________________ मीसजाय 304 - अभिधानराजेन्द्रः - भाग 6 मीसजाय धुमिश्रम् / श्रमणाना पाखण्डिष्वन्तर्भावविवक्षणात् श्रमणमिश्र पृथग नोक्तम्। एतच मिश्रजात सहस्रान्तरमपि--सहस्रान्तरे गतमपियेन तत्कृतं तेनान्यस्मै दत्तं तेनाप्यन्यस्मै यावत्सहस्रतमाय दत्त, ततोऽपि पर यदि साध्वे ददाति तथापि न कल्पते। भाजनशुद्धौ विधिमाह-येन भाजनेन तन्मिश्रं गृहीत तस्मिन् भाजने मिश्रपरित्यागानन्तरं कल्पे प्रक्षालने विगुणे कृते अन्यत्-शुद्ध गृहीतुं कल्पते नान्यथा। एनामेव गाथां भाष्यकृद् व्याचिख्यासुः प्रथमतो मिश्रजा तस्य संभवमाहदुग्गासे तं समइ-च्छिउं व अद्धाणसीसए जत्ता। सड्डी बहुभिक्खयरे, मीसज्जायं करे कोई॥३३।। दुःखेन ग्रासो यत्र तद् दुर्गासम्-दुर्भिक्षम, तस्मिन् भिक्षाचररात्वानुकम्पया,यद्वा-तद् दुर्भिक्ष समतिक्रान्तः कश्चित् बुभुक्षाकष्टं महत्परिज्ञाय / यदिवा-अध्वशीर्षककान्तारादिनिर्गमरूपे प्रवेशरूपे खिन्नभिक्षाचरानुकम्पया / यद्वा-यात्रायाम्-तीर्थ-यात्रादिरूप उत्सवविशेषे, दानश्रद्धया काऽपि श्रद्धी-श्रद्धावान्, बहून भिक्षाचरानुपलभ्य, मिश्र संप्रति यावदर्थिकस्य मिश्रजातस्य परिज्ञानोपायमाहजावंतहा सिद्धं, नेयं तं देह कामियं जइ णं / बहुसु व अपहुप्पंते, भणाइ अन्नं पि रंधेह // 272 / / काचित किमपि साधवे ददती कयाचित् प्रतिषिध्यते नेदं दीयमानं यावदर्थ सिद्धम् यावन्तः केचनापि भिक्षाचराः समागमिष्यन्ति तेषामर्थाय सिद्धम् -किंतु विवक्षितम्, तस्मात्तद्देहि यतिभ्यः, कामित यावद गृह्णन्ति, तावत्प्रमाणम्, यद्वा-प्रचुरेषु भिक्षाचरेषु समागच्छत्सु अग्रेतनप्रमाणे राध्यमाने, अप्रभवति-अपूर्यमाणे, गृहनायको भणति, नैतावता रावेन सरिष्यति, ततोऽन्यदप्यधिक प्रक्षिप्य राध्नुहि, एवं श्रुते यावदर्थिक मिश्र परिज्ञायते,ज्ञात्वा च परिहर्तव्यमिति। संप्रति पाखण्डिमिश्रसाधुमिश्रे प्रतिपादयतिअत्तऽट्ठा रंधंते, पासंडीणं पि बिइयओ भणइ। निग्गंथऽट्ठा तइओ, अत्तऽट्ठाएऽविरंधते // 273 / / आत्मार्थकुटुम्बार्थ गृहिण्या, राध्यमाने--पच्यमाने, गृहनायको यावदर्थिकमिश्रप्रवर्तकगृहनायकापेक्षया द्वितीयो भणति, यथा-पाखण्डिनाभप्यायाधिक प्रक्षिप, तथा आत्मार्थमेव राध्यमाने तृतीयो गृहनायको बूते, यथा-निर्ग्रन्थानामर्थायाधिक प्रक्षिपेति। तत एवं श्रुते पाखण्डिमिश्रसाधुमिश्रयोरपि परिज्ञानं भवति / संप्रति यदुक्तमेतत् मिश्रजात पुरुषसहस्रान्तरमपि न कल्पते इति। तद् दृष्टान्तेन भावयति - विसघाइयपंसियासी, मरइ तमन्नोऽवि खाइउं मरइ। इय पारंपरमरणे, अणुमरइ सहस्सओ जाव।।