________________ मेहकुमार 386 - अभिधानराजेन्द्रः - भाग 6 मेहकुमार स्याः सा प्रीतिमनाः, 'परमसोमणस्सिया' परमं सौमनस्य संजातंयस्याः सा परमसौमनस्यिता, हर्षवशेन विसर्षद्-- विस्तारयायि हृदयं यस्याः सा तथा, सर्वाणि प्रायः एकाथिकान्येतानि पदानि प्रमोदप्रकर्षप्रतिपादनार्थत्वात् स्तुतिरूपत्वाच न दुष्टानि, आह च–''वक्ता हर्षभयादिभि-राक्षिप्तमनास्तथा स्तुवन्निन्दन्। यत्पदमसकृद् ब्रूयात्, तत्पुनरुक्त न दोषाय ||1||" इति पञ्चोरुहइ' त्ति प्रत्यवरोहति, अत्वरितं मानसौत्सुक्याभावेनाचपलं कायतः असंभ्रान्त्याऽस्खलन्त्या अविलम्बितया-अविच्छिन्नतया 'राजहंससरिसीए' त्ति राजहंसगमनसदृश्या गत्या 'ताहिं' ति या विशिष्टगुणोपेतास्ताभिर्गीर्भिरिति सम्बन्धः इष्टाभिः तस्य वल्लभाभिः कान्ताभिः-अभिलषिताभिः सदैव तेन प्रियाभिः अद्वेष्याभिः सर्वेषामपि मनोज्ञाभिः-मनोरमाभिः मनःप्रियाभिश्चि-- न्तयाऽपि उदाराभिः-उदारनादवर्णोच्चारादियुक्ताभिः कल्याणाभिः समृद्धिकारिकाभिः शिवाभिः-गीर्दोषानुपद्रताभिः धान्याभिः–धनलम्भिकाभिर्मङ्गल्याभिः-मङ्गलसाध्वीभिः सश्रीकाभिःअलङ्कारादिशोभावद्भिः हृदयगमनीयाभिः हृदये या गच्छन्ति कोमलत्वात् सुबोधत्याच तास्तथा ताभिः, हृदयप्रह्लादिकाभिः-हृदय-प्रह्लादनीयाभिःआह्लादजनकाभिः 'मितमधुररिभितगम्भीरसश्रीकाभिः' मिताः-वर्णपदवाक्यापेक्षया परिमिताः मधुराः-स्वरतः रिभिताः स्वरघोलनाप्रकारवत्यः गम्भीराः-अर्थतः शब्दतश्च सह श्रिया-उक्तगुणलक्ष्म्या यास्तास्तथा, ततः पदपञ्चकस्य कर्मधार--यस्ततस्ताभिः गीर्भिः-वाग्भिः संलपन्तीपुनः पुनर्जल्पन्तीत्यर्थः, नानामणिकनकरत्नानां भक्तिभिः-विच्छित्तिभिश्चित्रं-विचित्रं यत्तत्तथा तत्र भद्रासने-सिंहासने आश्वस्ता गतिजनितश्रमापगमात्, विश्वस्ता संक्षोभाभावात्, अनुत्सुका या 'सुहासणवरगय' त्ति सुखेन शुभे वा आसनगरे गतास्थिता वा सा तथा, करतलाभ्यां परिगृहीतः-आत्तःकरतलपरिगृहीतस्तं शिरस्थावत आवर्तनं-परिभ्रमणं यस्य स तथा शिरसावत इत्येके, शिरसा अप्राप्त इत्यन्ये, तमञ्जलिं मस्तके कृत्वा एवमवादीत्-‘किं मन्ने' इत्यादि, को मन्ये कः कल्याणफलवृत्तिविशेषो भविष्यति, इह मन्ये वितर्कार्थो निपातः, 'सोच' त्ति श्रुत्वा श्रवणतः निशम्य-अवधार्य हृष्टतुष्टो यावद्विसर्पढ्दयः / तथा वाचनान्तरे पुनरिह राज्ञीवर्णके चेदनु-पलभ्यते तते णं सेणिए राया धारिणीए देवीए अंतिए एयमटुं सोचा निसम्म हट्ठ० जाव हियये धाराहयनीवसुरमिकुसुमधुचुमालइयतणुऊससियरोमकूवे तं सुमिणं उगिण्हइ उग्गिण्हइत्ता ईहं पविसति 2 त्ता अप्पणो साभाविएणं मइपुव्वएणं बुद्धिविन्नाणेणं तस्स सुमिणस्स अत्थोग्गहं करेति २त्ता धारणिं देवीं ताहिं ०जाव हिययपल्हायणिज्जाहिं मिउमहुररिभियगंभीरसस्सिरियाहिं वग्गूहिं अणुवूहेमाणे एवं वयासी-उराले णं तुमे देवाणुप्पिए ! सुमिणे दिडे, कल्लाणा णं तुमे देवाणुप्पिए ! सुमिणे | दिद्वे, सिवे धन्ने मंगल्ले सस्सिरीए णं तुमे देवाणुप्पिए ! सुमिणे दिटे, आरोग्गतुहिदीहाउयकल्लाणमंगलकारए णं तुमे देवी सुमिणे दिटे, अत्थलाभो ते देवाणुप्पिए ! पुत्तलाभो ते देवाणुप्पिए ! रजलाभो भोगसोक्खलाभो ते देवाणुप्पिए ! एवं खलु तुम देवाणुप्पिए नवण्हं मासाणं बहुपडिपुन्नाण्णं अट्ठमाण य राइंदियाणं विइकंताणं अम्हं कुलकेउं कुलदीवं कुलपय्वयं कुलवडिसयं कुलतिलकं कुलकित्तिकरं कुलवित्तिकरं कुलणंदिकरं कुलजसकरं कुलाधारं कुलपायवं कुलविवद्धणकरं सुकुमालपाणिपायं०जाव दारयं पयाहिसि, से वि य णं दारए उम्मुक्कवालभावे विनयपरिणयमेत्ते जोव्वणगमणुपत्ते सूरे वीरे विकते विच्छिन्नविपुलबलवाहणे रजवती राया भविस्सइ, तं उराले णं तुमे देवीए सुमिणे दिडेजाव आरोग्गतुहिदीहाउकल्लाणकारए णं तुमे देवी! सुमिणे दिटे त्ति कट्ट भुजो 2 अणुवुहेह। (सूत्र-१०) तते णं सा धारणी देवी सेणिएणं रना एवं दुत्ता समाणी हद्वतुट्ठा०जाव हियया करतलपरिग्गहियं०जाव अंजलिं कट्ट एवं वयासी-एवमेयं देवाणुप्पिया! तहमेयं अवितहमेयं असंदिद्धमेयं इच्छियमेयं देवाणुप्पिए ! पडिच्छियमेयं इच्छियपडिच्छियमेयं सच्चे णं एसमटे जंणं तुज्झे वदह त्ति कट्ट तं सुमिणं सम्म पडिच्छइ पडिच्छइत्ता सेणिएणं रना अब्मणु-ण्णाया समाणी णाणामणिकणगरयणभत्तिचित्ताओ भद्दासणा-ओ अन्भुट्टेइ अन्मुढेत्ता जेणेव सए सयाणिज्जे तेणेव उवागच्छइर त्ता सयंसि सयणिजंसि निसीयइ निसीयइत्ता एवं वदासी-मा मे से उत्तमे पहाणे मंगल्ले सुमिणे अन्नेहिं पावसुमिणेहिं पउिहमिहि त्ति कट्ट देवयगुरुजणसंबद्धाहिं पसत्थाहिं धम्मियाहिं कहाहिं सुमिणजागरियं पडिजागरमाणी विहरइ। (सूत्र-११) 'धाराहयनीयसुरभिकुसुमचुचुमालइयतणुऊससियरोमकूवे' त्ति तत्र नीपः- कदम्बः, धाराहतनीपसूरभिकुसुममिव 'चंचुमालइय' त्ति पुलकिता तनुर्यस्य स तथा, किमुक्तं भवति? 'उससिय' त्ति उच्छसिता रोमकूपा-रोमरन्ध्राणि यस्य स तथा, तंस्वप्नमव-गृह्णाति अर्थावग्रहतः ईहामनुप्रविशति-सदर्थपर्यालोचनलक्षणां ततः 'अप्पणो' त्ति आत्मसंबन्धिना स्वाभाविकेन सहजेन मति-पूर्वेणआभिनिबोधिकप्रभवेन बुद्धिज्ञानेन–मतिविशेषभूतौत्पत्तिक्यादिबुद्धिरूपपरिच्छेदेन अर्थावग्रहंस्वप्नफलनिश्चयं करोति, ततोऽवादीत्-'उरालेण' मित्यादि, अर्थलाभ-इत्यादिषु भविष्यतीति शेषो दृश्यः, एवमुपबृहयन्–अनुमोदयन् 'एवं खलु' त्ति एवंरूपादुक्तफलसाधनसमर्थात् स्वप्नात् दारकं प्रजनिष्यसीति संबन्धः, 'बहुपडिपुण्णाणं' ति अतिपूर्णेषु षष्ठ्याः सप्तम्यर्थत्वात् अर्द्धमष्टमं येषु तान्यष्टिमानि तेषु रात्रिन्दिवेषु अहोरात्रेषु व्यतिक्रान्तेषु,कुलकेत्वादीन्येकादश पदानि, तत्र केतुः-चिह्नध्वज इत्यर्थः