________________ मुत्ति 317 - अभिधानराजेन्द्रः - भाग 6 मुत्ति -- दुःखद्वेषे हि तद्धेतून, द्वेष्टि प्राणी नियोगतः। जायतेऽस्य प्रवृत्तिश्च, ततस्तन्नाशहेतुषु / / 21 / / दुःखद्वेप हीति-दुःखद्वेष हि सति प्राणी तद्धेतून दुःखहेतून, नियोगतोनिश्चयतो, द्वेष्टि अस्य दुःखहेतुद्विषश्च ततस्तन्नाशहेतुषुदुःखोपायनाशहेतुषु ज्ञानादिषु प्रवृत्तिर्जायते, दुःखद्वेष्यस्य दुःख-हेतुनाशोपायेच्छा दुःखहेतुपयोस्तयोश्च दुःखहेतुनाशहेतुप्रवृत्ती स्वभावतो हेतुत्वात् / अनुस्यूतकोपयोगरूपत्वेऽपि क्रमानुवेधेन हेतुहेतुमद्रावाविरोधात्, क्रमिकाक्रमिकोभयस्वभावोपयोगस्य तत्र तत्र व्यवस्थापितत्वात्।।२१।। इत्थं चात्र दुःखं मा भूदित्युद्देशे दुःखहेतुनाशविषयकत्व फलितमित्येतदन्यत्राप्यतिदिशन्नाहअन्यत्राप्यसुखं मा भू-माङोऽर्थेऽत्रान्वयः स्थितः। दुःखस्यैवं समाश्रित्य, स्वहेतुप्रतियोगिताम्।।२२।। अन्यत्रापीति-अन्यत्रापि प्रायश्चित्तादिस्थलेऽपि, असुखं मा भूत, अत्र माडोऽर्थे ध्वसे एवम्-उक्तरीत्या दुःखस्य स्वहेतुप्रति योगितामा'श्रत्यान्वयः स्थितः। तत्पापजन्यदुःखाप्रसिद्ध्या तद्ध्वंसस्यासाध्यवात्। अस्तु वा दुःखद्वेषस्यैवायमुल्लेखः मुख्यप्रयोजनाविषयकेच्छाविषयत्वेन च मुख्यप्रयोजनत्वमविरुद्धमिति भावः।।२२।। स्वतोऽपुमर्थताऽप्येव--मिति चेत् कर्मणामपि / शक्त्या चेन्मुख्यदुःखत्वं, स्याद्वादे किं नु बाध्यताम् / / 23 / / स्वत इति-एवमपि, स्वतोऽपुमर्थता निरुपाधिकेच्छाविषयत्वेन सुरखदुःखहान्यन्यतरस्यैव स्वतः पूमर्थत्वादिति चेत् कर्मणामपि शक्त्या चन्मुख्यदुःखत्वं तदा स्याद्वादे किं नु बाध्यताम्? दुःख हेतोरपि कथंचिद् दुःखत्वात्, दुःखक्षयत्वेन रूपेण कर्मक्षयस्य त्वन्नीत्याऽपि मुख्यप्रयोजनत्वानपायाद् रुपान्तरेण तत्त्वस्य चाप्रयोजकत्वात् / / 23 / / स्वतः प्रवृत्तिसाम्राज्यं, किं चाखण्डसुखेच्छया। निराबाधं च वैराग्य-मसङ्गे तदुपक्षयात्।।२४।। स्वत इति किं च स्वतो निरुपाधिकतया प्रवृत्तिसाम्राज्यम-खण्डसुखेच्छयाऽखण्डसुखसंवलितत्वात् कर्मक्षयस्य, नन्वेवं सुखेच्छया वैराग्यलाहलिरित्यत आह-असङ्गेऽसङ्गानुष्ठाने तदुपक्षयात सुखेच्छाया अपि विरमान्निराबाधं च वैराग्यम, भोक्षे भवे च सर्वत्र निस्पृहो मुनिसत्तमः' इतिवचनात / न चेदेव सुखेच्छया वैराग्यस्येव दुःखद्वेषात प्रशान्त वस्यापि व्याहतिरेवेति भावः // 24 // समानायव्ययत्वे च, वृथा मुक्तौ परिश्रमः / गुणहानेरनिष्टत्वा-त्ततः सुष्ठूच्यते ह्यदः / / 25 / / समानेति-समानाऽऽयव्ययत्वे च सुखदुःखाभावाभ्यामभ्युपगम्यमाने मुक्तौ वृथा परिश्रमः / गुणहानेरनिष्टत्वात्तदनुविद्वदुः खनाशोपायेऽनिष्टानुबन्धित्वज्ञानेन प्रेक्षावत्प्रवृत्तेरयोगात्ततो हादः सुष्ठूच्यते॥२५॥ | दुःखाभावोऽपि नावेद्यः पुरुषार्थतयेष्यते। न हि मूर्छाद्यवस्थार्थ, प्रवृत्तौ दृश्यते सुधीः / / 26 / / दुःखाभावोऽपीति-दुःखाभावोऽपि, न अवेद्यः-स्वसमानाधिकरणसमानकालीनसाक्षात्काराविषयः, पुरुषार्थतयेष्यते न हि मूर्छाद्यवस्थार्थ सुधीः प्रवृत्तो दृश्यते। अन्यथा तदर्थमपि प्रवृत्तिः स्यात्। अतो गुणहानेरनिष्टत्वेन दुःखाभावरूपायां मुक्तौ तदर्थ--प्रवृत्तिव्याघात एव दूषणमिति भावः // 26|| एतेनैतदपास्तं हि, पुमर्थत्वेऽप्रयोजकम् / तज्ज्ञानं दुःखनाशश्च, वर्तमानोऽनुभूयते॥२७|| एतेनेति-एतेन, गुणहानेरनिष्टत्वेन, हि-निश्चितम्, एतदपास्तम् / यदुक्तं महानयायिकेन पुमर्थत्वे तज्ज्ञानं पुमर्थज्ञानमप्रयोजक, दुःखनाशश्व वर्तमानोऽनुभूयते, विनश्यदवस्थेन योगिसाक्षात्कारेणेति॥२७॥ गुणहानेरष्टित्वं, वैराग्यान्नाऽथ वेद्यते। इच्छाद्वेषौ विना नैवं, प्रवृत्तिः सुखदुःखयोः।।२८|| गुणहानेरिति-अथ गुणहानेरनिष्टत्वं वैराग्यान्न वेद्यते कामान्धत्वादिव पारदार्ये बलवद् दुःखानुबन्धित्व, ततः प्रवृत्त्यव्याघात इति भावः / एवं सति इच्छाद्वेषौ विना सुखदुःखयोः प्राप्यनाश्ययोरिति शेषः / प्रवृत्तिर्न स्यात। परवैराग्ये प्रवृत्तिकरणयोस्तयोर्निवृत्तेरपरवैराग्ये च गुणवैतृष्ण्यस्यैवाभावाद् गुणहानेरनिष्टत्वाप्रतिसन्धानानुपपत्तेर्गुणहानेरनिष्टत्वे प्रतिसहिते प्राक्तनप्रवृत्त्यनुपपत्तौ तत्संस्कारतोऽप्यसङ्ग प्रवृत्तेर्दुर्वचत्वमिति न किञ्चिदेतत् // 28 // ननु श्रुतिबाधान्न मुक्तौ सुखसिद्धिरित्यत आहअशरीरं वा वसन्त-मित्यादिश्रुतितः पुनः। सिद्धो हन्त्युभयाभावो, नैव सत्तां यतः स्मृतम् // 26|| अशरीरमिति-अशरीरं वा वसन्तमित्यादिश्रुतितः "अशरीरं वसन्ते प्रियाप्रिये न स्पृशत" इति श्रुतेः, पुनरुभयाभावःसुखदुःखोभयाभवःसिद्धः एकसत्तां सुखरात्ता न हन्ति। एकवत्यपि द्वित्वावच्छिन्नाभावप्रत्ययात्। अस्तुवा तत्राप्रियपदसन्निधानात् प्रियपदस्य वैषयिकसुखपरत्वमेवेत्यपि द्रष्टव्यम् / यतः स्मृतम्।।२६।। सुखमात्यन्तिकं यत्रः बुद्धिग्राह्यमतीन्द्रियम् / तं वै मोक्षं विजानीयात, दुष्प्रापमकृतात्मभिः ||30 / / सुखमिति-स्पष्टः / / 30 / / उपचारोऽत्र नाबाधात्, साक्षिणी चात्र दृश्यते। नित्यं विज्ञानमानन्दं, ब्रह्मेत्यप्यपरा श्रुतिः।।३१।। उपचार इति-अत्र मुक्तिसुखप्रतिपादिकायाम्-उक्तस्मृतौ, उपचारो न दुःखाभावे सुखपदस्य लाक्षणिकत्वम् / अबाधाबाधाभावात्, जन्यस्याप्यभावस्येव भावस्यापि कस्यचिदनन्तत्वसभवात् / अत्र मुक्तिसुखे-'नित्यं विज्ञानमानन्दं ब्रह्म' इति अपराऽपि श्रुतिः साक्षिणी वर्त्तते, तया नित्यज्ञानानन्दब्रह्माभेदबोधनादिति // 31 / / परमानं दलयतां, परमानं दयावताम् / परमान्दपीनाः स्मः, परमानन्दचर्चया / / 32|| परमानमिति - परेषामे कान्ताभिनिविष्टानां मानं कु हेतु