________________ मंगल 15 - अभिधानराजेन्द्रः - भाग 6 इत्यनान्तरत्वात्। अथ विशिष्टार्थक्रियासाधक भावेन्द्राऽऽदिकं भावमाश्रित्य वस्तुत्वं साध्यते, तथाऽपि न काचित क्षतिः, यतो भावेन्द्राऽऽदेभर्भावस्य विशिष्टार्थकियानिर्वर्तकत्वे नामेन्द्राऽऽदिपर्यायाणामपि तद्द्रष्टव्यमेव, द्रव्यरूपतया पर्यायाण परस्परमभेदात्। इति गाथाऽर्थः / / 55 / / अथवा-भावमङ्गलाऽऽदिकारणत्वात् नामाऽऽदीन्यपि भावमङ्गलाऽऽदिरूपाण्येव, इति दर्शयन्नाहअहवा नाम-ठवणा-दव्वाइं भावमंगलंऽगाई। पाएण भावमंगल-परिणामनिमित्तभावाओ।।५६।। अथवा नाम - स्थापना-द्रव्याणि भावङ्गलस्यैवाऽङ्गानि कारणनि। कुतः ? इत्याह-'पारण इत्यादि भावमङ्गलपरिणामो भावमङ्गलोपयोगो भावमङ्गलसाध्वादिपरिणतिरूपो वा, तन्निमित्तभावात तत्कारणत्वादित्यर्थः / यच यस्य कारणं तत्तद्व्यपदेशं लभत एव, यथा आयुर्घतम्' 'रूपको भोजनम्' इत्यादि। क्लिष्टकर्मणा केषाश्चिद नामाऽऽदीनि भावभङ्गलकारणानि न भवन्त्यपि, इति प्रायोग्रहणम् / मङ्गलविचारश्चेह प्रकान्तः, तेन भावमङ्गलकारणानि नामाऽऽदीन्युक्तानि, यावता भावेन्द्राऽऽदेरपि तानि कारणत्वेन द्रष्टव्यान्येव / तस्माद् भावमङ्गलाऽऽदिकारणत्वाद् नामाऽऽदीन्यपि तद्रूपाण्येव, इति भावस्य वस्तुत्वसाधने नामाऽऽदीनामपि तत्कारणत्वात् तद् न भूयते। इति गाथाऽर्थः।।५६।। अथ नामाऽऽदीनां भावमङ्गलकारणत्वे उदाहरणान्याह - जह मंगलाभिहाणं,सिद्धं विजयं जिणिंदनामंच। सोऊण पेच्छिऊण य, जिणपडिमालक्खणाईणि / 57 / परिनिवुयमुणिदेहं, भव्वजइजनं सुवन्नमल्लाई। दहण भावमङ्गल-परिणामो होइ पाएण ||58 / / यथेत्युदाहरणोपदर्शनार्थः, तद्यथेत्यर्थः / मङ्गलमिति शब्दरूपमभिधानम्, तथा 'सिद्ध सिद्धाऽभिधानम्, विजयाऽभिधानम्, जिनेन्द्राऽ5दिनाम च केनचिदुचरितं श्रुत्वा कस्यचित् प्रायेण सम्यग्दर्शनाऽऽदिको भावमङ्गलपरिणामो भवति, इति नाम्नो भावमङ्गलकारणत्वे उदाहरणम् / तथा प्रेक्ष्य चाऽवलोक्य जिनप्रतिमालक्षणाऽदीनि जिनप्रतिमास्वस्तिकाऽऽदीनीत्यर्थः, आदिशब्दादनगारपदाऽऽदिपरिग्रहः भावमङ्गलपरिणामो भवतीत्यत्राऽपि संबध्यते। एतत्तु स्थापनाया भावमङ्गलकारणत्वे उदाहरणम् / अथ द्रव्यस्य तत्कारणत्वे दृष्टान्तमाह-परिनिर्वृतो मुक्ति गतो योऽसौ मुनिस्तद्देहम्, तथा भव्ययतिर्भविष्यद्यतिपर्यायो योऽसौ जनस्तम्, तथा सुवर्णमाल्याऽदि च दृष्ट्वा प्रायेण सम्यग्दर्शनाऽऽदिभावमङ्गलपरिणामो भवतीति / असस्तत्कारणत्वाद् नामाऽऽदीन्यपि भावमङ्गलानि, इति स्थितम् / इति गाथाद्वयाऽर्थः / / 57 / / 58 / / ननु नामाऽऽदीन्यपि यदि भावमङ्गलानि, तर्हि किं तान्यपि तीर्थ कराऽऽदिवत् पूज्यानि?, इत्याशङ्कयाऽऽहकिं पुण तमणेगंतिय-मचन्तं च न जओऽमिहाणाई। तविवरीअं भावे, तेण विसेसेण तं पुजं // 56 // नामाऽऽदीन्युपयुक्तयुक्या भावमङ्गलानि / किं पुनः ?, यो विशेषः स उच्यते-तदभिधानाऽऽदित्रयमनै कान्तिकम् समीहितफलसाधने | निश्चयाऽभावात्, तथाऽऽत्यन्तिकं च यतो न भवति, आत्यन्तिकप्रकर्ष - प्राप्ततथाविधविशिष्टफलसाधकत्वाभावात्। भावे-भावविषयं तु सगलमुक्तविपरीतस्वरूपम्, तेन विशेषतो यथा तत् पूज्यम्, नैवसितराणि। इति गाथाऽर्थः / / 56 / / तदेवं भिन्नवस्तुष विशेषतश्चिन्त्यमानानां नामाऽऽदीनां प्रधानतरभावो दर्शितः, सामान्यतः पुनर्विचिन्त्यमानाना सर्ववस्तुषु प्रत्येकं चतुर्णामप्यमीषा सद्भावः प्राप्यत एव, इति दर्शयन्नाहअहवा वत्थुभिहाणं, नामं ठवणा य जो तदागारो। कारणया से दवं, कजावनं तयं भावो // 60 / / अथवा सर्वस्याऽपि घट-पटाऽऽदिवस्तुनो यदाऽऽत्मीयमभिधानं तद् नाम्, यथोर्ध्वकुण्डलेष्वायतवृत्तग्रीवो घटः, आतानवितानीभूततन्तुसन्तानः पट इत्यादि / स्थापना पुनर्यस्तस्यैव सर्वस्य वस्तुनो निज आकारः / भाविकपालाऽऽदिकार्यापेक्षया तु या (से) तस्य सर्वस्याऽपि वस्तुनः कारणता-हेतुता तद्रव्यम्, “भूतस्य भाविननो वा; भावस्य हि कारणं तु यल्लोके। तद्रव्यम्” इति वचनात्। मृत्पिण्डाऽऽदिवस्तुनस्तु कार्याऽपन्नं जन्यत्वाऽऽपन्न तदेव घटाऽऽदिकं सर्वं वस्तु भावोऽभिधी यते, भवन भाव इति कृत्वा / इत्थंसर्व वस्तु चतूरूपाऽविनाभूतं दृष्टम्, एवमेव सम्यग्दर्शनव्यवस्थानात, सर्वनयसमूहाऽऽत्मकत्वाजिनमतस्य। तदेव सर्वस्याऽपि वस्तुनश्चतूरूपतायां किमुच्यते 'इह भावो चिय वत्थु, तयत्थसुन्नेहिं किं व सेसेहिं।' इत्यादि? नोकस्मिन्नेव वस्तुन्येककालं विद्यमानानां पर्यायाणां मध्ये 'अयं वस्तु' अपरस्त्ववस्तु, इति वक्तुं शक्यते, द्रव्यरूपतया सर्वेषामपितेषामेकत्वादिति भावः। इति गाथाऽर्थः // 60 // विशे०। तदेवमवसितं प्रासङ्गिकम् / प्रकृतमुच्यते, तच्चेदम्- पूर्वं नोआगमतो भवमङ्गलं नोशब्दस्य सर्वनिषेधवचनत्वे विश्पुक्षायिकाऽऽदिर्भाव उक्तः, मिश्रवचनत्वे तस्य ज्ञानदर्शनचारित्रोपयोगः, एकदेशवचने पुनस्तस्याऽहन्नमस्काराऽऽदिज्ञानक्रियाविमिश्रपरिणामः प्रोक्तः / साम्प्रतं नोशब्दस्यैकदेशवाचित्वे नोआगमतो भावमङ्गलं ज्ञानपञ्चकरूपा नन्द्यपि भवतीति दर्शयन्नाह - मंगलमहवा नन्दी, चउव्विहा मंगलं च सा नेया। दव्वे तूरसमुदओ, भावम्मि य पंच नाणाई / / 78|| सूत्रस्य सूचकत्वाद् नोआगमतो भावमङ्गलस्यैव च प्रस्तुतत्वाद् मङ्गलशब्देनेह नोआगमतो भावमङ्गलमिति द्रष्टव्यम्। अथवाशब्दस्तु पूर्वोक्तपक्षत्रयापेक्षया विकल्पार्थः, ततश्चायमर्थः-यदि वा नोआगमतो भवमगलमन्यद् द्रष्टव्यम्। किं तत् ? इत्याह-'नन्दी, नन्दनं नन्दी, नन्दन्ति समृद्धिमवाप्नुवन्ति भव्यप्राणिनोऽनयेति वा नन्दी, इयं च सूत्रे सामान्योक्तावपि व्याख्यानतो विशेषप्रतिपत्तेरिह ज्ञानपञ्चकरूपा गृह्यते। सामान्यरूपेण तु चिन्त्यमानाऽसौ मङ्गलवद् नामाऽऽदिचतुर्विधा भवति। एतदेवाऽऽह-'चउन्विहेत्यादि तत्रनन्दी इतियत्कस्यचिद्नाम क्रियतेसा नामनन्दी / अक्षाऽऽदिषु स्थापिता स्थापनानन्दी। द्रव्यनन्दी तु द्विविधाआगमतः, नोआगमतश्चातत्राऽऽगमतोनन्दीपदार्थज्ञोऽनुपयुक्तः, नोआगमतस्तुज्ञ-भव्यशरीरोभयव्यतिरिक्ता द्रव्यनन्दीद्वादशप्रकारस्तूर्यसमुदयः।