________________ 315 - अभिधानराजेन्द्रः - भाग 6 मुत्ति मान्यकालवृत्ति-दुःखध्वंसप्रतियोगिनि दुःखे विद्यमानत्वात् सैवेति संपूर्णम्। आत्मकालपदेन तदुपाध्योरपि ग्रहाच्च नतस्यास्तादवस्थ्यम्॥१॥ सत्कार्यमात्रवृत्तित्वात्, प्रागभावोऽसुखस्य यः। तदनाधारगध्वंस-प्रतियोगिनि वृत्तिमत्।।२।। सदिति-असुखस्य-दुःखस्य, यः प्रागभावस्तदनाधारो महाप्रलयस्तत्र गर ति यो ध्वंसो दुःखी यस्तत्प्रतियोगिनि दुःखे वृत्तिमदिति / साध्यम् वृतिमदित्युक्तौ सिद्धसाधनं, दुःखत्वस्य दुःखे विद्यमानत्वात / प्रतियोगिवृत्तित्वोक्तावपि दुःखात्यन्ताभावप्रतियोगिवृत्तित्वेन, तद्धंसेन्यायुक्त वपि दुःखध्वंसाङ्गीकारात्तदेव / प्रागभावानाधारवृत्तित्वस्य सविशेषणत्वे दृष्टान्तासिद्धिः। प्रदीपावयवानां प्रदीपप्रागभावाधारत्यात्तदर्थ दुःखेत्यादि। प्रदीपावयवास्तु दुःखप्रागभावा (ना) धारभूता इति दृष्टान्तसंगतिः / दुःखानधिकरणेत्यादिकरणे खण्डप्रलयेनार्थान्तरता स्यादिति दुःखप्रागभावनिवेशः / सत्कार्यमात्रवृत्तित्वादिति हेतुः / बुनिस्वमात्मत्वे व्यभिचारिकार्यवृत्तित्वमनन्तत्वध्वंसाप्रतियोगित्वरूप-- स्य तस्वकार्ये आत्मादौ कार्ये ध्वसे च सत्त्वात्। कार्यमात्रवृत्ति-त्वमपि "वंसाचे न्यभिचारवृत्तित्वे (व्यभिचारि तदर्थ भाववृत्ते) सतीति विशेषणे दीयमानेऽपि न तदुद्धारः / प्राग्भावध्वंसस्य प्रतियोगितद्ध्वंसस्वरूपत्वेन ध्वसत्वस्यापि भाववृत्तित्वात्। ततः सदिति कार्यविशेषणम् / / 2 / / दीपत्ववदिति प्राहु-स्तार्किकास्तदसंगतम्। बाधा वृत्तिविशेषेष्टा-वन्यथार्थान्तराव्ययात्॥३।। दोपत्ववदिति, दृष्टान्तः, इति-तार्किकाः-नैयायिकाः / इत्थं सर्वमुक्तिसिद्धी पत्रदुःखत्वादिकं पक्षीकृत्य तत्तन्मुक्तित्वसाधनोपपत्तेः / तत्तार्किकमतमसंगतम न्यायापतम। वृत्तिविशेषस्याभावीयविशेषणतया दुःखप्रारभावानाधारवृत्तित्वस्येष्टी साध्यकोटिनिवेशोपगमे बाधात / दुःखध्वसस्य दुःखसमवायिन्येव तया वृत्तित्वस्य त्वयांपगमात्। अन्यथा सम्बन्धमात्रेण तदिष्टौ अर्थान्तराव्ययादर्थान्तरानुद्धारात आकाशादावपि दुःखध्वसस्य व्यभिचारितादिसम्बन्धेन वृत्तित्वात्प्रकृतान्यसिद्धः / कालिकदेशिकविशेषणतान्यतरसम्बन्धेन वृत्तित्वोक्तावपि कालोपाधिवृत्तित्वेन तदनपायात् / कालिकेन दुःखप्रागभावानाधारत्वनिवेशे च दृष्टान्तासङ्गते। मुख्यकालवृत्तित्वविशिष्टकालिकसम्बन्धेन तन्निवेशेऽपि आत्मनस्तथात्वात्। उक्तान्यतरसबन्धन तन्निवेशेऽपि तथा-सम्बन्धगभंव्याप्त्यग्रहादिति भावः / / 3 / / विपक्षबाधकामावा-दनभिप्रेतसिद्धितः / अन्तरैतदयोग्यत्वा च्छता योगापहेति चेत्।।