________________ मियापुत्त 294 - अभिधानराजेन्द्रः - भाग 6 मियापुत्त पीति / किञ्च-अमी कामाः स्पर्शप्रधानाः, स्पर्शश्च शरीराश्रयः, तच्चेदं शरीरम्, अनित्यम्-अशास्वतम्, अशुचिरुपशुक्रशोणितोत्पन्नम्, अशाश्वतः-कथञ्चिदवस्थितत्वेऽप्यनित्यः आवासः-प्रक्रमाजीवस्यावस्थानम् यस्मिन्नित्यशाश्वतावासम्, पुनः 'इदमि' त्यभिधानमतीवासारत्वावेशसूचकम्, दुःखम् असातं तद्धेतवः क्लेशाः-ज्वरादयो रोगाः, दुःखक्लेशाः, शाकपार्थिवादिवत्समासस्तेषाम् भाजनम्, यतश्चै वमतोऽशाश्वते शरीरे, रतिम्-चित्तस्वास्थ्यम्, नोपलभेन प्राप्नोऽम्यहम् भोगेषु सत्स्वपीति गम्यते, शरीराश्रयत्वात्तेषामिति भावः / शरीराशाश्वतमेवाह-पश्चात् पुरावा त्यक्तव्ये शरीरे इति प्रक्रमः। तद्धिपश्चादितिभुक्ताभोगावस्थायां, वार्द्धक्यादौ, पुरा-अभुक्तभोगितायां वा वाल्यादी, किं तदब्रवीदित्याहसुआणि मे पंच महत्वयाणि, नरएसु दुक्खं च तिरिक्खजोणिसु / निविण्णकामो मि महण्णवाओ, अणुजाणह पव्वइस्सामि अम्मो ! / / 10 / / श्रुतानि-आकर्णितानि, अन्यजन्मनीत्यभिप्रायः, (मे) मया, (पंच इति) पञ्चसंख्यानि, महाव्रतानि-हिंसाविरमणादीनि, तथा नरकेसुदुःखं च- असातम्, इहैव वक्ष्यमाणं (तिरिक्खजोणिसुत्ति) चशब्दस्याप्रयुज्यमानस्यापि "अहरहर्नयमानो गामश्वं पुरुषं पशुम्'' इत्यादाविव गम्यमानत्वात् तिर्यग्योनिषु च, सर्वत्र चायं न्यायो द्रष्टव्यः, उपलक्षणं चैतद् देवमनुष्यभवयोः, ततः किमित्याह-(णिव्विण्णकामो मिति) निर्विण्णकामः-प्रतिनिवृत्ताभिलाषोऽस्म्य-हम्, कुतः ? महार्णव इव महार्णवः-संसारस्तस्माद्, यतश्चैवमतः-अनुजानीत-अनुमन्यध्वम्, मामिति शेषः, (पव्वइस्सामि त्ति) प्रव्रजिष्यामि (अम्मो त्ति) पूज्यतरत्याद्विशिष्टप्रतिबन्धास्पदत्वाच मातुरामन्त्रणम्, यो हि भविष्रुदुःखं नावति, तत्प्रतीकारहेतुं वा, स कदाचिदित्थमेवासीत् अहं तूभयत्रापि विज्ञ इति कथं न दुःखप्रतीकारोपायभूतां महाव्रतात्मिका प्रव्रज्या प्रतिपत्स्ये। इति सूत्रगर्भार्थः। अमुमेवार्थमनुवादतः स्पष्टयितुमाह नियुक्तिकृत् - सो लद्धबोहिलामो, चलणे जणगाण बंदिउं भणइ। वीसजिउमिच्छामो, काहं समणत्तणं ताया ! // 414 // सः इति-मृगापुत्रो, लब्धः-प्राप्तो बोधिलाभो-जिनधर्मप्राप्तिरूपो येन स तथा, चरणान-पादान्, जनकयोः-मातापित्रोः, वन्दित्वा भणति, यथा विसर्जयितुम्-मुत्कलयितुम, वयमात्मानमिति गम्यते, इच्छामःअभिलषामः, किमिति? यतः-(काहं ति) वचनव्यत्ययात्-करिष्यामः, श्रमणत्वम्-प्रव्रज्याम्, तात इति-पितः ! उपलक्षणत्वात्-मातश्च। इति गाथार्थः। इदानीं तौ कदाचिद्भोगैरुपनिमन्त्रयेयातामित्यभिप्रायतः यत्तेनोक्त तत्सूत्रकृदाहअम्म ! ताय ! मए भोगा, मुत्ता बिसफलोवमा। पच्छा कडुयविवागा, अणुबंधदुहावहा / / 11 / / इमं सरीरं अणिचं, असुई असुइसंभवं / असासयावासमिणं, दुक्खकेसाण भायणां / / 12 / / असासए सरीरंमि, रई नोवलभामइं! पच्छा पुर राव चइयव्वे, फेणबुब्बुयसंनिमे // 13 // सूत्रत्रयं प्रतीतार्थमेव, नवरम्, विषमिति-विषवृक्षस्तस्य फलं विषफल तदुपमाः। तदुपमत्वमेव भावयितुमाह-पश्चात्कटुक इव कटुकोऽनिष्टत्वेन विपाको येषां ले तथा, आपाततएव मधुरा इति भावः / अनुबन्धदुःखावहाः अनवच्छिन्नदुःखदायिनः / यथा हिविषफलमास्वाद्यमानमादौ मधुरम् उत्तरकालं च कटुकविपाकं, सातत्येन च दुःखोपनेतृ, एवमेतेऽ- | वेत्युपक्रमहेतोवर्षशताद्या-संकलितजीवितप्रमाणात्प्रागपि, त्यक्तव्येअवश्यत्याज्ये, फेनबुबुदसंनिभेक्षणदृष्टनष्टतया, अनेनाशाश्वतत्वमेव भावितमिति न पौनरुक्तयम् / इति सूत्रत्रयार्थः / एवं भोगनिमन्त्रणपरिहारमभिधाय प्रस्तुतस्यैव संसारनिर्वेदस्य हेतुमाह - माणुसत्ते असारंभि, वाहीरोगाण आलए। जरामरणपत्थम्मि, खणं पि न रमामहं / / 14 / / जम्मदुक्खं जरादुक्खं, रोगा य मरणाणि य। अहो दुक्खो हु संसारो, जत्थ कीसंति जंतुणो।।१५।। खित्तं वत्धुं हिरण्णं च, पुत्तं दारं च बंधवा / चइत्ताण इमं देहं, गंतव्वमवसस्स मे / / 16 / / जह किंपागफलाणं, परिणामो न सुंदरो। एवं भुत्ताण भोगाण, परिणामो न सुंदरो // 17 // सूत्रचतुष्टय स्पष्टम्, नवरम् व्याधयः-अतीव बाधाहेतवः कुष्ठादयो, रोगाः-ज्वरादयस्तेषाम् आलये-आश्रये, जरामरणग्रस्तेवार्द्धक्यमृत्युक्रोडीकृते, अनेन मानुषत्वासारत्वमेव भावितम्. क्षणमपि-न रमे नाभिरति लभेऽहमिति। इत्थं मनुष्यभवस्यानुभूयमानत्वेन निर्वेदहेतुत्वमभिधाय सम्प्रति चतुर्गतिकस्याऽपि संसारस्य तदाह 'जम्म' इत्यादिना, अत्रच'अहो' इति सम्बोधने (दुक्खोहुत्ति) दुःखहेतुरेव संसारो जन्मादिनिबन्धनत्वात्तस्य, यत्र-यस्मिन्, गतिचतुष्टयात्मके संसारे, क्लिश्यन्तिबाधामनुभवन्ति, जन्मादिदुःखैरेवेति गम्यते, जन्तवः-प्राणिनः, इह चदुःखानुभवाधारत्वेन संसारस्य दुःख हेतुत्वमिति भावः। तथा- 'खेत्त' इत्यादिनेष्टवियोगोऽशरणत्वं च संसारान्निर्वेदहेतुरुक्तः, तथा-किम्पाकःवृक्षविशेषः, तस्य फलान्यतीव सुस्वादानि। अनेन चोपसंहारसूत्रेणोदाहरणान्तरद्वारेण भोगदुरन्ततैव निर्वेदहेतुरुक्ता। इति सूत्रचतुष्यावयवार्थः / इत्थं निर्वेदहेतुमभिधाय दृष्टान्तद्वयोपन्यासतः स्वाभिप्रायमेव प्रकटयितुमाह अद्धाणं जो महंतं तु, अपाहेजो पवजई। गच्छंतो से दुही होइ,छुहातण्हाइपीडिओ // 18 //