________________ मंगल 13 - अभिधानराजेन्द्रः - भाग 6 मंगल तु द्रव्यमानत्वं भावनीयम्, उपयुक्तस्य तु क्रिया यदि गृह्येत तदा भातमगलत व स्यादिति भावः / इति गाथाऽर्थः / / 46 / / अथ प्रकारान्तरेणाऽपि प्रस्तुतमङ्गलमाह - जं भूयभावमङ्गल-परिणामं तस्स वा जयं जोग्गं / जंवा सहावसोहण-वन्नाइगुणं सुवण्णाइ।१४७।। तं पि य हु भावमंगल-कारणओ मंगलं ति निद्दिट्ट / नोआगमओ दव्वं, नोसद्दो सव्वपडिसेहे // 48 // नोआगमता ज्ञशरीर-भव्यशरीरव्यतिरिक्तं द्रव्यं द्रव्यमङ्गलमित्यर्थ इति द्वितीयगाथोनरार्थे सबन्धः / किं तत् ? इत्याह-यद् भूतभावमङ्गलपरिणामम, इह भावमङ्गलशब्देन चरणकरणक्रियाकलापोऽभिप्रेतः, तस्य परिणमनं परिणतिः प्रवृत्तिर्भावमङ्गलपरिणामः, भूतः पूर्व संजातो भावमङ्गलपरिणामो यस्य तद् भूतभावमङ्गलपरिणामम, सांप्रतं तु तच्छ्न्य म्, तत्पुनः कस्यापि शरीरं जीवद्रव्यं वा, तद् नोआगमतो ज्ञशरीर भवाशरीव्यतिरिक्त द्रव्यमङ्गलं बोद्धव्यम्। 'तस्सवा जयं जोग्ग ति' अथवा-तस्य-यथोक्तस्य भावमङ्गलपरिणामस्य यद्योग्यमह शरीर जीवद्रव्यं वा, तद्नाआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यमङ्गलम्। अथवा-यत् स्वभावत एव शोभनवर्णाऽऽदिगुण सुवर्णाऽऽदिक वस्तु, आदिशब्दाद रत्न-दध्य-5क्षत-कुसुम-मङ्गलकलशाऽऽदिपरिग्रहः, तदेतज्ज्ञ-भव्यशरीव्यतिरिक्तं द्रव्यमङ्गलम्। ननु कथं तद् मङ्गलम् ? इत्याह-'तं पी' त्यादि, हुर्यस्मादर्थ, यस्मात् तदपि-सुवर्णाऽऽदिकं कस्यापि भावमङ्गलकारणत्वाद मङ्गलं निर्दिष्टम्। यच कारणं तद् "भूतस्य भाविनो वा, भावस्य हि कारणं तु यल्लोके। तद्रव्यम्" इत्यादिवचनाद द्रव्यलयाऽपि व्यपदिश्यते, अतो द्रव्यमङ्गलं भवति। नोशब्दः सर्वप्रतिषेधे, आगमस्येह सर्वथैवाऽभावादिति। पूर्वं ज्ञभव्यशरीरयोः केवलमागमाभावापक्षं द्रव्यमगलत्वमुक्तम्, अत्र तु क्रियाऽभावमाश्रित्य इति भावनीयम् / इति गाथाऽर्थः // 47 // 48 // तदेवं प्रतिपादितमागमतो नोआगमतश्च द्रव्यमङ्गलम् / अथ भावमइलमुच्यते, तस्य च लक्षणं नामस्थापना-द्रव्याणामिव भाष्यकृता कनापि कारणन नोक्रन्। तचेत्थमवगन्तव्यम् - "भावो विवक्षितक्रियाऽनु भुतियुक्तो हि वै समाख्यातः / सर्वज्ञैरिन्द्रादिव-दिहेन्दनाऽऽदिक्रियानुभवात् / / 1 / / " इति / अत्राऽयमर्थः-भवनं विवक्षितरूपेण परिणमनं भावः, अथवा-भवति विवक्षितरूपेण संपद्यत इति भावः / : पुनरयम ? इत्याह - वक्तुवक्षिता इन्दन-ज्वलन-जीवनाऽऽदिका या क्रिया तस्या अनुभलिरनुभव तथा युक्तो विवक्षितक्रियाऽनुभूतियुक्तः, सर्वज्ञः सभा१९५यातः / क इव ? इत्याहइन्द्राऽऽदिवत्-स्वर्गाधिपाऽऽदिवत्, आदिशब्दाद-ज्व तनजीवनाऽऽदिपरिग्रहः / सोऽपि कथं भावः ? इत्याह - इदिनादिक्रियाऽनुभयात्' इति, आदिशब्देन ज्वलन-जीवनाऽऽदिब्रियास्वीकारः। विवक्षितेन्दनाऽऽदिकियाऽन्धितो लोके प्रसिद्धः पारमाथिकपदार्थो भाव उच्यते। भावश्चासा मङ्गलंच भावमङ्गलम्, भावतोवा परमार्थतो महलं भावमङ्गलमिति प्रस्तुतयोजना। एतदपि द्विविधम् - आगमतश्च, नोआगमतश्च / तत्राऽऽगमतस्तावदाह - मंगलसुयउवउत्तो, आगमओ भावमंगलं होइ / नोआगमओ भावो, सुविसुद्धो खाइयाईओ।।४६|| ___ मङ्गल च तच्छ्रुतं च मङ्गलश्रुतं; मङ्गलशब्दार्थज्ञानमित्यर्थः, तस्मिन्नुपयुक्तो 'वक्ता' इति गम्यते, आगमतो भावमङ्गलं भवति / अत्राऽऽह-ननु मगलपदार्थज्ञानोपयोगमात्रेण कथं सर्वोऽपि वक्ता भावमङ्गलमुच्यते ? तदुपयोगमात्रस्येव तद्रूपताया युक्तिसङ्गतत्वात्, न ह्यग्निज्ञानोपयुक्तो माणवकोऽग्निरेव भवितुमर्हति, तदाह-पाकाऽऽदिक्रियाकरणप्रसङ्गादिति / अत्रोच्यते-उपयोगः, ज्ञानं, संवेदन, प्रत्यथ इति तावदनान्तरम्, अर्थाऽभिधानप्रत्ययाश्च लोके सर्वत्र तुल्यनामधेयाः, बाह्यः पृथुबुध्नोदराऽऽकारोऽर्थोऽपिघट उच्यते, तद्वाचकमभिधानमपि घटोऽभिधीयते, तज्ज्ञानरूपः प्रत्ययोऽपि घ्ज्ञटो व्यपदिश्यत इत्यर्थः / तथाहि लोके वक्तारो भवन्ति-किमिदं पुरतो दृश्यते ? घटः। किमसौ वक्ति ? घटम् : किमस्य चेतसि स्फुरति ? घटः। एवं च सति यद् घट इति ज्ञानं तदव्यतिरिक्तो ज्ञाता तल्लक्षणो गृह्यते, अन्यथा यदि ज्ञानज्ञानिनोरव्यतिरेको न स्यात् तदा ज्ञाने सत्यपि ज्ञानी नोपलभेत वस्तुनिवहम्, अतन्मयत्वात्. प्रदीपहस्ताऽन्धवत्, पुरुषान्तरवद् वा / न चाऽनाकारतज्ज्ञानम्, पदार्थान्तरवद् विवक्षितपदार्थस्याऽप्यपरिच्छेदप्रसङ्गात् / अपि च-घटाऽऽदिज्ञानतद्वतोय॑तिरेके बन्धाऽऽद्यभावः प्राप्नोति, यथा हि ज्ञानाऽज्ञानसुख-दुःखाऽऽदिपरिणामस्याऽन्यत्वे आकाशस्य बन्धाऽऽदयो न भवन्ति, एवं जीवस्याऽपि न भवेयुरिति भावः / / आह-यदि घटोपयोगानन्यत्वाद् देवदत्तोऽपिघटः, अग्न्युपयोगानन्यत्वाच माणवकोऽप्यनिः, तर्हि जलाऽऽहरणदाह-पाकाऽऽद्यर्थक्रियाप्रसङ्ग / तदयुक्तम्, न हि सर्वोऽपि घटो जलाऽऽहरणं करोति, नापि समस्तोऽप्यग्निहपाकाऽऽद्यर्थक्रियां सार्धयति, कोणेऽवामुखीकृतघटेन भस्मच्छन्नवह्निना च व्यभिचारात्। न चाऽसौ न घटः, नाग्निर्वा, लोकप्रतीतिबाधाप्रसगात्। तस्मादमङ्गलपदार्थज्ञानोपयोगाऽनन्यत्वादागमतस्तदुपयुक्तो भावमङ्गलमितिस्थितम् / / नोआगमतस्तु आगमस्य सर्वनिषेधमाश्रित्य सुविशुद्धः प्रशस्तः क्षायिकक्षायोपशमिकाऽऽदिको भावा भावमङ्गलम, भाव एव मङ्गलं भावमङ्गलमिति कृत्वा। उपलक्षणव्याख्यानादागमवर्जज्ञानचतुष्टय-दर्शन-चारित्राणि च नोआगमतो भावमहलतथा वाच्यानि, भावतः परमार्थतो मङ्गलं भावमङ्गलमिति कृत्वा। इति गाथाऽर्थः / / 46 / / प्रकारान्तरेणाऽपि नोआगमतो भावमङ्गलमाहअहवा सम्मइंसण-नाणचरित्तोवओगपरिणामो। नोआगमओ भावो, नोसहो मिस्सभावम्मि / / 5 / / अथवा- प्रतिक्रमण - प्रत्युपेक्षणाऽऽदिक्रियां कुर्वाणस्य यो ज्ञानदर्शन-चारित्रोपयोगपरिणामः, सनोआगमतो भावो भावङ्गलं भवति।