४।। विपक्षेति--विपक्षे हेतुसत्त्वेऽपि साध्यासत्त्चे, बाधकस्यानुकूलतर्कस्याम तात् / तथा चानभिप्रेतसिद्धितोऽनिष्ट सिद्धिप्रसद्भात / कालान्यत्वगर्भसाध्य प्रत्यपि उक्तहेतारविशेषात्। एतदुक्तसाध्यमन्तरा सर्वमुक्त्यसिद्धौ अयोग्यत्वाशङ्का। य एव न कदापि मोक्ष्यते तद्वदह यदि स्थां तदा मम विफलं परिव्राजकत्वमित्याकारा, योगापहा-योगप्रतिबन्धिकेत्यद एव विपक्षबाधकमिति चेत् // 4 // नैवं शमादिसंपत्त्या,स्वयोग्यत्वविनिश्चयात् / न चान्योऽन्याश्रयस्तस्याः , संभवात् पूर्वसेवया / / 5 / / नैवमिति-एवं न यथोक्तं विपक्षबाधकं भवता, शमादीनां शमदमभोगाभिष्वङ्गादीना मुमुक्षुचिहाना संपत्या। स्वयोग्यत्वस्य विनिश्चयात-- तेषां तदव्याप्यत्वात् / न चान्योन्याश्रयो योगप्रवृत्ती सत्यां शमादिसम्पत्तिस्ततश्चाधिकारविनिश्चयात्सेति संभावनीयम, तस्याः-शमादिसंपत्तेः पूर्वसवथा योगप्रवृत्तेः प्रागपि,सम्भवात्-योगप्रवृत्तेरतिशयितशमादिसम्पादकत्वेनेव फलवत्त्वात्। सामान्यतस्तुतत्र कर्मविशेषक्षयोपशम एव हेतुरिति न किञ्चिदनुपपन्नम्।।५।। शमाद्युपहिता हन्त, योग्यतैव विभिद्यते। तदवच्छेदकत्वेन, संकोचस्तेन तस्य न ||6|| शमादीति- शमादिभिर्मुमुक्षुलिनै रुपहिता हन्त योग्यतैव विभिद्यते / सामा सयोग्यतातः समुचितयोग्यतायाः प्राग भेदसमर्थनात्। तेन कारणेन तदेव छदकत्वेन योग्यतावच्छेदकत्वेन तस्य शमादेः संकोचोन योग्यतावच्छेदकत्वलक्षणः, योग्यताविशेषस्यैव अतिशयितशमादौ तद्द्वारा च मोक्षे हेतुत्वात्।॥६॥ ननु शमादावपि संसारित्वेनैव हेतुतेति सर्वमुक्त्याक्षेप ___ इत्यत आहसंसारित्वेन गुरुणा, शमाऽऽदौ च न हेतुता। भव्यत्वेनैव किं त्वेषे-त्येतदन्यत्र दर्शितम् / / 7 / / संसारित्वेनेति-संसारित्वेन नित्यज्ञानादिमद्भिन्नत्वरूपेण गुरुणा नानापदार्थघटितेन शमादौ च हेतुता न तव कल्पयितुमुचितेति शेषः / कि तु-भव्यत्वेनैवैषा हेतुता, शमाद्यनुगतकार्यजनकतावच्छेदकतया - इत्मत्वव्याप्यजातिविशेषस्य कल्पयितुमुचितत्वाद् / द्रव्यत्वादावप्यनुगतकार्यस्यैव मानत्वात्। आत्मत्वेनैव शमादिहेतुत्वे विशेषसामग्यभावेनेश्वरेऽतिप्रसङ्गाभावे समर्थनीयेऽन्यत्रापि तेन तस्य सुवचत्वाद्भव्यत्वामध्ययशव भव्यत्वनिश्चयेन प्रवृत्त्यप्रतिबन्धादिति / एतदन्यत्र न्यायालाकादा दर्शितम् // 7 // परमात्मनि जीवात्म-लयःसेति त्रिदण्डिनः। लयो लिङ्गव्ययोऽत्रेष्टो, जीवनाशश्च नेष्यते // 8|| परमात्मनीति-परमात्मनि, जीवात्मलयः-सा-मुक्तिरिति, त्रिदण्डिनो वदन्ति। अत्रैतन्मते लयो लिङ्गव्यय इष्टोऽस्माकमप्यभिमतः / एकादशन्द्रियाणि पञ्च महाभूतानि च सूक्ष्ममात्रया संभूयावस्थितानि जीवात्मनि सुखदुःखावच्छेदकानि लिङ्गशब्दे-नोच्यन्ते, तद्व्ययश्च परमार्थतो नामकर्मक्षय एवेति। जीवनाशस्तु नेष्यते, उपाधिशरीरनाशे औपाधिकजीवनाशस्याप्यकामम्यत्वात् / / 8 / / बौद्धास्त्वालयविज्ञान-सन्ततिःसेत्यकीर्तयन्। विनाऽन्वयिनमाधारं, तेषामेषा कदर्थना ||6| बोद्धास्त्विति- बौद्धास्तु, आलयविज्ञानसन्ततिः-प्रवृत्तिविज्ञानोपप्लवरहिता संहतज्ञयाकारा ज्ञानक्षणपरंपरा, सामुक्तिरित्यकीर्तयन् यथोक्तम"चित्तमेव हि संसारो, रागादिक्लेशवासितम्। तदेव तैर्विनिर्मुक्तं, भवान्त इति कथ्यते / / 1 / / "