________________ मेहकुमार 386 - अभिधानराजेन्द्रः - भाग 6 मेहकुमार गं महासुमिणं०जाव भुजो भुञ्जो अणुवूहति, तते णं धारिणी देवी सेणियस्स रन्नो अंतिए एयमटुं सोचा णिसम्म हट्ठ०जाव हियया तं सुमिणं सम्म पडिच्छति २त्ता जेणेव सए वासघरे तेणेव उवागच्छति २त्ता ण्हाया कयवलिकम्मा०जाव विपुलाहिं जाव विहरति। (सूत्र-१२) 'पचूसे' त्यादि प्रत्यूषकाललक्षणो यः समयः-अवसरः स तथा तत्र कौटुम्बिकपुरुषान्-आदेशकारिणः 'सद्दावेइ' त्ति शब्दं करोति शब्दयति 'उपस्थानशालाम्, आस्थानमण्डपं' गन्धोदकेने' त्यादि गन्धोदकेन सिक्ता शुचिका-पवित्रा संमार्जिता कचरापनयनेन उपलिप्ता छगणादिना या सा तथा ताम्, इदं च विशेषणं गन्धोदकसिक्तसंमार्जितोपलिप्तशुचिकामित्येवं दृश्यम, सिक्ताद्यनन्तरभावित्वाच्छुचिकत्वस्य, तथा पञ्चवर्णः सरसः सुरभिश्च मुक्तः क्षिप्तः पुष्पपुञ्जलक्षणो यः उपचारः पूजा तेन कलिता या सा तथा ता 'काले' त्यादि पूर्ववत्, 'आणत्तियं पञ्चप्पिणह' त्ति आज्ञप्तिम्-आदेशं प्रत्यर्पयत-कृतां सती निवेदयत,'कल्ल' मित्यादि 'कल्ल' मिति श्वः प्रादुः-प्राकाश्ये ततः प्रकाशप्रभातायां रजन्यां 'फुल्लोत्पलकमलकोमलोन्मीलितं' फुल्लंविकसितं तच तदुत्पलं च पद्मं फुल्लोत्पलं तच्च कमलश्च-हरिणविशेषः फुल्लोत्प-लकमलौ तयोः कोमलम्-अकठोरमुन्मीलितंदलानां नयनयोश्चोन्मीलनं यस्मिस्तत्तथा तस्मिन्, अथ रजनीविभातानन्तरं पाण्डुरे शुक्ले प्रभाते-उषसि 'रत्तासोगे त्यादि रक्ताशोकस्य प्रकाशः प्रभा स च किंशुकं च पलाशपुष्पं शुक मुखं च गुजाफलविशेषो रक्तकृष्णस्तदर्द्ध बन्धुजीवकं च-बन्धूकं पारापतः-पक्षिविशेषः तचलननयने च परभृतः कोकिलः तस्य सुरक्तं लोचनं च 'जासुमिण' इति जपा-वनस्पतिविशेषाः तस्याः कुसुमं च ज्वलितज्वलनश्च तपनीयकलशश्च हिड्डुलको वर्णकविशेषस्तन्नि करश्वराशिरितिद्वन्द्वः, तत एतेषां यद्रूपं ततोऽतिरेकेण-आधिक्येन 'रेहत' त्ति शोभमाना स्वास्वकीया श्रीः-वर्णलक्ष्मीर्यस्य स तथा तस्मिन्, 'दिवाकरे' आदित्ये अथ अनन्तरं क्रमेण-रजनीक्षय-पाण्डुरप्रभातकरणलक्षणेन 'उदिते' उद्गते 'तस्स दिण (कर)करपरंपरावयारपारद्धम्मि अंधकारे' त्ति तस्य दिवाकरस्य दिने दिवसे अधिकरणभूते दिनाय वा यः करपरम्परायाः-- किरण-प्रवाहस्यावतारः अवतरणं तेन प्रारब्धम्-आरब्धमभिभवितुमिति गम्यते, अपराद्धंवा विनाशितं दिनकरपरम्परावतारप्रारब्धं तस्मिन् सति इह च तक्येति सापेक्षत्वेऽपि समासः, तथा दर्शना-दन्धकारेतमसि तथा बालातप एव कुडकुमंतेन खचिते इव जीवलोके सति, तथा लोचनविषयस्य–दृष्टिगोचरस्य यः 'अणुयासो त्ति' अनुकाशो विकाश प्रसर इत्यर्थस्तेन विकसंश्चासौ वर्द्धमानो विशदश्च स्पष्टः स चासौ दर्शितश्चेतिलोचनविषयानुकाशविशददर्शितस्तस्मिन्, कस्मिन्नित्याहलोके अयमभिप्रायः अन्धकारस्य क्रमेण हानौ लोचनविषयविकाशः क्रमेणैव भवति स च विकसन्तं लोकं दर्शयत्येव, अन्धकारसद्भावे दृष्टरप्रस्थरणे लोकस्य संकीर्णस्येव प्रतिभासनादिति, तथा कमलाकरा हृदादयस्तेषु खण्डानि-नलिनीखण्डानि तेषां बोधको यः तस्मिन् उत्थिते उदयानन्तरावस्थावाप्ते 'सूरे आदित्ये किंभूते? सहस्ररश्मौ / तथा 'दिनकरे' दिनकरणशीले तेजसा ज्वलति सतीति। 