________________ मंगल 11- अभिधानराजेन्द्रः - भाग 6 मंगल खपुष्पवत इति पूक्तिमेवार्थ निगमनद्वारेणाऽऽह-'नत्थीत्यादि' तस्माद् नास्त्यसो सामान्यवादिनाऽभ्युपगम्यमानो वनस्पतिः सद्रूपेभ्यो विशेषभ्योऽर्थान्तरभावात्, खपुष्पवत् सद्रूपेभ्यो हि विशेषेभ्योऽर्थान्तरं भवत् अराद्रूपमेव भवति तथाभूतं च नास्त्येव खपुष्पवत्। इति गाथाऽर्थः / / 36 / / किं पुनः कारणं यन नैगमव्यवहारौ विशेषान् समर्थयतः ? इत्याहजं नेगमववहारा, लोअव्ववहारतप्परा सोय। पारण विसेसमओ, तो ते तग्गाहिणो दो वि॥३७।। यद्-यरमाद् नैगमव्यवहारौ लोकव्यवहारतत्परौ, स च लोकव्यवहारन्यागाऽऽदानाऽऽदिकः प्रायेण विशेषमयो-विशेषनिष्ठ एव दृश्यते, सामान्यस्य ब्रणपिण्ड्यादौ लोकेऽनुप, योगात् / 'वन' 'सेना' इत्यादी कचित् कश्चित् कथञ्चित् सामान्यस्याऽपि दृश्यते उपयोगः, इति प्रायोग्रहणम् / यत एवम्, तस्मात् तौ नैगमव्यवहारौ द्वावपि तद्ग्राहिणी विशेषाभ्युपगमपरो / इति गाथाऽर्थः / / 37|| अत्र परः प्राऽऽह - तेसिं तुल्लमयत्ते, को णु विसेसोऽमिहाणओ अन्नो?1 तुल्लत्ते वि इहं ने-गमस्स वत्थंतरे भेओ॥३८॥ तयो गमव्यवहारयोस्तुल्यमतत्वे उक्तन्यायेन विशेषवा, दितया सदृशाभिप्रायत्वे सति 'गु' चितर्के, अभिधानं नाम ततोऽन्यस्तद् वर्जयित्वाऽपरः को विशेषः ? न कश्चिदित्यर्थः / एको नैगमः, अपरस्तु व्यवहार इत्येवमनयो मैव भिद्यते न त्वभिप्राय इति भावः। आचार्य आह-'तुल्लत्ते' इत्यादि, इह विशेषाऽभ्युपगमे यद्यपि नैगमस्य व्यवहारेण सह तुल्यत्वं सदृशाभिप्रायत्वम्, तथाऽपि तस्मिन् सत्यपि वस्त्वन्तरे सामान्याऽऽदिके भेदो नानात्वमस्त्येव / इति गाथाऽर्थः / / 38 / / अथवा नैगमव्यवहारयोरनेन तुल्यमतत्वाऽऽख्यापनेन सामान्यविशेषग्राहकस्य नैगमस्य संग्रहव्यवहारनयद्वयेऽन्तर्भावः सूचितो द्रष्टव्य इति दर्शयन्नाह - जो सामण्णग्गाही, स नेगमो संगहं गओ अहवा। इयरो ववहारमिओ, जो तेण समाणनिद्देसो // 36 / / अथवेति प्रकारान्तरेण समाधानमुच्यत इत्यर्थः / तत्र नैगमस्तावत् सामान्यं मन्यते विशेषांश्च / ततो यः सामान्यग्राही नैगमः स संग्रहं गतः प्राप्तोऽन्तर्भूत इति यावत्, इतरस्तु विशेषग्राही स व्यवहारनयमितः प्राप्तोऽन्तर्गतो यो नैगमनयस्तेन सह व्यवहारनयस्याऽयं समाननिर्देशः 'जं नेगगववहारा०' (37) इत्यादिना तुल्यनिर्देशः, ततश्च तसिं तुल्लमयत्ते कोणु विसेसो०' (38) इत्यादिना यदेकत्वं परेण प्रेरित तदस्माकं न क्षतिमावहति, नैगमस्य संग्रहव्यवहारनयद्वयेऽन्तर्भावस्येष्टत्वेन सिद्धसाधनादिति भावः / यद्येवं नैगमः सङ्ख्यायात्रुट्यति, तथा च सतिषडेव नयाः प्रसजन्तीति चेत्।मा औत्सुक्यं भजस्व, सर्वभत्रार्थे पुरस्ताद्वक्ष्यामः / इति गाथाऽर्थः // 36 / / अथ ऋजुसूत्रनयमतेन द्रव्यमङ्गलं विचारयितुमाहउज्जुसुअस्स सयं सं-पयं च जं मंगलं तयं एक / नातीतमणुप्पन्न, मंगलमिटुं परकं व॥