२७४।। इह कोऽपि वेधकेन-विषेण घातितः, तस्य पिशितं योऽश्नाति तोऽपि मियत, तरयाऽपि मासं यो भक्षयति सोऽपि म्रियते, एवं परंपरया मरणे तावद् अनु-पाश्चात्यः, पाश्चात्यो म्रियते, यावत्ते नियमाणाः संख्यया / सहस्रशो भवन्ति / इत्थं सहस्रवेधकस्य विषस्य प्रभावः यत्सहस्रान्तरगतममि मारयतीति भावः। एवं मीसजायं, चरणप्पं हणइ साहुसुविसुद्ध / तम्हा तं नो कप्पइ, पुरिससहस्संतरगयं पि॥३७५।। एवम् सहरयवेधकविषमिव, यावदर्थिकपाखण्डिसाधुविषयम्, मिश्रजातमप्येकेनान्यस्मै दत्त तेनाप्यन्यस्मायित्येवं परम्परया पुरुषसहस्रान्तरगतमपि साधोः सुविशुद्धं वरणात्मानं हन्ति, तस्मान्न कल्पते साधूनां सहस्रान्तरगतमपि मिश्रम्। संप्रति साधुविषयं विधिमाहनिच्छोडिए करीसेण, वाऽवि उवट्ठिए तओ कप्पा। सुक्कावित्ता गिण्हइ, अन्नचउत्थे असुक्के वि / / 276 / / मिश्रे कथमपि गृहीते पश्चात्तरिमस्त्युक्ते सति भाजने निच्छोटिते अडल्यादिना निरवयवे कृते। यदा-करीषेण शुष्कगोमयरूपेण उद्घर्तिते, पश्चात् त्रयः कल्पा दीयन्ते, तत आतपे तद्भाजनं शोषयित्वा पश्चात्तस्मिनट्यते-शुद्ध गृह्णाति नान्यथा, पूतिदोषसंभवात्। अन्ये तु सूरयः प्राहुः चतुर्थे कल्पे दत्ते सति अशुष्केऽपि गृहन्ति, नास्ति कश्चिद्दोषः / अयं च प्रक्षालनविधिः सर्वत्राप्यशोधिकोटिग्रहणे वेदितव्यः / पिं० आचा० मिश्रजातग्रहणे प्रायश्चित्तमाहजे भिक्खू वा अणंतकायसंमिस्सं जुत्तं आहारं आहारेइ आहारंतं वा साइजइ / / 5 / / जे भिक्खू वा अणंतकातो मूलकंदो अल्लगपुडादि वा एवमादिस-म्मिस्स जो भुंजति तस्स चउगुरु। गाहासूत्रम्जो भिक्खू असणादी, मुंजेज्ज अणंतकायसंजुत्तं / सो आणाअणवत्थं, मिच्छत्तविराधनं पावे।।५३।। आणादिया दोसा भवंति। इमे दोसा। गाहातं कायपरिचययी, तेण य वत्तेण समं वयती। अतिखट्टअणुचितेण य, विसूतिगादीणि आयाए।।५४।। इमा आयविराधणा। तेण रसालेण अतिखट्टेण-अणुचितेण य विसूतितादी भवे, मरेज वा. अजीरंतो वा अण्णतरो रोगातको भवेज, एवं आयविराहणा। जम्हा एते दोसा तम्हा ण भोत्तव्वं। कारणे भुजेज्जा / गाहाअसिवे ओमोयरिए, रायबुट्टे भए व गेलण्णे। अद्धाणरोहए वा, जयण इमा तत्थ कायव्वा // 55 // पूर्ववत्। इमा वक्खमाणजयणा / गाहाओमं तिभागमद्धे, तिभाग आयंबिले चउत्थादी। निम्मिस्से मिस्सेया, परित्तणं ते य जतणा य / / 56 / / जहा एव सुत्ते वक्खमाणो जहा वा पेढे भणिया, तहा वत्तव्वा, इमो से अक्खरत्थो / तुम एस णिज्ज भुजति. तिभा--