________________ मेहकुमार 390- अमिधानराजेन्द्रः - भाग 6 मेहकुमार कर्मधारयः अथवा-कल्पितहारादिभिः सुकृता शोभा यस्य स तथा, तथा पिनद्धानि-परिहितानि ग्रैवेयकाङ्गुलीयकानि येन स तथा, तथा ललिताङ्गके अन्यान्यपिललितानि कृतानिन्यस्तानि आभरणाणि यस्य स तथा, ततः पदद्वयस्य कर्मधारयः, तथा नानामणीनां कटकत्रुटिकैःहस्तबाडाभरणविशेषैर्बहुत्वात् स्तम्भिताविव स्तम्भितौ भुजौ यस्य स तथा, अधिकरूपेण सश्रीकः-सशोभो यः स तथा, कुण्डलोद्योतिताननः मुकुटदीप्तशिरस्कः हारेणावस्तृतम्-आच्छादितं तेनैव सुष्ठ कृतरतिकं वक्षः-उरो यस्यासौ हारावस्तृतसुकृतरतिकवक्षाः, मुद्रिकापिङ्गलाङ्गुलीकः-मुद्रिकाः- अङ्गुल्याभरणानि ताभिः पिङ्गलाः-कपिलाः अङ्गुलयो यस्य स तथा, प्रलम्बेन-दीर्घेण प्रलम्बमानेन च सुष्ठ कृत्तं पटेनो-तरीयम्-उत्तरासगो येनस तथा, नानामणिकनकरत्नैर्विमलानि महार्हाणि-महा_णि निपुणेन शिल्पिना 'उविय' त्ति परिकर्मितानि 'मिसिमिसंत' त्ति दीप्यमानानि यानि विरचितानि निर्मितानि सुश्लिटानि सुगन्धीनि विशिष्टानि विशेषवन्त्यन्येभ्यो लष्टानिमनोहराणि संस्थितानि प्रशस्तानि च आविद्धानि-परिहितानि वीरवलयानि येन स तथा, सुभटो हि यदि कश्चिदन्योऽप्यस्ति वीर-व्रतधारी तदाऽसौ मां विजिल्य मोचयत्वेतानि वलयानीति स्पर्द्धयन् यानि परिदधाति तानि वीरवलयानीत्युच्यन्ते, कि बहुना? वर्णितेनेति शेषः, कल्पवृक्ष इव सुष्टु अलङ्कतो विभूषितश्च फलपुष्पादिभिः कल्पवृक्षो राजा तु मुकुटादिभिरलङ्घतो विभूषितस्तु वस्त्रादिभिरिति, सह कोरण्टकप्रधानैर्माल्यदामभिर्यच्छत्रं तेन ध्रियमाणेन, कोरण्टकः-पुष्पजातिः, तत्पुष्पाणि मालान्तेषु शोभार्थं दीयन्ते, मालायै हितानि माल्यानि-पुष्पाणि दामानिमाला इति, चतुर्णां चामराणां प्रकीर्णकानां बालैवींजितमङ्गं यस्येति वाक्यम्, मङ्गलभूतो जयशब्दः कृत आलोके-दर्शने लोकेन यस्य स तथा, तथा अनेके ये गणनायकाः-प्रकृतिमहत्तरा दण्डनायकाः तन्त्रपाला राजानो-माण्डलिकाः ईश्वराः-युवराजानो मतान्तरेणाणिमाद्यैश्वर्ययुक्ताः तलवराः परितुष्टनरपतिप्रदत्तपट्टबन्धविभूषिताः राजस्थानीयाः माडम्बिका:-छिन्नमडम्बाधिपाः कौटुम्बिकाःकतिपयकुटुम्बप्रभवोऽवलगकाः मन्त्रिणः-प्रतीताः महामन्त्रिणोमन्त्रिमण्डलप्रधानाः हस्तिसाधनोपरिका इति वृद्धाः, गणकागणितज्ञाः भाण्डागारिका इति वृद्धाः दौवारिका:-प्रतीहाराः राजद्वारिका वा अमात्या-राज्याधिष्ठायकाःचेटाः-पादमूलिकाः पीठम आस्थाने आसनासीनसेवका वयस्या इत्यर्थः 'नगरं' नगरवासिप्रकृतयो निगमा:कारणिकाः श्रेष्ठिनः-श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः सेनापतयः-नृपतिनिरूपिताश्चतुरङ्ग सैन्यनायकाः सार्थवाहाःसार्थनायकाः दूताः अन्येषां गत्वा राजादेशनिवेदकाः सन्धिपालाः राज्यसन्धिरक्षकाः एषां द्वन्द्वः ततस्तैः, इह तृतीयाबहुवचनलोपो द्रष्टव्यः, सार्द्ध-सह, न केवलं तत्सहितत्वमेवापि तु तैः समिति-समन्तात् परिवृतः-परिकरित इति, नरपतिर्मज्जनगृहात्प्रतिनिष्क्रामतीति सम्बन्धः किंभूतः? प्रियदर्शनः, क इव? धवलमहामेघनिर्गत इव शशी तथा 'ससि व्व' त्ति वत्करणस्यान्यत्र