथा निर्मलवरवारिधाराभिः प्रगलित:-क्षरितः प्रचण्ड-मारुतसमाहतः सन् 'समोत्थरंत' त्ति समवस्तृणंश्चमहीपीठमा-क्रामन् उपर्युपरिचसातत्येन त्वरितश्चशीघ्रो यो वर्षो-जलसमूहः स तथा तं प्रवृष्टषु-वर्षितुमारब्धेषु मेघेष्विति प्रक्रमः, धाराणां पहकरो' त्ति निकरस्तस्य निपातः-पतनं तेन निर्वापितं-शीतलीकृतं यत्तत्तथा तस्मिन्, निर्वापितशब्दाच सप्तम्येकवचनलोपो दृश्यः, कस्मिन्नित्याहमेदिनीतले भूतले, तथा हरितकानां-हस्वतृणानां यो गणः स एव कञ्चुको यत्राच्छादकत्वात् तत्तथा तत्र, 'पल्लविय' त्ति इह सप्तमीबहुवचनलोपो दृश्यः, ततः पल्ल-वितेषु पादपगणेषु तथा वल्लीवितानेषु प्रसृतेषु-- जातप्रसरेष्वित्यर्थः, तथोन्नतेषु भूप्रदेशेष्विति गम्यते सौभाग्यमुपगतेषु अनवस्थितजलत्वेनाकर्दमत्वात् पाठान्तरे नगेषु पर्वतेषु नदेषुवा-हदेषु तथा वैभाराभिधानस्य निरेःवे प्रपाततटा:-भृगुतटाः कटकाचपर्वतैकदेशास्तेभ्यो ये विमुक्ताः-प्रवृत्तास्ते तथा तेषु, केषु? 'उज्झरेसु' त्ति निर्झरेषु त्वरितप्रधावितेन यः ‘पल्लोट्ट' त्ति प्रवृत्तः-उत्पन्नः फेनस्तेन आकुलं व्याप्तम्। 'सकलुसं' ति सकालुष्यं जलं वहन्तीषु गिरिनदीषु सर्जार्जुननीपकुटजानां वृक्ष-विशेषाणां यानि कन्दलानिप्ररोहाः शिलन्ध्राश्वछत्रकाणि तैः कलितानि यानि तानि तथा तेषु उपवनेषु, तथा मेघरसितेन हृष्ट-तुष्टा-अतिहृष्टाश्चेष्टिताश्च कृतचेष्टा येते तथा तेषु, इदं च सप्तमीलोपात्, हर्षवशात् प्रमुक्तो मुत्कलीकृतः कण्ठोगलो यस्मिन् स तथा स चाऽसौ केकारवश्च तं मुञ्च सु वर्हिणेषु मयूरेषु, तथा ऋतुवशेन कालनिशेषबलेन यो मदस्तेन जनितं तरुणसहचरीभिःयुवति-मयूरीभिः सह प्रवृत्तं प्रनतनं येषां ते तथा तेषु, बर्हिष्वित्यन्वयः, नवः सुरभिश्च यः शिलीन्ध्रकुटजकन्दलकदम्बलक्षणानां पुष्पाणां गन्धस्तेन या घ्राणिः-तृप्तिस्तां मुञ्चत्सुगन्धोत्कर्षतां विदधानेष्वित्यर्थः उपवनेषु-भवनासन्नवनेषु, तथा परभृतानां कोकिलानां यद्रुतं-रवो रिभितं स्वरघोलनावत्तेन संकुलानि यान्युपवनानि तानि तथा तेषु 'उद्दाइंत' तिशोभमाना रक्ता इन्द्रगोपकाः-कीटविशेषाः स्तोककानां- | चातकानां कारुण्यप्रधानं विलपितं च येषु तानि तथा तेषूपवनेष्वित्यन्ययः, तथा अनदततृणैर्मण्डितानि यानि तानि तथा तेषु, दर्दुराणां प्रकृष्ट जल्पितं येषुतानि तथा तेषु, संपिण्डिता-मिलिताः दृप्ता-दर्पिताः भ्रमराणां मधुकरीणां च 'पहकर त्ति निकरा येषु तानितथा, परिलिन्त' त्ति परिलीयमानाः संश्लिष्यन्तो मत्ताः षट्पदाः कुसुमासवलोलाःमकरन्दलम्पटाः मधुरं-कलं गुञ्जन्तः-शब्दायमानाः देशभागेषु येषां तानि तथा ततः कर्मधारयः ततस्तेषु उपवनेषु, तथा