SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ मेहकुमार 384 - अभिधानराजेन्द्रः - भाग 6 मेहकुमार कट्ट सेणियं रायं एवं वयासी-एवं खलु अहं देवाणुप्पिया! अज्ज तंसि तारिसगंसिसयणिशंसि सालिंगणवट्टिए०जाव नियगवयणमइवयंतं गयं सुमिणे पासित्ता णं पडिबुद्धा, तं एयस्सणं देवाणुप्पिया ! उरालस्स०जाव सुमिणस्स के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सति? (सूत्र-९) 'धारणी नामं देवी होत्था०जाव सेणियस्स रन्नो इट्ठा० जाव विहरई' इत्यत्र द्विवच्छब्दकरणादेवं द्रष्टव्यम्-'सुकुमालपाणिपाया अहीणपंचेंदियसरीरा लक्खणवंजणगुणोववेया माणुम्माणपमाणसुजायसव्वंगसुन्दरंगी ससि सोमाकारा कंता पियदसणा सुरूवा करतलपरिमिततिवलियबलियमज्झा' करतलपरिमितो-मुष्टिग्राह्यस्त्रिवलीकोरेखात्रयोपेतो बलितो-बलवान् मध्यो-मध्यभागो यस्याः सा तथा, 'कोमुईरयणिकर-विमलपडिपुन्नसोमवयणा' कौमुदीरजनीकरवत्कार्तिकीचन्द्र इव विमलं-प्रतिपूर्ण सौम्यं च वदनं यस्याः सा तथा 'कुंडलुल्लिहिय गंडलेहा कुण्डलाभ्यामुल्लिखिता-घृष्टा गण्डलेखाःकपोलवि-रचितमृगमदादिरेखा यस्याःस तथा 'सिंगारागारचारुवेसा' शृङ्गा-रस्य-रसविशेषस्यागारमिवागारम् / अथवा-शृङ्गारो-मण्डनभूषणाटोपःतत्प्रधानः आकारः आकृतिर्यस्याः सा तथा, चारुर्वेषोनेपथ्यं यस्याः सा तथा ततः कर्मधारयः। तथा 'संगयगयहसियभणियविहियविलाससललियसंलावणिउणजुत्तो-वयारकुसला' संगता उचिता गतहसितभणितविहितविलासा यस्याः सा तथा, तत्र विहितं चेष्टितं, विलासो-नेत्रचेष्टा, तथा सह ललितेन-प्रसन्नतया ये संलापाः परस्परभाषणलक्षणास्तेषु निपुणा या सा तथा, युक्ता-संगता ये उपचारालोकव्यवहारास्तेषु-कुशला या सा तथा, ततः पदत्रयस्य कर्मधारयः, 'पसाझ्या' चित्तप्रसादजनिका 'दरिसणिज्जा' यां पश्यञ्चक्षुर्न श्राम्यति, 'अभिरुवा' मनोज्ञरूपा 'पडिरूवा' द्रष्टारं द्रष्टारं प्रति रूपं यस्याः सा तथा 'सेणियस्स रन्नो इट्ठा' वल्लभा कान्ता काम्यत्वात्, प्रिया प्रेमविषयत्वात्, 'मणुन्ना' सुन्दरत्वात्, 'नामधेज्जा' नामधेयवती प्रशस्तनामधेयवतीत्यर्थः,नाम वा धार्य--हृदि धरणीयं यस्याः सा तथा, 'वेसासिया' विश्वसनीयत्वात् 'सम्मया' तत्कृतकार्यस्य सम्मतत्वाद्धहुमता-बहुशो बहुभ्यो वाऽन्येभ्यः? सकाशान्मता बहुमता,बहुमानपात्रं वा अणुमया' विप्रियकरणस्यापि पश्चान्मता अनुमता 'भंडकरंडगसमाणा' आभरणकरण्डकसमानोपादेयत्वात् 'तेल्लकेला-इव सुसंगोविया' तैलकेला-सौराष्ट्रप्रसिद्धो मृन्मयस्तैलस्य भाजनविशेषः स च भङ्गभयाल्लोच (ठिन) नभयाच सुष्टु संगोप्यते एवं साऽपि तथोच्यते। 'चेलपेडा' इव 'सुसंपरिगिहीया' वस्त्रमञ्जूषेवेत्यर्थः, 'रयणकरंडगोवियसुसार-विया' सुसंरक्षितेत्यर्थः,कुत इत्याह-माण सीयं माणं उण्हं मा णं दंसा मा णं मसगा मा णं बाला मा णं चोरा मा णं वाइयपित्तियसिंभियसन्निवाइयविविहरोगायंका फुसंतु त्ति कटु सेणिएणं रन्ना सद्धिं विउलाई भोगभोगाई भुंजमाणा विहरतिमा शब्दा निषेधार्याः, 'ण' कारा वाक्यालङ्कारार्थाः, अथवा-'माणं' ति मैनामिति प्राकृतत्वात्,ध्याला:- | श्वापदभुजगाः, रोगः, कालसहाः, आतङ्काः-सद्योघातिनः, इति कटु | इति कृत्वा इति