४०॥ ऋजु अतीताऽनागतपरिहारेण परकीयपरिहारेण वाऽकुटिल वस्तु सूत्रयतीति ऋजुसूत्रो नयस्तस्य स्वकमात्मीयमेव, तथा साम्प्रतं च वर्तमानक्षणभाव्येव यद्रव्यमङ्गलं तदेवैकमभिमतम्। अनभिमतप्रतिपेधमाह-नातीतम्, अतिक्रान्तसमयभावि, नाऽप्यनुत्पन्न भविष्यत्समयभाविद्रव्यमङ्गलम्, अस्यष्टम्। 'परक व परकीयं वा यद् द्रव्यमङ्गलं तदप्यस्य नेष्टम, विवक्षितकप्रज्ञापकस्याऽऽत्मानं विहाय यत् परस्मिन् वर्तत तदपि द्रव्यमङ्गलमसौनेच्छतीत्यर्थः / मन्दमतिशिक्षाऽवबोधार्थश्चाऽनभिमतप्रतिषेधः, अन्यथा ह्यभिमते कथितेऽनभिमतमर्थापत्तितो गम्यत एव / इति गाथाऽर्थः / / 40|| अभुमेवार्थ प्रयोगोपदर्शनद्वारेण समर्थयन्नाह - नातीतमणुप्पन्नं, परकीयं वा पओअणाभावा। दिटुंतो खरसिंगं, परधणमहवा जहा विफलं / / 41 // अतीतमनुत्पन्न वस्तु नास्तीति प्रतिज्ञा, प्रयोजनस्य विवक्षितफलस्य तत्राऽभावात् सर्वप्रयोजनाऽकरणादित्यर्थ इत्ययं हेतुः, दृष्टान्तस्तु खरशृङ्गम्। असत्वे चातीतानागतयोर्द्रव्यमङ्गलता दूरोत्सारितैव, धर्मिसत्व एव धर्माणामुपपद्यमानत्वादिति द्वितीयप्रयोगः क्रियते-परकीयमपि यज्ञदत्तसम्बन्ध्यपि वस्तु देवदत्तापेक्षया नास्त्येव, प्रयोजनाऽकरणात् खरविषाणवदिति हेतुदृष्टान्तौ तावेव, अथवा-यथा परस्य यज्ञदत्तस्य धनं देवदत्तापेक्षया विफलं प्रयोजनाऽसाधकं सदनास्ति, तथा सर्वमपि परकीय नास्तीति द्वितीयो दृष्टान्तः। इति कुतः परकीयस्याऽपि द्रव्यमङ्गलत्वम् ? इति गाथाऽर्थः // 41 // शब्द-समभिरूढ-वम्भूतास्तु विशुद्धनयत्वादागमतो द्रव्यमङ्गल नेच्छन्त्येव कस्मात् ? इत्याह - जाणं नाणुवउत्तोऽ-णुबउत्तो वा न याणई जम्हा। जाणतोऽणुवउत्तो, त्ति बिति सद्दादयोऽवत्थु / / 4 / / (जम्हा) इति यस्मात् जानन्नवबुध्यमानो, 'मङ्गलं' इति गम्यते, नानुपयुक्तो न तज्ज्ञानोपयोगशून्यो भवति, ज्ञायकस्य ज्ञानोपयोगनान्तरीयकत्वात् / अनुपयुक्तो वा तत्र न तजानीते न तस्य ज्ञायकोऽसौ व्यपदिश्यते; अज्ञायकत्वाभिमतवत् काष्ठाऽऽदिवत् वेत्यर्थः। तस्माजानन्ननुपयुक्तश्चेति एतदप्यवस्तु असदभाव इति यावत्, एतद् ब्रुवते शब्दाऽऽदयः शब्द-समभिरूदैवम्भूतनयाः / इति गाथाऽर्थ, // 42 // अत्राऽर्थे उपपत्तिमाह - हेऊ विरुद्धधम्मत्तणा हि जीवो व्व चेअणारहिओ। न य सो मंगलमिटुं, तयत्थसुन्नो त्ति पावं व // 43 // जानन्ननुपयुक्त श्चेत्येतदवस्तु इत्यस्यामनन्तरातिक्रान्तगाथापर्यन्तकृतप्रतिज्ञायामयं हेतुः / कः ? इत्याह-विरुद्धधम्मत्तणा हि ति विरुद्धौ धर्मों यत्र तत् तथा तद्रावस्तरमाद् विरुद्धधर्मत्वादिति / दृष्टन्तमाह-यथा जीवश्चेतनारहितः। इदमुक्तंभवति-यथा जीवश्चेतनारहितश्च माता चबन्ध्या चेत्यादि विरुद्धधर्माध्यासादवस्तु, एवं ज्ञायकश्चाऽनुपयुक्तश्चेत्येतदप्यवस्त्वेव। भवतुवा ज्ञायकोऽनुपयुक्तश्च तथाऽपि नास्माकमसौमङ्गलत्वेनेष्टः,