परिश्यामिताःकृष्णी-कृताः सान्द्रमेघाच्छादनात्, पाठान्तरेण-परिभ्रामिताः कृतप्रभा-भ्रंशा चन्द्रसूरग्रहाणां यस्मिन्प्रनष्टा च नक्षत्रतारकप्रभा यस्मिंस्ततथा तस्मिन्नम्बरतले इति योगः, इन्द्रायुधलक्षणो बद्ध इव बद्धः चिह्नपट्टीध्वजपटो यस्मिस्तत्तथा तत्राम्बरतले-गगने उड्डीनब-लाकापड क्तिशोभमानमेघवृन्देऽम्बरतले इति योगः, तथा कारण्ड-कादीनां पक्षिणां मानससरोगमनादि प्रत्यौत्सुक्यकरे संप्राप्ते-उक्तलक्षणयोगेन समागते प्रावृषि काले, किंभृता? 'अम्मयाओ?' इत्याह-'हायाओ' इत्यादि, किं ते इति किमपरमित्यर्थः, वरौ पादप्राप्तनूपुरौ मणिमेखला रत्नकाची हारश्च यासांतास्तथा रचितानिन्यस्तानि उचितानि-योग्यानि कटकानि प्रतीतानिखुडकानिच-अङ्गुलीयकानियासांतास्तथा विचित्रैर्वरवलयैः स्तम्भिताविव स्तम्भितौ भुजौ यासां तास्तथा ततः पदत्रयस्य कर्मधारयः / तथा "कुंडलोजोतितानना वरपायपत्तनेउरमणि-मेहलाहाररइयउचियकडगखुड्डयएगावलिकंठमुरयतिसरयवरवलयहेमसुत्तकुंडलुजोतियाणणाओ" ति पाठान्तरं तत्र वरपादप्राप्त-नू पुरमणिमेखलाहारास्तथा रचितान्युचितानि कटकानि च खुड्डकानिच एकावली च-विचित्रमणिकृता एकसरिका कण्ठमुरजश्व-आभरणविशेषः त्रिसरक च वरवलयानिच हेमसूत्रकंचसंकलकंयासांतास्तथा, तथा कुण्डलोद्योतिताननास्ततो वरपादप्राप्तनू पुरादीनां कर्मधारयः रत्नविभूषिताङ्ग्यः नासानिःश्वासवातेनोह्यते यल्लघुत्वात्तत्तथा चक्षुर्हरं दृष्ट्याक्षेपकत्वात्, अथवा-प्रच्छादनी-याङ्गदर्शनाचक्षुहरति धरति वा निवर्तयति यावत्वात्तत्तथा, वर्ण स्पर्शसंयुक्तं वर्णस्पर्शातिशायीत्यर्थः हयलालायाअश्वलालायाः सकाशात् पेलव' त्ति पेलवत्त्वेन मृदुत्वलघुत्वलक्षणेनातिरेकः अतिरिक्तत्वं यस्य तत् तथा, धवलं च तत् कनकेन खचितंमण्डितमन्तयोः अञ्चलयोः कर्मवानलक्षणं यस्यतत्तथा लच्चेति वाक्यम, आकाशस्फटिकस्य सदृशी प्रभा यस्य धवलत्वात्तत्तथा, अंशुकवस्त्रविशेषः प्रवरमिहानुस्वारलोपो दृश्यः परिहिताः-निवासिताः दुकूलं च वस्त्रम् अथवा-दुकूलो वृक्षविशेषः तल्कलाज्जातंदुकूलं वस्त्रविशेष एव तत् सुकुमालमुत्तरीयम्-उपरिकायाच्छादनम्यासांतास्तथा, सर्वर्तुकसुरभिकुसुमैःप्रवरैर्माल्यैश्चग्रथितकुसुमैः शोभितं शिरो यासां तास्तथा, पाठान्तरे-'सर्वर्तुकसुरभिकुसुमैः सुरचिता प्रलम्बमाना शोभमाना कान्ता विकसन्तीचित्रामालायासांतास्तथा, एवमन्यान्यपि पदानि बहुवचनान्तानि संरकरणीयानि-इह वर्णके बृहत्तरो वाचानाभेदः, तथा चन्द्रप्रभवरवैडूर्यविमलदण्डाः शङ्खकुन्ददकरजोऽमृतमथितफेनपुञ्जसन्निकाशाश्चयेचत्वारश्वामराः चामराणि तद्वालैर्वीजितमङ्गंयासांतास्तथा, अयमेवार्थोवाचनान्तरे