________________ मंगल 10- अभिधानराजेन्द्रः - भाग 6 मंगल चाऽद्रव्यमङ्गलत्वप्राप्तेः, सामान्यस्य च विभुवनेऽप्येकत्वात् / इति गाथाऽर्थः // 31 // एतदेवाऽह - एक निचं निरवय-वमक्कियं सव्वगं च सामन्नं / निस्सामन्नत्ताओ, नत्थि विसेसो खपुष्पं व // 32 // एकम्-अद्वितीयत्वादेकसङ्ख्योपेतं सामान्यम् / एकमपि क्षणिक स्यात्, तत्राऽऽह-नित्यमनपायि / नित्यमप्याकाशवत् सावयवं स्यात्, तन्निरवयवत्त्चे सवितुरुदयाऽस्तमनाऽयोगात्, इत्यत्राऽऽह-निरवयव- | मनश, पूर्वापरकोटिशून्यत्वादिति / निरवयवमपि परमाणुवत् सक्रिय स्यात्, अत आह-अक्रिय क्रियारहितम्, परिस्पन्दविनिर्मुक्तत्वादिति। अक्रियमपि दिगादिवत् सर्वगतं न स्यात्, अत्राऽऽह-सर्वगं च सकललोकाऽवाप्तसत्ताकम् / इदमित्थं भूतं सामान्यमे वाऽस्ति, न तु विशेषः कश्चनाऽपि विद्यते / कुत इत्याह-निःसामान्यत्वात्-सामान्यविरहितत्वात्, खपुष्पवत्, यचाऽस्ति तत् सामान्यविरहितं न भवति, यथा घटः / तस्मादेकस्माद् द्रव्यमङ्गलसामान्यादव्यतिरिक्तत्वाद् तद्व्यतिरेवेचाऽद्रव्यमङ्गलताप्रसङ्गात् सामान्यस्य च त्रिभुवनेऽप्येकत्वादकमेव | संग्रहनयमते द्रव्यमङ्गलम्, इति स्थितम्। इति गाथाऽर्थः / / 32 / / अत्र विशेषवादिनयमतस्थितः कश्चिदाह-ननु कथमनेकानि द्रव्यमइगलानि न सम्भवन्ति ? यथा हि वनस्पतिरित्युक्ते वृक्ष-गुल्म-लतावीरुदादयो विशेषा एव प्रतीयन्ते, न पुनस्तदतिरिक्तः कश्चिद्धनस्पतिः, एवमिहाऽपि द्रव्यमङ्गलमित्युक्तेऽनुपयुक्ततत्प्ररूपकलक्षणा विशेषा एवाऽ-- वगम्यन्ते, न तु तदधिक किञ्चित् सामान्यम्। अतः किं शून्य इवाऽस्मिन् जगत्येवमभिधीयते-'निस्सामन्नत्ताओ, नस्थि विसेसो खपुप्फव।' इति इति विशेषवादिना प्रोक्ते सामान्यवादि संग्रहः प्राऽऽह-ननु यत एय वनस्पतिरित्युक्ते वृक्षाऽऽदयः प्रतीयन्ते, अत एव ते तदनर्थान्तरभूताः, हस्तस्येवाऽङलयः, इह यस्मिन्नुच्यमाने यत् प्रतीयते, तत् ततो | व्यतिरिक्तं न भवति, यथा हस्त इत्युक्तेऽडल्यादयः प्रतीयमाना हस्ताद् न व्यतिरिक्ताः, प्रतीयन्ते च वनस्पतिरित्युक्ते वृक्षाऽदयः, इत्यमी न वनस्पतिव्यतिरिक्ताः, ततो नसामान्यादतिरिक्तः कोऽपि विशेषः समस्ति, इत्येकमेव सर्वत्र द्रव्यमङ्गलमिति। अथोपपत्त्यन्तरेणाऽपि सामान्यवाद्येव वृक्षाऽऽदीनां सर्वेषामपि वनस्पतिसामान्यरूपतां समर्थयत्राह - चूओ वणस्सइ चिय, मूलाइगुणो त्ति तस्समूहो च / गुम्मादओ वि एवं, सव्वे न वणस्सइविसिट्टे // 33 // चूतः-आम्रो वनस्पतिरेव वनस्पतिसामान्य नव्यभिचरतीत्यर्थः, इति प्रतिज्ञा, मूल-कन्द-रकन्ध-त्वक-शाखा-प्रवाल-पत्र-पुष्प-फल बीजाऽदिगुणत्वादिति हेतुः, चूतसमूहवदिति दृष्टान्तः, इह यो यो मूलाऽऽदिगुणः स स वनस्पतिसामान्यरूप एव, यथा चूतसमूहः, मूलाऽऽदिगुणश्च चूतः, तस्माद् वनस्पतिसामान्यरूप एव, गुल्माऽदयोऽप्येवं