________________ मुत्ति 316 - अभिधानराजेन्द्रः - भाग 6 मुत्ति न च शरीरादिनिमित्ताभावे तदनुपपत्तिः, पूर्वपूर्वविशिष्टक्षणानामेव तद्धेतुत्वाद्विशिष्टभावनातएव तेषां विसभागपरिक्षये प्रवृत्तेः। तेषामन्वयिन त्रिकालानुगतात्मलक्षणमाधारं विना एषा मुक्तिः कदर्थना / सन्तानस्यावास्तवत्वेन बद्धमुक्तव्यवस्थानुपत्तेः। सर्वथाऽभावीभूतस्य क्षणस्योतरसदृशक्षणजननासामर्थ्यादिति / / 6 / / विवर्त्तमानज्ञेयार्था--पेक्षायां सति चाश्रये। अस्यां विजयतेऽस्माकं, पर्यायनयदेशना / / 10 / / विवर्तमानेति-विवर्त्तमानाः--प्रतिक्षणमन्यान्यपर्यायभाजो ये ज्ञेयार्थास्तदपेक्षायामाश्रये चान्वयिद्रव्यलक्षणे सति / अस्याम-उक्तमुक्ती अस्माकं पर्यायनयदेशना विजयते प्रतिक्षितद्रव्यस्य बौद्धसिद्धान्तस्य परमार्थतः पर्यायार्थिकनयान्तः पातित्वात्। तदुक्तं संमती (3 काण्डे)"सुद्धोअणतणयस्स उपरिसुद्धो पज्जवविअप्पो'" (48) / / 10 / / स्वातन्त्र्यं मुक्तिरित्यन्ये, प्रभुता तन्मदः क्षयी। अथ कर्मनिवृत्तिश्चेत्, सिद्धान्तोऽस्माकमेव सः||११|| स्वातन्त्र्यमिति-स्वातन्त्र्य मुक्तिरित्यन्ये वदन्ति / तत् स्वातन्त्र्यं यदि प्रभुता तदा मदः, स च क्षयी। अथ चेत् कर्मनिवृत्तिस्तदाऽस्माकमेव रा सिद्धान्तः // 11 // पुंसः स्वरूपावस्थानं, सेति सांख्याः प्रचक्षते। तेषामेतदसाध्यत्वं, वज्रलेपोऽस्ति दूषणम् // 12 // पुंस इति-पुंसः पुरुषस्य, स्वरूपावस्थानम्-प्रकृतितद्विकारो पधानविलये चिन्मात्रप्रतिष्ठानं सा मुक्तिरिति सांख्याः प्रचक्षते / तेषामेतस्य मुक्तेरसाध्यत्व दूषण वज्रलेपोऽस्ति एकान्तनित्यात्मरूपायास्तस्या नित्यत्वादुपचरितसाध्यत्वस्याप्रयोजकत्वात् / / 12 / / पूर्वचित्तनिवृत्तिःसा-ग्रिमानुत्पादसंगता। इत्यन्ये श्रयते तेषा-मनुत्पादो न साध्यताम् // 13 / / पूर्वेति-अग्रिमानुत्पादसंगताऽग्रिमचित्तानुत्पादविशिष्टा पूर्वचित्तनिवृत्तिः सा मुक्तिरित्यन्ये, तेषामनुत्पादः साध्यता न श्रयत इति मुक्तेरपुरुषार्थत्वापत्तिरेव दोषः / / 13 / / सात्महानमिति प्राह, चार्वाकस्तत्तु पाप्मने। तस्य हातुमशक्यत्वा-तदनुद्देशतस्तथा।।१४।।। सेति--आत्महानं सा-मुक्तिरिति चार्वाकः प्राह / तत्तु वचनं श्रयमाणमपि पाप्मन भवति / तस्यात्मनो हातुमशक्यत्वादसतो नित्यनिवृत्तवात्, सतश्च वीतरागजन्मादर्शनन्यायेन नित्यत्वात्, सर्वथा हानासिद्धेः। तथापर्यायार्थ तया तद्धानावपि तदुद्देशत आत्मनानभिलाषात / मुक्तिपदार्थस्य च निरुपधीच्छाविषयत्वात्।।१४।। नित्योत्कृष्टसुखव्यक्ति-रिति तौतातिता जगुः / नित्थत्वं चेत्तन्तत्व-मत्र तत्संमतं हि नः॥१५|| नित्येति-न्त्यिम, उत्कृष्ट च-निरतिशयं, यत्सुखं तद्व्यक्तिमुक्तिरिति तोतातिता गुः / अत्र मते नित्यत्वमनन्तत्वं चेत्तत्तदा नःअस्माक, हिनिश्चित, संमतम् / सिद्धसुखस्य साद्यपर्यवसितत्वाभिधानात् / तस्य च / मुक्ताबभिव्यक्तेः / / 15 / / अधानादित्वमेतचे-तथाप्येष नयोऽस्तु नः। सर्वथोपगमे च स्या-त्सर्वदा तदुपस्थितिः।।