'अट्टणसाल' ति अट्टनशाला व्यायामशालेत्यर्थः, अनेकानि यानिव्यायामानि योग्या च-गुणनिका वल्गनंच-उल्ललनव्यामर्दनं च परस्परेण बाहाद्यङ्गमोटनं मल्लयुद्धं च प्रतीतं करणानि च बाहुभङ्ग विशेषा मल्लशास्त्रप्रसिद्धानि तैः श्रान्तः सामान्येन परिश्रान्तोऽङ्गप्रत्यङ्गापेक्षया सर्वतः शतकृत्वो यत्पक्वं शतेन वा कार्षापणानां यत्पक्वं तच्छतपक्कमेवमितरदपि सुगन्धिवरतैलादिभिरभ्यङ्गैरिति योगः आदिशब्दात्-धृतकर्पूरपानीयादिग्रहः किम्भूतैः? 'प्रीणनीयैः रसरुधिरादिधातुसमताकारिभिर्दी - पनीयैः--अग्निजननैः दर्पणीयैः बलकरैः मदनीयैः-मन्मथव्हणीयैर्मासोपचयकारिभिः सर्वेन्द्रियगात्रप्रह्लादनीयैः अभ्यङ्गैस्नेहनैः अभ्यङ्गः क्रियते यस्य सोऽभ्यङ्गितः सन्, ततस्तैलचर्मणितैलाभ्यक्तस्य संबाधनाकरणाय यचर्म तत्तैलचर्म तस्मिन् संबाहिते 'समाणे' त्ति योगः कैरित्याह? पुरुषैः, कथम्भूतैः? प्रतिपूर्णानां पाणिपादानां सुकुमालकोमलानि अतिकोमलानि तलानि-अधोभागा येषां ते तथा तैः छेकैः अवसरहर्द्विसप्ततिकलापण्डितैरिति च वृद्धाः, दक्षैः-कार्याणामविलम्बितकारिभिः प्रष्टै:-वाग्मिभिरिति वृद्धव्याख्या, अथवा-प्रष्टैः अग्रगामिभिःकुशलैः- साधुभिः संबाधनाकर्मणि मेधाविभिः-अपूर्वविज्ञानग्रहणशक्तिनिष्ठैःनिपुणैः-क्रीडाकुशलैर्निपुणशिल्पोपगतैः-निपुणानिसूक्षमाणि यानि शिल्पानि-अङ्गमर्दनादीनि तान्युपगतानि-अधिगतानि यैस्ते तथा तैर्जितपरिश्रमैः, व्याख्यान्तरं तु छेकैः-प्रयोगर्दक्षैःशीघ्रकारिभिः 'पत्त हिं' ति प्रामार्थरधिकृतकर्मणि निष्ठां गतैः कुशलैःआलोचितकारिभिः मेधाविभिः सकृच्छुतदृष्टकर्मज्ञैः निपुणः-उपायारभिभिः निपुणशिल्पोपगतैः-सूक्ष्मशिल्पसमन्वितैरिति, अभ्यङ्गनपरिमर्दनोबलनानां करणे ये गुणास्तेषु निर्मातः, अस्थ्नां सुखहेतुत्वादस्थिसुखा तथा 'संवाहनये' ति विश्रामणया अपगतपरिश्रमः 'समंतजालाभिरामे' ति समन्तात्-सर्वतो जालकैर्विच्छित्तिभिः छिद्रवद् गृहावयवविशेषैरभिरामो-रम्यो यः स्नानमण्डपः स तथा, पाठान्तरे'समत्तजालाभिरामे' ति तत्र समस्तैर्जालकैरभिरामो यः स तथा, पाठान्तरेण-'समुत्तजालाभिरामे' सह मुक्ताजालैयों वर्ततेऽभिरामश्च स तथा तत्र, शुभोदकैः-पवित्रस्थानाहृतैः गन्धो-दकैः-श्रीखण्डादिमित्रैः पुष्पोदकैः-पुष्परसमित्रैः शुद्धोदकैश्च स्वाभाविकैः कथं मजित इत्याह'तत्र' स्नानावसरे यानि कौतुकशतानि रक्षादीनि तैः पक्ष्मले' त्यादि पक्ष्मला-पक्ष्मवी अत एव सुकुमाला गन्धप्रधाना काषायिकाकषायरक्ता शाटिका तया लूषितमङ्गं यस्य स तथा, अहतंमलमूषिकादिभिरनुपद्रुतं प्रत्य-ग्रमित्यर्थः, सुमहाघु दूष्यरत्नं-प्रधानवस्त्रं तेन सुसंवृतः परिगत-- स्तद्वा सुष्ठु संवृत-परिहितं येन स तथा, शुचिनी-पवित्रे माला चपुष्पमाला वर्णकविलेपनं च-मण्डनकारि कुङ्कुमादि विलेपनं यस्य स तथा, आविद्धानि--परिहितानि मणिसुवर्णानि येन स तथा, कल्पितोविन्यस्तो हारः-अष्टादशसरिकः अर्द्धहारो-नवसरिकः त्रिसरिकं च प्रतीतमेव यस्य स तथा, प्रालम्बोझुम्बनकं प्रलम्बमानो यस्य स तथा, कटिसूत्रेण-कट्याभरणविशेषेण सुष्ठुकृताशोभायस्यसतथा, ततः पदत्रयस्य