वाच्याः, तथाहि-विशेषवादिना विशेषतयाऽभ्युपगम्यमानो गुल्मोऽपि वनस्पतिसामान्यरूप एव, मूलादिगुणत्वाद् गुल्मसमूहवत्, इति। | एवमन्येषामपि लताऽऽदिविशेषाणां वनस्पतिसामान्यादव्यतिरिक्तत्व साधनीयम्। तद्व्यतिरेके सर्वत्र मृन्मयत्वाऽऽदिप्रसङ्गो बाधक प्रमाणम्। तस्मात् सामान्यमेवाऽस्ति, न विशेषाः / इति गाथाऽर्थः / / 33 / / किञ्चसामनाउ विसेसो, अन्नोऽणन्नो व होज जइ अण्णो। सो नत्थि खपुप्फ पिवऽणण्णो सामन्नमेव तयं // 34|| भो विशेषयादिन् ! सामान्याद् विशेषोऽन्यो वा स्यात्, अनन्यो वा? इति विकल्पद्वयम् / यद्याद्यो विकल्पः, तर्हि नास्त्येव विशेषः, निःसामान्यत्वात्, खपुष्पवत्- इह यद् यत् सामान्यविनिर्मुक्त तत् तद् नास्ति, यथा गगनारविन्दम्, सामान्यविरहितश्च विशेषवादिना विशेषोऽभ्युपगम्यते, तस्माद् नास्त्येवाऽयमिति। अथाऽनन्य इति द्वितीयः पक्षः कक्षीक्रियते हन्त ! तर्हि सामान्यमेवाऽसौ, तदनन्यत्वात् सामान्याऽऽत्मवद्यद्-यस्मादनन्यत्तत्तदेव, यथा सामान्यस्यैवाऽत्मा, अनन्यश्च सामान्या विशेषः, इति सामान्यमेवाऽयमिति। यदि च-अतिपक्षपातितया सामान्येऽपि विशेषोपचारः क्रियते, तर्हि न काचित् क्वचित् क्षतिः, न [पचारेणोच्यमानो भेदस्तात्त्विकमेकत्वं बाधितुमलम, तस्मात् सामान्यमेवाऽस्ति न विशेषः / इति संग्रहनयमतेन सर्वत्रैकमेव द्रव्यमइलम्। इति गाथाऽर्थः // 34 // तदेवं संग्रहेण स्वाभिमते सामान्ये प्रतिष्ठिते विशेषवादिनी नैगमव्यवहारावाहतुःन विसेसत्थंतरभू-अमस्थि सामण्णमाह ववहारो। उवलंभव्ववहारा-भावाओ खरविसाणं व / / 3 / / ननु भोः सामान्यवादिन् ! भवताऽपि वनस्पतिसामान्यं बकुलाऽशोकचम्पक-नाग-पुन्नागा-ऽऽम-सर्जा-ऽर्जुनाऽऽदिविशेषेभ्योऽर्थान्तर वाऽभ्युपगम्येत, अनर्थान्तरं वा ? यद्यर्थान्तरम्, तर्हि नास्त्येव तद् विशेषव्यतिरेकेण, उपलब्धिक्षणप्राप्तस्य तस्योपलम्भव्यवहाराभावाद्, खरविषाणवत्। क एवमाह ? व्यवहारनयः, उपलक्षणत्वाद् विशेषवादी नैगमश्च / एतौ हि लोकव्यवहारानुयायिनौ, तद्व्यवहारश्च प्रायो विशेषनिष्ठ एव, इति विशेषानेव समर्थयत इति भावः / अथानुपलब्धिलक्षणप्राप्तं तदभ्युपगम्यते, तथाऽपि नास्ति, विशेषेभ्यः सर्वथाऽन्यत्वात्, गगनकुसुमवदिति / अथ विशेषेभ्योऽर्थान्तरं तदिति द्वितीयपक्षः, तर्हि विशेषा एव तत्, तेभ्योऽनर्थान्तरभूतत्वात्, विशेषाणामात्मस्वरूपवदिति। यदि च-विशेषेष्वपि सामान्योपचारः क्रियते, तर्हि न काचित् क्षतिः, न ह्यौपचारिकमेकत्वं तात्विकमनेकत्वं बाधते। इति गाथाऽर्थः // 35 // एतदेव समर्थयते - चूयाईएहिंतो, को सो अण्णो वणस्सई नाम ? नत्थि विसेसत्थंतर-भावाओ सो खपुष्पं व॥३६।। चूताऽऽदिभ्यो विशेषेभ्योऽन्यः को नाम वनस्पतिः, यो व्रणपिण्डीपादलेपाऽऽदिके लोकव्यवहारे उपयुज्येत ? न कोऽपीत्यर्थः। तस्मात् समस्तलोकसंव्यवहारानुपयोगित्वाद् नास्ति सामान्यम्,