________________ मूल 338 - अभिधानराजेन्द्रः - भाग 6 मूलकम्म 25 श०७ उ०) महाव्रतानां मूलत आरोपणे, पञ्चा० 16 विव० / ग०। जंग। धा(मूलाहप्रायश्चित्तं 'मूलारिह' शब्दे व्याख्यास्यामि) समीपे, आ०म०१अ०॥"निसन्नंतरुमूलम्मि, सुकुमालंसुहोचिय।" उत्त०२० अ० मूलकम्म-न०(मूलकमन्) मूलं दशप्रायश्चित्तानां मध्येऽष्टमं तत्प्राप्तिनिबन्धनं कर्म गर्भधातनाद्यपि मूलकर्म। मूलानां वा वनस्पत्यवयवानां कर्मोषध्याद्यर्थं छेदनादिक्रिया मूलकर्म / षोडश उत्पादनादोषे, ग०१ अधिवाधा प्रश्ना पं०चूना प्रव०॥पञ्चा०। यदा पुत्रादिजन्मदूषणनिवारणार्थं मधाज्येष्ठाश्लेषामूलादिनक्षत्रशान्त्यर्थं मूलैः स्नानमुपदिश्याहारादिकं गृह्णाति तदा षोडशो मूलकर्मदोषः। उत्त० 24 अ०॥ सम्प्रति मूल' ति व्याचिख्यासुराहअधिई पुच्छा आस-न विवाहे भिन्नकन्नसाहणया। आयमणपियणओसह-अक्खयजजीवअहिगरणं // 506|| जंघापरिजियसडी, अद्धिइआणिजए मम सवत्ती। जोगो जोणुग्घाडण-पडिसेहपओसउड्डाहो / / 507 // क्वचित्पुरे धननाम्नः श्रेष्ठिनो भार्या धनप्रिया, तस्य दुहिता सुन्दरी, सा च भिन्नयोनिका, परमेनमर्थं माता जानाति, न पिता। सा च पित्रा तत्रैव पुरे कस्यापीश्वरपुत्रस्य परिणयनाय दत्ता, समागतः प्रत्यासन्नो विवाहो, मातुश्चिन्ता बभूव / एषा परिणीता सती यदि भर्ना भिन्नयोनिका ज्ञास्यते, ततस्तेनोज्झिता वराकी दुःखमनु-भविष्यति / अत्रान्तरे च समागतः कोऽपि संयतो भिक्षार्थ, तेन सा पृष्टा, तया कथितः सर्वोऽपि वृत्तान्तः। ततः साधुनोक्तम्-- मा भैषाः, अहमभिन्नयोनिकां करिष्यामि / तत आचमनौषधं पानौषधं च तस्यै प्रदत्तं, जाता अभिन्नयोनिका / तथाचन्द्राननायां पुरिधनदत्तः सार्थवाहस्तस्य भार्या चन्द्रमुखा, तयोश्चान्यदा परस्परं कलहः प्रवृत्तः। ततोऽमिनिवेशेन तन्नगरवास्तव्यस्यैव कस्यापीश्वरस्य दुहिता धनदत्तेन परिणयनार्थं वृता, ज्ञातश्चायं वृत्तान्तश्चन्द्रमुखया, ततो वभूव महती तस्या अधृतिः, अत्रान्तरे च जडापरिजितनामा साधुरागतो भिक्षार्थं, दृष्टा तेनाधृतिं कुर्वती चन्द्रमुखा, ततः पृष्टाकिं भद्रे ! त्वमधृतिमती दृश्यसे? ततः कश्चितस्तया सपत्नीव्यतिकरः, ततः साधुना समर्षितं तस्या औषधं, भणिता च सा कथमपि तस्या भक्तस्य पानस्य मध्ये देयं येन सा भिन्नयोनिका भवति, ततः स्वभर्वे निवेदयेः, येन सा न परिणीयते, तथैव कृतं ,न परिणीता सा भरेति। सूत्रं सुगमम् / नवरम्- 'जजीवम्' इति यावज्जीवमधिकरणंमैथुनप्रवृत्तिः, पडिसेहि' इति साऽभिनवा परिणेतुमारब्धा भिन्नयोनिकेति ज्ञात्वा प्रतिषिद्धा / अयं चेदर्थस्तया ज्ञातो भवेत्, तर्हि तस्याः साधुं प्रति महान् प्रद्वेषो भवेत्, प्रवचनस्योड्डाहः। सम्प्रति 'विवाह' इति पदं व्याख्यानयन्नाहमा ते फंसेज कुलं, अदिलमाणा सुया वयं पत्ता। धम्मो य लोहियस्स, जइ बिंदू तत्तिया नरया // 505|| किं न ठविज्जइ पुत्तो,पत्तो कुलगोत्तकित्तिसंताणो। पच्छा वि यतं कजं, असंगहो मा य नासिज्जा // 10 // क्वचिद् ग्रामे कोऽपि गृहपतिः, तस्य पुत्रिका क्यःप्राप्ता, ततः कोऽपि साधुर्भिक्षार्थं प्रविष्टः सन् दृष्ट्वा तन्मातरमेवमभिदधाति, तव दुहिता वयःप्राप्ता-यौवनं प्राप्ता, तद्यदि सम्प्रति न परिणी (णाय्यते) यते,तर्हि केनापि तरुणेन सहाकार्य समाचर्य कुलमा-लिन्यमुत्पादयिष्यति / तथा-(धम्मो त्ति) लोके एवं श्रुतिः-यदि कुमारी ऋतुमती भवेत् तर्हि यावन्तस्तस्या रुधिरविन्दवो निपतन्ति तावतो वारान् तन्माता नरकं याति। तथा क्वचिद्ग्रामे कस्यापि कुटुम्बिनः पुत्रं यौवनिकामधिगतमवलोक्य साधुस्तन्मातरमेवं ब्रूते। यथा-कुलस्य गोत्रस्य कीर्तेश्च सन्तानो निबन्धनमेष तव पुत्रो यौवनं च प्राप्तः, ततः किंन सम्प्रतिपरिणाय्यते? अपिच परिणीतःसन् कलत्रस्नेहेन स्थिरो भवति, अपरिणीतश्च कयाऽपि स्वच्छन्दचारिया सहोत्थाय गच्छेत्, पश्चादपि चैष परिणाययितव्यः तत्सम्प्रत्यपि कस्मान्न परिणाय्यते? इति। सम्प्रति "दो दंडिणीओ आयाणपरिसाडे'' इत्यवयवं व्याचिख्यासुराहकिं अद्धि इत्ति पुच्छा, सवित्तिणी गन्भिणि त्ति मे देवी। गब्भाहाणं तुज्झ वि, करोमि मा अद्धिइं कुणसु / / 110 / / जइ वि सुओ मे होही, तह वि कणिट्ठो ति(इ)यरो जुवराया। देह परिसाडणं से, नाए य पओसपत्थारो॥१११|| संयुगं नाम नगर, तत्र सिन्धुराजो नामराजा, तस्य सकलान्तः पुरप्रधाने द्वेपल्यौ, तद्यथा-शृङ्गारमतिः, जयसुन्दरी च। तत्रान्यदा बभूव शृङ्गारमतेर्गर्भाधानम्, इतरा च जयसुन्दरी नूनमस्याः पुत्रो भविष्यतीति विचिन्त्य मात्सर्यवशादधृतिं कुर्वत्यवतिष्ठते, अत्रान्तरे च समागतः कोऽपि साधुः, तेन सा पपृच्छे-किं भद्रे ! त्वमधृतिमती दृश्यसे? ततः सा तस्मै सपत्न्या व्यतिकरम-चकथत, साधुरप्यब्रवीत्-मा कार्षीरधृति, तवापि गर्भाधानमहं करिष्ये, ततस्तयोक्तं भगवन् ! यद्यपियुष्मत्प्रसादेन मे पुत्रो भावी, तथापि स कनिष्ठत्वेन यौवराज्यं न प्राप्स्यति, किंतु सपल्या एव सुतः, तस्य ज्येष्ठत्वात् / ततः साधुना तस्या भेषजमेंक गर्भाधानाय दत्तम्, अपरं तु दापितं सपल्या गर्भशातनायेति / सूत्रं सुगमम् / नवरमेतन्न कर्तव्यं,यतो गर्भशातने साधुकृते ज्ञाते सति प्रद्वेषो भवति, ततः शरीरस्यापि प्रस्तारः-विनाशः। सम्प्रति सर्वस्मिन्नपि मूलकमणि दोषान् प्रदर्शयतिसंखडिकरणे काया, कामपवित्तं च कुणइ एगत्थ / एगत्थुड्डाहाई,जजियभोगंतरायं च // 512 / / संखडिकरणे-मा तेफ(भ)सेज कुलं, तथा-'किं न ठविज्जइ' इत्यादि गाथाद्वयोक्ते वीवाहकरणे 'कायाः पृथिव्यादयो विराध्यन्ते, एकत्र पुनरक्षतयोनिकत्वकरणे गर्भाधाने च कामप्रवृत्तिं करोति, गर्भाधानाद्धि पुत्रोत्पत्तौ प्राय इष्टा भवति, ततः काम्या जायते, इति मैथुनसंततिः / एकत्र पुनः गर्भपातने उड्डाहादि-प्रवचनमालिन्याऽऽत्मविनाशादि, एकत्र पुनः-क्षतयोनिकत्वकरणे यावज्जीवं भोगान्तरायः, चशब्दादुड्डाहादिच, तदेवमभिहितं मूलकर्म / पिं० जी० आचा०।