________________ मूलकरण 336 - अभिधानराजेन्द्रः - भाग 6 मूलगुण मूलकरण-न०(मूलकरण) मूलगुणेषु सप्तप्रकारायां शोधौ, बृ०१ उ०। पञ्चानां शरीराणां पर्याप्तौ, सूत्र०१ श्रु०१ अ०१उ०। मूलकरणं घटादिक येनोपस्करण-दण्डचक्रादिना अभिव्यज्यते-स्वरूपतः प्रकाश्यते तदुतरकरणं, कर्तुरुपकारकः सर्वोऽप्युपस्कारार्थ इत्यर्थः / / 5 / / पुनरपि प्रपञ्चतो मूलोत्तरकरणे प्रतिपादयितुमाहमूलकरणं सरीराणि, पंच तिसु कण्णखंधमादीयं / दग्विंदियाणि परिणा-मियाणि विसओसहादीहिं / / 6 / / मूलकरणम्-औदारिकादीनि शरीराणि पञ्च तत्र चौदारिक वैक्रियाहारकेषु त्रिषूत्तरकरणं कर्णस्कन्धादिकं विद्यते, तथाहि-''सीसमुरोयरपिट्ठी दो बाहू ऊरुया य अटुंग" ति। त्रयाणामप्येतन्निष्पत्तिर्मूलकरणं, करणस्कन्धाधङ्गोपाङ्ग निष्पत्तिस्तूत्तरकरणम्, कार्मणतैजसयोस्तु स्वरूपनिष्पत्तिरेव मूलकरणम्, अङ्गोपाङ्गाभावान्नोत्तरकरणम्, यदिवाऔदारिकस्य कर्णवेधादिकमुत्तरकरणं, वैक्रियस्य तूत्तरकरणम्उत्तरवैक्रियं, दन्तकेशादिनिष्पादनरूपं वा, आहारकस्य तुगमनाद्युत्तरकरणं यदिवा-औदारिकस्य मूलोत्तरकरणे गाथापश्चार्द्धन प्रकारान्तरेण दर्शयति-द्रव्येन्द्रियाणि,-कलम्बुकापुष्पाधाकृतीनि मूलकरणं, तेषामेव परिणामिनां विषौषधादिभिः पाटवाद्यापादनमुत्तरकरणमिति॥६॥ सूत्र० १श्रु०१ अ०१० मूलग-पुं०(मूलक) मूली इति ख्याते कन्दविशेषे, स्था०७ ठा०। प्रव०॥ प्रज्ञा०। स०। ध०। आचा०। जी० भ० मुलगपत्त-न०(मूलकपत्र) आधे परिपक्वप्राये पर्णे, कन्दविशेषस्य निस्सारपत्रे, बृ०१ उ०। मूलगवच-न०(मूलकवर्चस्) यत्र मूलकं शटितं पतितं तस्मिन्, आचा०२ श्रु०२ चू०३० मूलगुण-पुं०(मूलगूण) मूलानीव चारित्रकल्पद्रुमस्य मूलान्युत्तरे च तस्य शाखाद्यवयववद् ये गुणास्ते मूलगुणाः / पञ्चा०५ विव०। प्राणातिपातादिविरमणेषु, आव०५ अ०। पञ्चाणुव्रतानि मुलगुणा उच्यन्ते। श्रावकं धर्मतरोर्मूलकल्पत्वात् ।ध० 20 2 अधि०। आव०। महाव्रताणुव्रतेषु, सूत्र०२ श्रु०६ अ०। विशे०। आव०अनु०। पं०व०। ग०। स०। औ०। आतु०। पञ्चा०। पाणातिपातविरमण-मादी णिसिभत्तविरइपज्जंता। समणाणं मूलगुणा, तिविहं तिविहेण णायव्वा // 30 // प्राणातिपातविरमणादयो वधविरत्याद्याः, निशाभक्तविरति-पर्यन्ताःरात्रिभोजननिवृत्त्यन्ताः,श्रमणानां यतीनां मूलगुणा धर्मलक्षणकल्पवृक्षमूलकल्या नियमाः, त्रिविधं करणकारणानुमतिरूप वधादिकं, त्रिविधेनमनोवाकायलक्षणकरणेन, प्रत्याख्यामीति प्रतिज्ञया, ज्ञातव्याज्ञेया, इति // 30 // पञ्चा० 15 विव०। नं० मूलगुणा-पंच महव्ववाणि राईभोयणछट्ठाई / महा०३ अ० उत्तरगुणाणं पि भंग नेटुं, किं पुण मूलगुणाणं / महा०४अ मूलगुणातिचारे प्रायश्चित्तम् एगिदियाण घट्टण-मगाढ-गाठ-परियावणुइवणे। निव्वीयं पुरिभऽद्धे-गासणमायामगं कमसो॥३१॥ एकेन्द्रियाणां-पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनां, मनाक्स्पर्शनंसंघट्टनम, अत्राह-ननुपृथिव्यादीनां चतुर्णा घटते संघट्टनम्, अप्कायस्य तु कथं संघट्टनं सम्भवति? तस्य द्रव्यरूपत्वेन स्पर्शमात्रेऽपि विना सम्भवात् / उच्यते-घटादिस्थस्याप्कायस्यापि मनाकरचरणादिना चालने संघट्टः सम्भवति / परितापनं द्विविधा-आगाढं, गाढं वा / तत्र संमर्दनं चजनाद्यैर्बहुतरपीडोत्पादनंगादं,बहुतमपीडोत्पादनंचाऽऽगाढम्। उपद्रवर्ण-सर्वथा जीवविनाशनं, तच्च-पृथिव्यग्न्योरत्यन्तसंमर्दनाद्यैः अप्कायस्य तु वह्नितापनदण्डाद्यभिधातनं पानपादादिक्षालना, वनस्पतेः पत्रपुष्पाकुरादित्रोटनादिः, ततश्चैषां पञ्चानामपि प्रत्येक संघट्टने-निर्विकृतिकम्, आगाढे परितापने--पुरिमार्द्धः, गाढपरितापनेएकाशनम्,उपद्रवणे-चाचामाम्ल इति। पुरिमाईखमणंतं, अणंतविगलिंदियाण पत्तेयं / पंचिंदियंमि एगा-सणाई कलाणगमहेगं // 32 // अथानन्तवनस्पतिद्वित्रिचतुरिन्द्रियाणां प्रत्येकं संधट्टनागादपरितापोपद्रवणेषु यथासंख्यं पुरिमार्दादिक्षपणान्तं तपः पञ्चेन्द्रियसंघट्टस्तदहर्जातमूषकगृहकोलिक़ादिविषयो द्रष्टव्यः। तत्रैकाशनम्। आगाढपरितापे-आचामाम्लम्, गाढपरितापेचतुर्थ, प्रमादवशा-चोपद्रवेएककल्याणं, तच्चेदम्-निपुणएआओ" अधिकपदमधिकमक्षरं चाधिकार्थसंसूचकं भवतीत्यत्रार्थशब्दादधिकादनेकद्वीन्द्रियाद्युपघातप्रायश्चित्तमनुक्तमप्येतद्विज्ञेयम्,यथा-"एगाइदसतेसु. एगाइदसतयं सपच्छित्तं / तेण परं दसमं चिय, बहुएसु विसगलविगलेसु॥१॥" क्वाऽप्यागमोधनदृष्टासामाचारीषु दृश्यते बहुषु युक्तेव विभाति पुनर्लिखिता गाथा, ततोऽत्रैषा एकादिषु दशान्तेषु, द्वीन्द्रियादिषूपहतेषु एकादिदशान्ते स्वप्रायश्चित्तं भवति, यद्यस्य द्वीन्द्रियादेरुपघाते अत्र जीतकल्पप्रायश्चित्तं भणितमस्ति तत्तस्य स्वप्रायश्चित्तमुच्यते, तदेकस्य द्वीन्द्रियादेरुपघाते,एकं स्वप्रायश्चित्तं भणितमस्ति। द्वयोर्दै , त्रयाणां त्रीणि, यावद् दशानामुपघाते दश। तेनेति पञ्चम्यर्थे कृता तृतीया। ततः परमेकादशादिषु बहुष्वपि यावदसंख्येयेष्वपि सकलविकलेषु पञ्चेन्द्रियविकलेखूपहतेषु दशकमेव, दशैव स्वप्रायश्चित्तानि दातव्यानि भवन्तीत्यर्थः। इदानीं द्वितीयतृतीयपञ्चमव्रतातिचारप्रायश्चित्तमाहमोसाइसु मिहुणव-जिएसु दवाइवत्थुमिन्नेसु / हीणे मज्झुकोसे, आसणमायामखमणाई // 33 // मृषावादाऽदत्तादानपरिग्रहाश्चतुर्विधा द्रव्यतः, क्षेत्रतः, कालतो भावतश्च। तत्र द्रव्यतो मृषावादो-धर्मास्तिकायादिसर्चद्रव्यविषयः, अदत्तादानं ग्रामनगराश्रयः, कालतस्त्रयो-दिवा वा, रात्रौ वा। भावतस्त्रयोऽपि-रागेण वा द्वेषेण वा। ततश्चतुर्विधेष्वपि मृषावा-दादत्तादानपरिग्रहेषु विषयेषुहीनेजघन्येऽतिचारे--सत्येकाशनं, मध्ये--मध्यमेऽतिचारे आचामाम्लम्, उत्कृष्ट क्षपणं, मैथुनाभिचार–प्रायश्चित्तं च मूलव्याख्यायां भणिष्यते। जीता