संबन्धस्ततो ग्रहगणदीप्यमानऋक्षतारागणानां मध्ये इव वर्तमान इति। सिद्धार्थकप्रधानो यो मङ्गलोपचारस्तेन कृतं शान्तिकर्म विघ्नोपशमकर्म येषु तानि तथा / 'णाणामणी' त्यादि यवनिकामाच्छादयतीति संबन्धः, अधिकं प्रेक्षणीयं रूपं यस्यां रूपाणि वायस्यांसा तथा ताम, महा_चासौ वरपत्तनेवरवस्त्रोत्पत्तिस्थाने उद्गता च-व्यूता तां श्लक्ष्णानि बहुभक्तिशतानि यानि चित्राणि तेषां स्थानं, तदेवाह-ईहामृगाः-वृकाः ऋषभाः-वृषभाः तुरगनरमकरविहगाः प्रतीताः व्यालाः-श्वापदभुजगाः किन्नराव्यन्तरविशेषाः रुरवोमृगविशेषाः सरभा-आटव्याः महाकायपशवः पराशरेति पर्यायाः चमराआटव्या गावः कुञ्जरा-दन्तिनः वनलता-अशोकादिलताः पद्मलता:पद्मिन्यः एतासां यका भक्तयो विच्छित्तयस्ताभिश्चित्रा या सा तथा ता, सुष्टु खचिता मण्डिता वरकनकेन प्रवरपर्यन्तानाम्- अञ्चलकरणवर्तिलक्षणानां देशभागा अवयवा यस्यां सा तथा ताम्, आभ्यन्तरिकीम्आस्थानशालाया अभ्यन्तरभागवर्तिनी यवनिकांकाण्डपटम् 'अंछावेइ' त्ति आयतां काल्यति आस्तर–केण प्रतीतेन मृदुकमसूरकेण च प्रतीतेनावस्तृतं यत्तत्तथा, धवल-वस्त्रेण, प्रत्यवस्तृतम्-आच्छादितं विशिष्ट-शोभन मङ्गस्य सुखः स्पर्शो यस्यतत्तथा, अष्टाङ्गम्- अष्टभेदं दिव्योत्पातान्तरिक्षादिभेदं यन्महानिमित्तं-शास्त्रविशेषः तस्य सूत्रार्थपाठाका ये ते तथा तान् "विणयेण वयणं पडिसुणेति' त्ति प्रतिशृण्वन्ति-अभ्युपगच्छन्ति वचनं, विनयेन किम्भूतेनेत्याह-'एव' मिति यथैव यूयं भणथ तथैव "देवो' त्ति हेदेव! 'तहत्ति' त्ति-नान्यथा आज्ञया भवदादेशेन करिष्याम इत्येवमभ्युपगमसूचकपदचतुष्टयभणनरूपेणेति 'जाव हियय त्ति' हरिसक्सविसप्पमाणहियया, स्नानानन्तरं कृतं बलिकर्म यैः स्वगृहदेवतानां ते तथा 'जाव पायच्छित्त' त्ति 'कयकोउयमंगलपायच्छित्ता' तत्र कृतानि कौतु-कमङ्गलान्येवेति प्रायश्चित्तानि दुःस्वप्नादिविघातार्थमवश्यकरणीयत्वायैस्ते तथा, तत्र कौतुकानिमषीतिलकादीनि मङ्गलानितु-सिद्धार्थकदध्यक्षतर्वाङ्कुरादीनि हरितालिका-दूर्वा सिद्धार्थका अक्षताश्च कृता मूर्द्धनि यैस्ते तथा, वचित् 'सिद्धत्थयहरियालिया-कयमंगलमुद्धाणा' एवं पाठः, स्वकेभ्य आत्मीयेभ्य इत्यर्थः / 'जएणं' विजएणं वद्धाति' जयेन विजयेन च वर्द्धस्व त्वमित्या- चक्षत इत्यर्थः, तत्र जयः-परैरनभिभूयमानता प्रतापवृद्धिश्च विजयस्तु-परेषामभिभव इति अर्चिताः-चर्चिताश्चन्दनादिना वन्दिताः-सद्गुणोत्कीर्तनन पूजिताः-पुष्पैर्मानितादृष्टिप्रणामतः सत्कारिताः-फलवस्त्रादिदानतः सम्मानितास्तथाविधया प्रति-पत्त्या 'समाण' त्ति सन्तः, 'अण्णमण्णेण सद्धिं ति अन्योऽन्येन सह इत्येवं 'संचालेंति' त्ति संचालयन्ति संचारयन्तीति पर्यालोचयन्तीत्यर्थः, लब्धार्थाः स्वतः पृष्टार्थाः परस्परतः गृहीतार्थाः पराभिप्रायग्रहणतः ततएव विनिश्चितार्थाः अतएव अभिगतार्था अवधारितार्था इत्यर्थः, 'गम्भं वक्कममाणंसि' त्ति गर्ने व्युत्क्रामति' उत्पद्यमाने, अभिषेक इति-श्रियाः संबन्धी, विमानं यो देवलोकादवतरति तन्माता पश्यति, यस्तु नरकादुद्दृत्योत्पद्यते तन्माता भवनमिति चतुर्दशैव स्वप्नाः, वि