________________ मियापुत्त 266 - अभिधानराजेन्द्रः - भाग 6 मियापुत्त यस्मात्, साता सुखरूपा नास्ति वेदना, तत्त्वतो वैषायिकसुणमसुखमेव, ईर्ष्याानेकदुःखानुविद्धत्वाद्विपाकदारुणत्वाच। सर्वस्य चास्य प्रकरणस्यायमाशयः-य एवमहं निमेषान्तरमात्रमपि काल न सुखं लब्धवान् सक्थं तत्त्वतः सुखोचितःसुकुमारो वेति शक्यते वक्तुम् ? येन च नरकष्वत्युष्णशीतादयो महावेदना अनेकशः सोढास्तस्य महाव्रतपालनं क्षुदादिसहनं वा कथमिव वाधाविधायि ? तत्त्वतरन्तस्य परमानन्दहेतुत्वात्, तत्प्रव्रज्यैव मया प्रतिपत्तव्येत्येकत्रिंशत्सूत्रावयवार्थः / तत्रैवमुक्त्वोपरते - तं वितऽम्मापियरो, छंदेणं पुत्त ! पव्वया। नवरं पुण सामण्णे, दुक्खं निप्पडिकम्मया // 75|| तम-मृगापुत्र बूतोऽम्बायितरौ, छन्दः-अभिप्रायस्तेन स्वकीयेनेति गम्यते, किमुक्तं भवति? यथाऽभिरुचितं पुत्र ! प्रव्रज-प्रव्रजितो भव, 'नवरम्' इति-केवलम, पुनः विशेषणे, श्रामण्ये- श्रमणभावे, दुःखम् - दुःखहेतुः, निष्प्रतिकर्मता कथञ्चिद्रोगोत्पत्तौ चिकित्साऽकरणारूपा इति सूत्रार्थः। इत्थं जनकाभ्यामुक्ते - सो बिंतऽम्मापियरो, एवमेयं जहा फुडं। परिकम्मं को कुणई, अरण्णे मिगपक्खिणं? ||76 / / एगभूओ अरण्णे या, जहा ऊ चरई मिगो / एवं धम्म चरिस्सामि, संजमेण तवेण य // 77 / / जया मिगस्स आयंको, महारणमि जायई। अच्छंतं रुक्खपूलंमि, को णं ताहे चिगिच्छई ? ||78|| को वा से ओसहं देइ, को वा से पुच्छई सुहं। को से भत्तं व पाणं वा, आहरित्तु पणामई ? // 76 / / जया य से सुही होइ, तया गच्छइ गोअरं / भत्तपाणस्स अट्ठाए, बल्लराणि सराणि य।।८।। खाइत्ता पाणियं पाउं, वल्लरेहिं सरेहिय। मिगचारियं चरित्ता णं, गच्छई मिगचारियं // 81|| एवं समुट्ठिए भिक्खू, एवमेव अणेगए। मिगचारियं चरित्ता णं, उड्डे पक्कमई दिसं ||2|| जहा मिए एग अणेगचारी, अणेगबासे धुवगोअरे अ। एवं मुणी गोयरियं पविट्ठे, नो हीलए नो वि य खिंसइज्जा / / 83|| स इति-युवराजः, (विति त्ति) आर्षत्वाद ब्रूते अम्बापितरौ, यथैतनिष्प्रतिकर्मतया दुःखरूपत्वं युवाभ्यामुक्त यथा स्फुटमिति प्राग्वत्, परं परिभाव्यतामिदम-परिकर्म-रोगोत्पत्तौ चिकित्सारूपं, कः करोति ? न कश्चिदित्यर्थः, क्व ? अरण्ये, केषा ? मृगपक्षिणाम्, अथ चैतऽपि जीवन्ति विचरन्ति च, ततः किमस्या दुःखरूपत्वमिति भावः, यतश्चैवमतः- | 'एगेत्यादि' सर्व स्पष्टमेव। नवरम्, एकभूतः-एकत्वं प्राप्तोऽरण्ये (वेति) वा पूरणे, (जहा उत्ति) यथैव, एवमिति-एकभूतः, संयमेन तपसा चेति, धर्मचरणहेतुः / यदा-आतङ्कः-आशुधाती रोगो, महारण्य इतिमहाप्रहणममहति शरण्येऽपि कश्चित्कदाचित्पश्येत्, दृष्ट्वा च कृपातश्चिकित्सेदपि, श्रूयते हि-केनचिदिषजा व्यावस्य चक्षुरुद्धाटितमटव्यामिति, वृक्षमूल इति-तथाविधावासाभावदर्शनम्, (कोणं ति) 'अवा सन्धिलोपो बहुलम्' इति वचनाद् अजलोपे, क एनम् तदा-आतङ्कोत्पत्तिकाले, चिकित्सति-औषधाधुपदेशेन नीरोगं कुरुते ? न कश्चिदित्यर्थः, चिकित्सके चासति को वेति-वाशब्दः समुच्चये, औषधं ददातीत्ये-वमुत्तरोत्तराप्राप्तिरुपदर्शनीया॥ (आहरित्तु त्ति) आहृत्य, पणामयेत-अर्पयेत् "अर्पःपणामः' इति वचनात्।। कथं तर्हि तस्य निर्वहणम् ? इत्याहयदा स सुखी भवति, स्वत एव रोगाभाव इति गम्यते, गच्छति-याति गौरिव परिचितेतरभूभगपरिभावनारहितत्वेन, चरणम्-भ्रमणमस्मिन्निति गोचरस्तं भक्तमिवभक्तं तद्भक्ष्यम् तृणादि, तच पानं च भक्तपानं, तस्य अर्थाय प्रयोजनाय, गोचरमेव विशेषत आह-वल्लराणिगहनानि, उक्त च-"गहणमवाणियदेस रणे छत्तं च वल्लरं जाण" सरांसि च-जलस्थानानि, स्वादित्वा निजभक्ष्यमिति गम्यते, वल्लरेषु सरःसुवेति सुव्ययत्ययेन नेयम् तथा मृगाणां चर्या-इतश्चोतलवनात्मकम् चरणं भृगचर्या ताम, मितचारिता वा परिमित क्षणात्मिकाम, चरित्या-आसेय्य, परिमिताहारा एव हि स्वरूपेणैव मृगा भवन्ति, विशेषाभिधायित्वाच्च न पौनरुक्तयम्, ततश्च गच्छति-याति, मृगाणां चर्या-चेष्टा, स्वातन्त्र्योपवेशनादिका यस्या सा मृगचर्या-मृगाश्रयभूस्ताम् / अनेन च सूत्रपञ्चकेन दृष्टान्त उक्तः, उत्तरेण सूत्रद्वयेनात्मन्येतदुपसंहारः, इह च-'एव' मिति मृगवत्समुत्थितः-संयमानुष्ठानम् प्रत्युद्यतस्तथाविधाऽऽतकोत्पत्तावपि न कश्चित् चिकित्साऽभिमुख इति भावः / एवमेव मृगवदेव, (अणेगय त्ति) अनेकगो यथा ह्यसौ वृक्षमूले नैकस्मिन्नेवास्ते-किंतु कदाचिक्तवचिदेवमेषोऽप्यनियतस्थानस्थतया, पठ्यते च-(अणिायणे ति) अनिकेतनः, अगृहः, स चैव मृगचर्या चरित्वा मृगवदाताभावे भक्तपानार्थ गोचरं गत्वा तल्लब्धक्तपानोपष्टम्भ-तश्च विशिष्टसम्यग्ज्ञानादिभावतः, शुक्लध्यानारोहणादपगता-शेषकर्माश ऊर्ध्व दिशमिति सम्बन्धः / प्रकर्षण क्रामति-गच्छति प्रक्रामति, किमुक्तं भवति? सर्वोपरिस्थानस्थितो भवति, निवृत इति यावत्, एवं च निवृतिरेवेह मृगचर्योपमार्थत उक्ता, तत्र हि मृर्गापमा मुनय इत इतश्चाप्रतिबद्धविहारितया विहृत्य गच्छन्तीति / / मृगचर्यामेव स्पष्टयितुमाह-यथा मृगः (एग त्ति) एकःअद्वितीयः, अनेकचारी-नैकवभक्तपानार्थचरतीत्येवंशीलः, अनेकवासःनैकत्रवासः-अवस्थानमस्यास्तीति, ध्रुवगोचरश्चसर्वदागोचरलब्धमेवाहारमाहारथतीति, एवम् मृगवदेकत्वादिविशेषणविशिष्टो मुनिः, गोचर्याभिक्षाटनम्, प्रविष्टो न हीलयेद्-अवजानीयात्, कदशनादीति गम्यते, नापि च (खिंसएन त्ति) निन्देत्तथाविधाहाप्राप्तौ स्वं परं वा इह च मृगपक्षिणामुभये