________________ मियापुत्त 268 - अभिधानराजेन्द्रः - भाग 6 मियापुत्त मरुवालुकानिवह इव, तात्स्थ्यात्तद्मपदेशसंभवादन्तभूत वार्थत्वाचात एव वज्रवालुकानदीलसम्बन्धिपुलिनमपि वज्रवालुकाः तत्र, यद्वावज्रवद्वालुका यस्मिन् स तथा तस्मिन्नरकप्रदेश इति गम्यते, कदम्बवालुकायां च तथैव कदम्बवालुकानदीपुलिने च महादवाग्रिसङ्काश इति योज्यते / ऊर्द्धम्-उपरि वृक्षशाखादी बद्धः-नियन्त्रितो. माऽयमितो नङ्गीदित्यबान्धव इति च तत्राशरणतामाह, करपत्रम् प्रतीतम्। क्रकचमपि तद्विशेष एव, (खेदियं ति) खिन्नम् खेदः, क्लेशोऽनुभूतः, क्षिपितं वा पापमिति गम्यते. (कड्डोकड्ढाहिं ति) कर्षणापकर्षणैः परमाधार्मिककृतैः, दुष्करम् इति-दुस्सहम्। (उच्छूवत्ति) वाशब्दः उपमार्थे, तत इक्षुरिव, आरसन्-आक्रन्दन, स्वकर्मभिः-हिंसाधुपार्जितैः ज्ञानावरणादिभिः, पापकर्मा-पापानुष्ठानः / (कूवंतो त्ति) कूजन. (कोलसुणएहिं ति) सूकरस्वरूपधारिभिः श्यामैः शबलैश्च परमाधार्मिकविशेषैः, पातितो भुवि, फाटितो जीर्णवस्त्रवत्, छिन्नो वृक्षवदुभयदंष्ट्रादिभिरितिगम्यते / विस्फुरन्-इतस्ततश्चलन् (अरसाहिं ति) प्रहरणविशेषः, पठ्यते च(असीहिं ति) असिभिः-खड्नेः, अत एव-(अतसीति) अतसीपुष्पम्, तद्वर्णाभिःकृष्णाभिः, पट्टिशैश्च-प्रहरणविशेषः, छिन्न-द्विधाकृतः, भिन्नः-विदारितः, विभिन्नः-सूक्ष्मखण्डीकृतः / यद्वा-छिन्नः-ऊर्ध्वम्, भिन्नः-तिर्यग, विभिन्नः - विविधप्रकारैर्ध्वम्, तिर्यक् च / अवतीर्णोनरक इति गम्यते / पापकर्मणेति हेतुदर्शन पापानुष्ठानपरिहार्यताख्यापनार्थम् / लोहरथे-लोहमयशकटे, (जुत्तो त्ति) युजेरन्त वितण्यर्थत्वाद्योजितः परमाधार्मिकैरिति सर्वत्र गम्यते। ज्वलतिदीप्यमाने कदाचिहाहभीत्या ततो नश्येदपीत्याह-समिलोपलक्षित युग यस्मिन् स तथा, तत्र समिलायुते वा, पाठान्तर-तश्च-ज्वलत्समिलायुगे. (चोइओ त्ति) प्रेरितः तोत्रयोक्त्रैः-प्राजनकबन्धनविशेषैर्मर्माघट्टनाहननाभ्यामिति गम्यते, 'रोज्झः-पशुविशेषः, वा समुच्चये भिन्नक्रमः, यथा-औपम्ये, ततो रोज्झवत्पातितो वा लकुटादिपिट्टनेनेति गम्यते, हुताशने ज्वलतिक्केत्याह-चितासुपरमाधार्मिकनिर्मितेन्धसञ्चयरूपासु, (महिसो विव त्ति) "पिव मिव विव वा इवार्थे'' इति वचनात्, महिष इव, दग्धः-भस्मसात्कृतः, पक्वः-भटित्रीकृतः, (पावितो त्ति) पापमस्यास्तीति भूम्नि मत्वर्थीयष्ठक, पापिकः / बलात्-हठात्, सदशः-प्रतीतः, तदाकृतीनि तुण्डानि मुखानि येषां ते संदंशतुण्डास्तैः, तथा-लोहवनिष्ठरतया तुण्डानि येषां ते तैलॊहतुण्डैः (पक्खिहिं ति) पक्षिभिर्डङ्कगृद्धैरिति योगः, एते च वैक्रिया एव, तत्र तिरश्चामभावात्, विलुप्तः-विविध छिन्नः, तस्य चैवं कदीमानस्य तृडुत्पत्तौ का वार्त्तत्याह-तृष्णया क्लान्तो ग्लानिमुपगतस्तृष्णाक्लान्तः, (पाहंतीति) पास्यातीति चिन्तयन, (खुरधाराहिं ति) क्षुरधाराभिरतिच्छेदकतया वैतरणीजलोर्मिभिरिति शेषः, विपाटितः, पाठान्तरतश्च 'विपादितः' व्यापादित इत्यर्थः, उष्णेन-वज्रवालुकादिसम्बन्धिना तापेन, आभि-आभिमुख्येन तप्त उष्णाभितप्तः, संप्राप्तः, असयः-खगाः, तद्भेदकतया पत्राणि पर्णानि यरिंमस्तदसिपत्रम् / मुद्ररादिभिः-आयुधविशेषैः, गता-नष्टा, आशा-परित्राणगोचरमनारथात्मिका यत्र तदताशं यथा भवत्येवम्, (भग्गगत्तेहिं