हेतो ग-भोगान्- अतिशयवद्भोगानिति 'तएण' ति ततोऽनन्तर 'तंसि तारिसयास' त्ति यदिदं वक्ष्यमाणगुणं तस्मिस्तादृशके यादृशमुप-चितपुण्यस्कन्धानामङ्गिनामुचितं 'वरघरए' त्ति संबन्धः, वासभवने इत्यर्थः, कथंभूते- 'षट्काष्ठकं' गृहस्य बाह्यालन्दकं षड्दारुकमिति यदागमप्रसिद्धं, द्वारमित्यन्ये स्तम्भविशेषणमिदमित्यन्ये, तथा लष्टा-मनोज्ञा मृष्टा-मसृणाः संस्थिता-विशिष्टसंस्थानवन्तो येस्तम्भास्तथा उद्गता-ऊर्ध्वं गतास्तम्भेषुवा उद्गता व्यवस्थिताः स्तम्भोगताः प्रवराणां वराः-प्रवरवराः अतिप्रधानायाः शालभञ्जिकाः पुत्रिकाः, तथा उज्ज्वलानां मणीनां-चन्द्रकान्तादीनां कनकस्य रत्नानांक:तनादीनां यास्तूपिका-शिखरं, तथा विटङ्क:-कपोतपाली वरण्डिकाऽधोवती अस्तरविशेषः, जालं-सच्छिद्रो गयाक्षविशेषः, अर्द्धचन्द्रः अर्द्धचन्द्राकारं सोपानं नि!हकंद्वारपार्श्वविनिर्गतदारु, अन्तरम्-अस्तरविशेष एव पानीयान्तरमिति सूत्रधारैर्य व्यपदिश्यते निर्वृहकद्वयस्य यान्यन्तराणि तानि वा निर्मूहकान्तराणि 'कणकाली' अस्तरविशेषश्चन्द्रसालिका च-गृहोपरिशाला एतेषां गृहांशानां या विभक्तिः-विभजनं विविक्तता तया कलितं युक्तं युत्तत्तथा तस्मिन्, 'सरसच्छवाडवडवसरइए' ति स्थाप्यम्, कैश्चित् पुनरेवं संभावितमिदं 'सरसच्छधाऊवलवन्नरइए' त्ति तत्र सरसेन अच्छेन धातूपलेनपाषाणधातुना गैरिक-विशेषेणेत्यर्थः वर्णो रचितो यत्र तत्तथा 'बाहिरओ दूमियघट्टमटे' त्ति दूमितं-धवलितंघृष्टकोमलपाषाणादिना अतएव मृष्ट 'मसृणं यत्तत्तथा तस्मिन् तथा अभ्यन्तरतः प्रशस्तं-स्वकीय 2 कर्मव्यापृतं शुचि-पवित्रं लिखितं चित्रकर्म यत्र तत्तथा तस्मिन्, तथा नानाविधानां जातिभेदेन पञ्चवर्णानां मणिरत्नानां सत्कं कुट्टिम-तलं मणिभूमिका यस्मिस्तत्तथा तत्र, तथा पझैः-पद्माकारैरेवं लताभिरशोकलताभिः पद्मलताभिर्वा मृणालिकाभिः पुष्पवल्लीभिः-पुष्पप्रधानाभिः पत्रवल्लिभिः तथा वराभिः पुष्प--जातिभिः-मालतीप्रभृतिभिश्चित्रितमुल्लोकतलम्-उपरितन-भागो यस्मिन् तत्तथा तत्र, इह च प्राकृतत्वेन 'उल्लोयचित्तियतले' इत्येवं विपर्ययनिर्देशो द्रष्टव्य इति, अथवा-- पद्मादिभिरुल्लोकस्य चित्रितं तलम्-अधोभागो यस्मिन्निति, तथा वन्द्यन्त इति वन्दना-मङ्गल्याः ये वरकनकस्य कलशाः सुष्ठ-'निम्मिय' त्ति न्यस्ताः प्रतिपूजिताः-चन्दनादिचर्चिताः सरसपद्माः-सरसमुखस्थगनकमलाः शोभमाना द्वारभागेषु यस्य पाठान्तरापेक्षा चन्दनवरकनक-कलशैः सुन्यस्तैस्तथा प्रतिपुञ्जितैः-पुजीकृतैः सरसपौः शोभमाना द्वारभागा यस्य तत्तथा तस्मिन्, तथा प्रतरकाणि-स्वर्णादिभया आभरणविशेषास्तत्प्रधानमणिमुक्तानां दामभिः-स्रग्भिः सुष्ठ विरचिता द्वारशोभा यस्य तत्तथा तस्मिन्, तथा सुगन्धिवर--- कुसुमैमूंदकस्य-मृदोः पक्ष्मलस्य च-पक्ष्मवतः शयनस्य-तूल्यादिशयनीयस्य यः उपचारः पूजा उपचारो वा स विद्यते यस्मिन्, मण इत्यस्य मत्वर्थीयत्वात् तत् सुगन्धिवरकुसुममृदुपक्ष्मलशय-- नीयोपचारवत्तच्च यद् हृदयनिर्वृतिकर च-मनःस्वास्थ्यकरं तत्तथा तस्मिन्, तथा कूर्परश्व लवङ्गानि च फलविशेषाः-मलयचन्दनं च-पर्व
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy