________________ मूलवागरणि 378 - अमिधानराजेन्द्रः - भाग 6 मूलारिह मूलवागरणि(ण)-पुं०(मूलव्याकरणिन्) आद्यवक्तरि, ज्ञातरि, सम्म० १काण्ड। मूलविराहणा-स्वी०(मूलविराधना) प्राणातिपातादिविराधनायाम्, इयं मूलशब्देनोच्यते। जीतका अन्ये त्वाषाढाद्याः संवत्सरा इति तदाधदिने ज्येष्ठपूर्णिमानन्तरप्रतिपदिसंवत्सरस्तद्-दिवसे मूलनक्षत्रं भवति, ततः प्राधान्यादन्यत्र नक्षत्रशब्देन मूलं भणन्ति, तेन मूलविराधना-प्राणातिपातादतिचाररूपा ज्ञाप्येति। जीता मूलवीरिय-पुं०(मूलवीरिक) वैताळ्यपर्वते विद्याधरनिकायभेदे, आ० चू० 10 / मूलवेणी-स्त्री०(मूलवेणी) गृहच्छदनस्य मूलाधारे, "पट्टीयंसो, दोधार णाओ, चत्तारि मूलवेणीओ।" आचा०२ श्रु०१ चू०२अ०१ उ०। मूलसंघ-पुं०(मूलसङ्घ) ज्ञानदर्शनचारित्रादिधरे कुलादिस्थविरसमुदाये, पं०भा०। दंसणणाणचरित्ते, जो पुष्वपरूवणे य रयणाय। एसोय मूलसंघो,तिविहाथेरा करणजुत्ता। पं०भा०५ कल्प। कुलथेरो गुणेहिं उववेओ, एवं गुणसंघथेरो वि, संघथेरो नियमा जुगप्पहाणो, इयरे भइया, सो पुण एक्कको सीयघरसमाणो एसमूलसंधो। पं०चू०५ कल्प। मूलसिप्प-न०(मूलशिल्प) कुम्भकारादिशिल्पे, "पंच मूल-सिप्पाणि कुंभकारा चित्तगारा णतिका कम्मागारा कासवगा," आ०यू०१अ०। मूलसिरी-स्त्री०(मूलश्री) कृष्णवासुदेवपुत्रस्य साम्वस्याग्रमहिष्याम्, अन्ता तेणं कालेणं तेणं समएणं बारवतीनगरीए रेवतके नंदणवणे कण्हे वासुदेवे, तत्थणं बारवतीए नयरीए कण्हस्स वासुदेवस्स पुत्ते जंबवतीए देवीए अत्तत्ते संवे नाम कुमारे होत्था, अहीण०, तस्स णं संवस्स कुमारस्स मूलसिरि नामं मारिया होत्था। वन्नओ-अरहा समोसले कण्हे णिग्गते मूलसिरी विणिग्गयाजहा पउमा० नवरं देवाणुप्पिया ! कण्हं वासुदेवं आपुच्छामि० जाव सिद्धा। एवं मूलदत्ता वि। (सूत्र०११)। अन्त०१ श्रु० 5 वर्ग२ अ01 मूलहर-पुं०(मूलहर) यः पिर्तृपैतामहोपार्जितमर्थमन्यायेन भक्षयति। तस्मिन्, ध०१ अधिका मूला-स्वी०(मूला) कौशाम्ब्यां नगर्यां धनवाहश्रेष्ठिभार्यायाम् आ०म०१ अ०। आ०चू०। ('वीर' शब्दे विहारप्रस्तावे तत्कथा) मूलाबीय-न०(मूलाबीज) शाकविशेषबीजेषु, भ०६श०७ उ०। मूलारिह-न०(मूलाह) यस्य चासेवनायां सर्वपर्यायमपनीय पुनर्महाव्रतारोपणं क्रियते तन्मूलाईम्। प्रायश्चित्तभेदे, जीता अधुना मूलार्ह गाथाचतुष्टयेनाह / कलापकम्१-णंतिका-वस्त्रकर्तारः। आउट्टियाइपंचि-दियघाए मेहुणे य दप्पेणं। सेसेसुकोसाभि-क्खसेवणाईसुतीसुं पि॥८३| तवगटिवयाइएसु व, मूलुत्तरदोसवइयरगएसुं। दंसणचरित्तवंतो, चियत्तकिये य सेहे य॥४॥ अचंतोसनेसु य, परलिंगदुगे य मूलकम्मे य / मिक्खुम्मिय विहियतवो-ऽणवठ्ठपारंचियं पत्ते // 85|| छएण उ परियाए, ऽणवट्ठपारंचियासु साणे य। मूलं मूलावत्तिसु, बहुसोय पसज्जओ भणियं // 16 // (आकुट्टिकया) पञ्चेन्द्रियघाते मैथुनं दर्पणासेवते सतीत्वमस्या नाशयामीति बुद्ध्या स्त्रीसेवनायां, शेषेषु मृषावादादत्तादानपरिग्रहेषु त्रिष्वप्याकुट्टिकया उत्कर्षतोऽभीक्ष्णं वापुनः पुनरासेवनादिषु आदिशब्दादनाकुट्टिकया पश्चानामप्येषां कारणानुमत्योश्च मूलम् / तथा तपोगर्वितादिषु च तपोगर्विततपोऽसमर्थतपोऽश्रद्दधानतपो-भिरदम्यमानेषु चतुर्वप्येतेषु मूलोत्तरदोषव्यतिकरगतेषु मूलगुणा उत्तरगुणाश्च बहुप्रकारास्तेषां दोषो दूषणं भङ्ग करणं तस्य व्यतिकरः संपर्कस्तं गतेषु बहुशो मूलोत्तरगुणभङ्गकारिरिष्वित्यर्थः वान्त-दर्शनचारित्रे इह दर्शने वान्ते नियमाचारित्रं वान्तमेव, चारित्रे पुनन्तेि दर्शन भजना-वान्तचारित्रोऽपि दर्शनं वमति, कोऽपि न वमति / ततो वान्तदर्शने वान्तचारित्रे च, त्यक्तानि कृत्यानि दश-विधचक्रवालसामाचारीरूपाणि सर्वाणि येन स त्यक्तकृत्यस्तस्मिन्, शैक्षे च नवदीक्षितेऽनुपस्थापिते एतेषु च सर्वेषु मूलम् / / तथाऽत्यन्तावसन्नेषु च आसन्ना एव प्रव्राजिताः संयिनर्वा प्रव्राजितमात्रा एवावसन्नतया विहृतास्तेऽत्यन्तावसन्नास्तेषुपर-लिङ्गद्विके-परलिङ्गं गृहस्थलिङ्ग कच्छाबन्धनादिगृहस्थवेषरूपम्, अन्यतीर्थिकलिङ्ग वा तापसादिवेषरूपं तयोराकुट्टिकया दर्पण वा स्वयं करणे, मूलकर्माणि च औषधादीनां स्त्रीणां गर्भाधानशाटनकरणरूपे, भिक्षौ च विहिततपसिविहितं दत्तं गुरुभिस्तपोरूप प्रायश्चित्तं यस्य तस्मिन् एवमङ्गीकृततपः प्रायश्चित्ते पुनरपिछेदमूलेऽतिक्रम्य तथा-विधातिचारसेवनयाऽनवस्थाप्यं पाराञ्चिकं चापि प्राप्ते मूलम्।कोऽर्थः-भिक्षोर्नवमदशमप्रायश्चित्ता-पत्तावपि मूलमेव प्रायश्चित्तं भवति, आचार्योपाध्याययोस्तु पाराञ्चिकापत्तावप्यनवस्थाप्यमेव / यदुक्तं भाष्ये "इत्थ य जह नवदशमे, आवन्नस्सावि भिक्खुणो मूलं / दिजइ तहाभिसेगे, परं पयं होइ नवमं तु॥१॥" अभिषेकशब्देनाचार्योपाध्यायावुच्येते / परमत्राचार्यास्याकृत करणस्य उपाध्यायस्य च कृतकरणस्यैतत् ज्ञेयं कृतकरणाचार्यस्यान्त्यप्रायश्चित्तप्रतिभणनात्।तथा छेदेन पुनः पुनरतीचारमाश्रित्य क्रियमाणेन व्रतपर्याय निरवशेषेऽपि छिन्ने इति शेषः, मूलम् / / अनवस्थाप्यपाराशिकावसाने च अनवस्थाप्यपाराश्चिकयोरनुष्ठितयोरनन्तरं पुनस्तथाविधातिचारसेवनया तदापत्तावपि मूलमेव दीयते। मूलापत्तिषुउपचारान्मूलापत्तिकारणेष्यतीचारेषु बहुशवप्रसजतःपुनपुनःप्रसक्तिकु_णस्य मूलम्, एतेषुयथोक्तस्थानेषु सर्वेषु