ति) भग्गनात्रेण सता प्राप्तं दुःखमिति योगः, कल्पितः वस्त्रवत् खण्डितः कल्पनीभिः, पाटितः-द्विधाकृतः, ऊर्ध्व छुरिकाभिः, छिन्नः-खण्डितः क्षुरैरिति / पश्चानुपूर्व्या सम्बन्धः, इत्थं च-(उक्कतो य त्ति) उत्क्रान्तश्चायुःक्षये मृतश्चेत्यर्थः, पाठान्तरतो वोत्कृतः त्वगपनयनेन प्रत्येक या क्षुरादिभिः कल्पितादीनां सम्बन्धः / पाशैः-कूटजालैः प्रतीतैरेव बन्धनविशेषैः, अवश:-परपशः, वाहितः-विप्रलब्धः, पठ्यते च-(गहितो त्ति) गृहीतो बद्धो बन्धनेन रुद्धो बहिःप्रचारनिषेधनेन, अनयोर्विशेषणसमासः (विवाइतो ति) विवादितो विनाशित इत्यर्थः, तथा-गलैः-बडिशैः. मकरैः-मकराकारानुकारिभिः, परमाधार्मिकैः, जालैश्च तद्विरचितौर्विक्रियैः, अनयोर्द्वन्द्वः-समूहवाची वा जालशब्दः, तत्पुरुषश्च समासः। तथा-(उल्लिउत्ति) आर्षत्वाद् उल्लिखितो गलैः, पाटितो मकरैहीतश्च जालैः / यद्वा-गृहीतोऽपि मकरजालैरेव, मारितश्च सर्वैरपि, विशेषेण दशन्ती विदंशकाः श्येनादयस्तैर्जालैः-तथाविधबन्धनैः (लेप्पाहिं ति) लेपैर्वज्रलेपादिभिः श्लेषद्रव्यैः (सउणो विवत्ति) शकुन इव पक्षीव गृहीतो विदेशकैलिश्च लनश्च, श्लिष्टो-लेपद्रव्यै बद्धः तैर्जालैश्च, मारितश्च सर्वरपि, कुट्टितः सूक्ष्मखण्डीकृतः पाटितश्छिन्नश्च प्राग्वत, तक्षितश्च त्वगपनयनतो द्रुम इवेति सर्वत्रयोज्यम्। (चवेडमुट्ठिमाईहिं ति) चपेटामुष्ट्यादिभिः, प्रतीतैरेव, कुमारैः अयस्कारैः (अयं पि व ति) अय इव घनादिभिरिति गम्यते / ताडितः आहतः, कुट्टितः इह छिन्नः, भिन्नः खण्डीकृतः, चूर्णितः श्लक्ष्णीकृतः प्रकमात्परमाधार्मिकैः, तप्तताम्रादीनि वैक्रियाणि पृथिव्यनुभाव-भूतानि वा (कलकलंत त्ति) अतिकायतः कलकलशब्दं कुर्वन्ति। तव प्रयाणि मांसानि खण्डरूपाणि (सोल्लगाणि त्ति) भडित्रीकृतानि स्मारयित्वेति शेषः / स्वमांसानिमच्छरीरादेवोत्कृत्योत्कृत्य ढौकितानि, अग्निवर्णानि-अतितप्ततयाऽग्निच्छायानि, सुरादीनि-मद्यविशेषरूपाणि, इहापि स्मारयित्वेति शेषः (पजितो मि त्ति) पायितोऽस्सि (जलतीओ त्ति) ज्वलन्तीरिव ज्वलन्तीरत्युष्णतया वशा रुधिराणि च, ज्वलन्तीति लिङ्गविपरिणामेन सम्बन्धनीयम् / (णिचमित्यादि) नरकवक्तव्यतोपसंहर्तृसूत्रत्रयम्, अच च भीतेन उत्पन्नसाध्वसेन, तथा त्रसी उद्वेगे, त्रस्तेन उद्विग्रेनात एव दुःखितेन, संजातविविधदुःखेन, व्यथितेन च कम्पमानसकलाङ्गो-पाङ्गतया चलितेन, दुःखसंबद्धेति वेदना विशेषणं सुखसम्बन्धिन्या अपि वेदनायाः सम्भवाद, वेदिते ति चानुभूता, तीव्रा अनुभागतोऽत एव चण्डाः-उत्कटः प्रगाढा:-गुरुस्थितिकास्तत एव घोराः-रौद्राः अतिदुस्सहाः अत्यन्तदुरध्यासास्तत एव च महद् भयं यकाभ्यस्ता महाभयाः / पठ्यते च. महालयाः महत्यः, भीमाः-श्रूयमाणा अपि भयप्रदाः, एकार्थिकानि वैतान्यत्यन्तभयोत्पादनायोक्तानि, इह च वेदना इति प्रकमः / / कथं पुनस्तस्यास्तीवादिरूषत्वमित्याशय 'जारिसे त्यादिना इहत्यवेदनापेक्षया नरकदुःखवेदनाया अनन्तगुणत्वमाह, (वेयण त्ति) प्रक्रमाद् दुःखवेदना। न केवल नरक एव दुःखवेदना मयाऽनुभूता किन्तु-सर्वास्वपि गतिष्विति पुनर्निगमनद्वारेणाह-'सव्वे' त्यादिना, इह च असाताःदुःखरूपा, निमेषः-अक्षिनिमीलनम् तस्यान्तरं व्यवधान कालेनासी भूत्वा पुनर्भवति तन्मात्रमपि-तत्परिणमपि कालमिति शेषः(यद् इति)