१६।। अथति-अर्थतन्मुक्तिसुखे, नित्यत्वमनादित्वं चेत्तथापि न एष नयोऽस्तु संसारदशायां कर्माच्छन्नस्यापि सुखस्य द्रव्यार्थतया शाश्वतात्मस्वभावत्वात / सर्वथोपगमे च-एकान्ततोऽनादित्वा-श्रयणे च, सर्वदा-- संसारदशायामपि, तदुपस्थितिमुक्तिसुखाभिव्यक्तिः, स्यात् ! अभिव्यजकाभावेन तदा तदभिव्यक्त्यभाव-समर्थने च घटादेरपि दण्डाभिव्यङ्ग्यत्वस्य सुवचत्वे साङ्ख्यमतप्रवेशापातात्।।१६।। वेदान्तिनस्त्वविद्यायां, निवृत्तायां विविक्तता। सेत्याह साऽपि नो तेषा-मसाध्यत्वादवस्थितेः॥१७॥ वेदान्तिनस्त्विति-वेदान्तिनस्तु, अविद्यायां निवृत्तायां विविक्तताकेवलात्मावस्थानं, सा-मुक्तिरित्याहुः / साऽपि भो तेषां युक्तेति शेषः / अवस्थितेर्विज्ञानसुखात्मकस्य ब्रह्मणः प्रागप्यवस्थानाटसाध्यत्वात्, कण्ठगतचामीकरन्यायेन भ्रमादेव नात्र प्रवृत्तिरिति तु भ्रान्तपर्षदि वक्तुं शोभत इति भावः / / 17 / / कृत्स्नकर्मक्षयो मुक्ति-रित्येष तु विपश्चिताम् / स्याद्वादामृतपानस्योद्गारः स्फारनयाश्रयः ||18|| कृत्स्नेति- कृरस्नानां कर्मणां ज्ञानावरणादीन क्षयो मुक्तिः, एष तु विपश्चिताम्-एकान्तपण्डितानां स्याद्वादामृतपानस्योद्वार: स्फारा ये नयास्तत्तत्तन्त्रप्रसिद्धार्थस्तदाश्रयः षड्दर्शनसमूहमयतवस्य जैनदर्शन संमतत्वात्॥१८॥ नयानेवात्राभिव्यनक्तिऋजुसूत्रादिभिर्ज्ञान-सुखादिकपरम्परा। व्यङ्ग्यमावरणोच्छित्त्या, संग्रहेणेष्यते सुखम् / / 16 / / जुसूत्रादिभिरिति-ऋजुसूत्रादिभिनयानसुखादिकपरम्परा मुक्तिरिष्यते शुद्धनयस्तैरुत्तरोत्तरविशुद्धपर्यायमात्राभ्युपगमा न ज्ञानादीना क्षणरूपतायाः क्षणसत्तयाऽपि सिद्धः, तस्याः क्षणतादात नियतत्वात, क्षणस्वरूपे तथादर्शनात् संग्रहेण संग्रहनयेनावरणोच्छित्या व्यङ्गय सुख मुक्तिरिष्यते। तद्धिजीवस्य स्वभावः सेन्द्रियदेहाद्यपेक्षाकारणस्वरूपावरणेनाच्छाद्यते, प्रदीपस्यापवारकावस्थितपदार्थप्रकाशकत्वस्वभाव इव तदावारकशरावादिना तदपगमे तु प्रदीपस्येव जीवस्यापि विशिष्टप्रकाशस्वभावोऽयत्न-सिद्ध एवेति। शरीराभावे ज्ञानसुखाद्यभादोऽप्रेय एव। अन्यथा शरावाद्यभावे प्रदीपादेरभावप्रसङ्गात्। शरावादेः प्रदीपाद्यजनकत्वान्नोक्तप्रसङ्ग इति चेन्न, तथाभूतप्रदीपपरिणत्यजनकत्वे शरावादेस्तदनावारकत्वप्रसङ्गादिति / / 16 / / क्षयः प्रयत्नसाध्यस्तु, व्यवहारेण कर्मणाम्। न चैवमपुमर्थत्वं, द्वेषयोनिप्रवृत्तितः॥२०॥ क्षय इति-व्यवहारेण तु प्रयत्नसाध्यः कर्मणां क्षयो मुक्तिरिष्यते अन्वयव्यतिरेकानुविधानेन तत्प्रवृत्तेः ज्ञानादीनां कर्मक्षय तदनुविधानात् / न चैव कर्मक्षयस्य मुक्तित्वाभ्युपगमेऽपुमर्थत्वं, मुक्तेद्वेषयोनिप्रवृत्तितः साक्षाद् दुःखहेतुनाशोपायच्छाविषयत्वन परमपुरुषार्थत्वाविरोधात् // 20 //