________________ मियापुत्त 300 - अभिधानराजेन्द्रः - भाग 6 मियापुत्त षामुपक्षेपे यन्मृगस्यैव पुनः पुनर्दृष्टान्तत्वेन समर्थनं तत्तस्य प्रायः प्रशमप्रधानत्वादिति सम्प्रदाय इति सूत्राष्टकार्थः / एवं मृगचर्यास्वरूपमुक्तवा यत्तेनोक्तं य च पितृभ्यां पितृवचनानन्तरं च यदसौ कृतवास्तदाहमिगचारियं चरिस्सामि, एवं पुत्ता ! जहासुहं। अम्मापिऊहिँऽगुण्णाओ, जहाइ उवहिं तओ।।४।। मिगचारियं चरिस्सामो, सव्वदुक्खविमुक्खणिं / तुन्भेहिं अम्ब ! ऽणुण्णाओ, गच्छ पुत्त ! जहासुहं / / 85 / / एवं सोऽम्मापियरं, अणुमाणित्ताण बहुविहं / ममत्तं छिंदई ताहे, महानागु व्व कंचुयं / / 86|| इड्डी वित्तं च मित्ते य, पुत्तदारं च नायओ। रेणुअंव पडे लग्गं, निद्भुणित्ताण निग्गओ / / 7 / / गाथाचतुष्टयं स्पष्टमेव / नवरम्, मृगस्येव थर्या-चेप्टा, मृगवर्या ता निष्प्रतिकर्मतादिरूपां चरिष्यामीति, बलश्रिया युवराजेनोक्त पितृभ्यामभाणि-एवं यथा भवतोऽभिरुचितं तथा यथासुख तेऽस्त्विति शेषः एवं चानुज्ञातः सन् जहाति-त्यजति, उपधिम्-उपकरणमाभरणादि, द्रव्यता, भावतस्तुछयादि येनात्मा नरक उपधीयते, ततश्च प्रव्रजतीत्युक्तं भवति / उक्तमेवार्थ सविस्तरमाह-(सव्वदुक्खविमोक्खणिं) सकलासातविमुक्तिहेतुम (तुल्भेहिं ति) युवाभ्यामम्य ! उपलक्षणत्वात पितश्च, अनुज्ञातः अनुमतः सन्, तावाहतुः-गच्छ मृगचर्ययेति प्रक्रमः, पुत्र ! यथासुखम् -सुखानतिक्रमेण, अनुमन्य-अनुज्ञाप्य, ममत्वमप्रतिबन्धम, छिनत्ति-अपनयति, महानाग इव कशुकम्, यथाऽसावतिजरटतया चिरप्ररूढमपि कभुकमपनयति, एवमसावपि ममत्वमनादिभवाभ्य-स्तमुपलक्षणत्वात् मायादींश्च / / अनेनान्तरोपधित्याग उक्तः, बहिरुपधित्यागमाह-ऋद्धिम-करितुरगादिसम्पदम, वित्तम-द्रव्यम्, (णायओ त्ति) ज्ञातीन-सोदरादीन्. (णिद्धणित्त त्ति) नि येव निर्दूय, त्यक्तवेति यावत, निर्गतः-निष्क्रान्तो गृहादिति गम्यते, प्रव्रजित इति योऽर्थः / इति सूत्रचतुष्टयार्थः। एनमेवार्थ स्पष्टयितुमाह नियुक्तिकृत - नाऊण निच्छयमई, एव करेहि त्ति तेहिं सो भणिओ। धन्नोऽसि तुमं पुत्ता ! जंसि विरत्तो सुहसएसु // 415 / / सीहत्ता निक्खमिउं, सीहत्ता चेव विहरसु पुत्ता ! / जह नवरि धम्मकामा, विरत्तकामा उ विहरंति // 416 / / नाणेणं दसणे य, चरित्ततवनियमसंजमगणेहिं। खंतीए मुत्तीए, होहि तुम वड्डमाणो उ।।४१७।। संवगजणिअहासो, मुक्खगमणवद्धचिंधसन्नाहो। अम्मापिऊण वयणं, सो पंजलिओ पडिच्छी य॥४९॥ गाथाचतुष्टयं पाठसिद्धमेव, नवरमाद्यगाथात्रयेण एवं पुत्र / यथासुखम् इत्यतत्सूचितार्थाभिधानतो व्याख्यातम, चतुर्थगाथया त्ववशिष्टसूत्र भावार्थभिधानमः, सुखशतेभ्य इति बहुत्वोपलक्षणं शतग्रहणम, (सांहत्ता इति) सिंहतया निष्कम्य-प्रव्रज्य, सिंहतथैव विहर पुत्र ! इति जात ! किमुक्त भवति ? यथा सिंहः स्वस्थानादिनिरपेक्ष एव निष्क्रामति, निष्क्रम्य च तथैव निरपेक्षवृत्या विहरति, एवं त्वमपि विहरेलि. 'नवर' ति परं धर्म एव कामः-अभिलाषो येषा ते धर्मकामाः, 'विरत्तकामे' ति प्राग्वत् कामविरक्ताः-विषयपराङ्मुखाः, 'चरित्रतपोनियमस्यमगुण' रित्यत्र चारित्रान्तर्गतत्वेऽपि तपःप्रभृतीनामुपदेशात्सामान्यविशेषयोश्य कथञ्चिद्भिन्नत्वाचन पोनरुतत्यम्, तथा संवेगोमोक्षाभिलाषस्तेन जनिता हासो-मुखविकाशत्मकोऽस्येति संवेगजनितहासः-मुक्तयुपायोऽयं दीक्षेल्युत्सवमिव ता मन्यमानः प्रहसितमुख इत्यर्थः, पठन्ति च-(संवेगजणियसद्धो त्ति) स्पष्टमेव, तथा मोक्षो-मुक्तिस्तद्गमनाय बद्धमितिधृतं चिह्न धर्मध्वजादि, तदेव सन्नाहो-दुर्वचनशरप्रसर-निवारकः क्षान्त्यादि येन स तथा, (पडिच्छीय त्ति) प्रत्येषीत्, प्रतिपन्नवानिति गाथाचतुष्टयार्थः / / ततोऽसौ कीदृक् सञ्जात इत्याहपंचमहव्वयजुत्तो,पंचसमिओ तिगुत्तिगुत्तो / सर्दिभतरबाहिरिए, तवोकम्ममि उज्जुओ।।८८|| निम्ममो निरहंकारो, निस्संगो चत्तगारवो। समो अ सव्वभूएसु, तसेसु धारवरेसु ||6|| लाभालाभे सुहे दुक्खे, जीविए मरणे तहा। समो निंदापसंसासु, तहा माणावमाणओ ||6|| गारवेसु कसाएसु, दंडसल्लभएसु अ। नियत्तो हाससोगाओ, अनियाणो अबंधणो ||1|| अणिस्सिओ इह लोए, परलोए अणिस्सिओ। वासी चंदणकप्पो अ, असणेऽणसणे तहा।।२।। अप्पसत्थेहिँ दारेहिँ, सव्वओ पिहियासवो। अज्झप्पझणजोगहिं, पसत्थदमसासणो // 63|| सूत्रषटक निगदसिद्धमेव / नवरम् (सभितरबाहिरिए ति) सहाभ्यन्तरःप्रायश्चित्तादिभिहिौश्च-अनशनादिभिर्भदैर्वर्तत इति सवाह्याभ्यन्तरं तस्मिन प्रधानत्वाच्च प्रथममभ्यन्तरोपादानम्। 'निर्ममाः' -ममत्वबुद्धिपरिहारतः निस्सङ्ग:-सङ्ग हेतुधनादित्यागतः, समश्च-नरागद्वेषवारिममत्वादेरेव। लाभेत्यादिना समत्वमेव प्रकारान्तरेणाह, अत्र च-'समः' नलाभादौ चित्तोत्कर्षभाग नाप्यलाभादौ देन्यवान, जीविते मरणे समो, नैकत्राप्याकाडावान्, (माणवमाणओ त्ति) मानापमानयाः, गौरवादीनि सूत्रेसुब्व्यत्ययेन सप्तम्यन्ततया निर्दिष्टानि पञ्चमयन्ततया व्याख्येयानि, निवृत्त इति च सर्वत्र सम्बन्धनीयम् - अबन्धनः-रागद्वेषबन्धनरहितः / अत एव अनिश्रित:-इहलोके परलोके वाऽनिश्रितो नेह लोकार्थ परलोकार्थवाऽनुष्ठानवान्, ‘णो इह लोगट्टयाएतवमहि?ला नोपरलोग?याए तवमहिट्ठजा 'इत्याद्यागमात् / पुनरभिश्रितभिधानं च मन्दमतिविनेयानुग्रहार्थमदुष्टमेव वासीचन्दनकल्प इत्यनेन समत्वमेव विशेषत आह. वासी चन्दनशब्दाभ्यां च तद्व्यापारकपुरुषावुपलक्षितौ, ततश्च