SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ मिच्छत्त 274 - अभिधानराजेन्द्रः - भाग 6 मिच्छत्त नुबन्धक्लेशमूलतवात् / शेषाणि च त्रीणि विपरीतावधारणरूपविपर्यासव्यावृत्तत्वेन तेषां कुरानुबन्धफलकत्वाभावात्, तदुक्त चोपदेशपदे - एसो अएत्थ गुरुओ, णाणज्झवसातसंसया एवं। जम्हा असप्पविसी, एत्तो सव्वत्थऽणत्थफला।।१।। दुष्प्रतिकाराऽसत्प्रवृत्तिहेतुत्वेन एष विपर्यासोज गरीयान् नत्षनध्यवसायसशयावेवंभूतातत्त्वाभिनिवेशाभावात्, तयोः सुप्रतीकारत्वेनात्यन्तानर्थसंपादकत्वाभावादित्येत्तात्पर्यार्थः / ध०२ अधि०। बृ०। दर्श०। सूत्र०1 प०सं०1 कर्म०। आतु। मतिभेदादिना मिष्यात्वं भवतीति - मतिभेया, 1 पुव्वुग्गह 2, संसग्गीए य 3 अभिनिवेसेणं / / गोविंदे य 5 जमाली 1, सावग 2 तव्वन्निए 3 गोटे 4 // 268|| कस्यापि मतिभेदान्मिथ्यात्वं स्यात्, कस्यापि पूर्वव्युद्ग्रहात्, कस्यापि संसर्गात, कस्यचिदभिनिवेशेन,अत्रार्थे निदर्शनान्याह-(गोविदे य इत्यादि) अत्र गोविन्दजमालिशब्दयोर्व्यत्ययेनोपन्यासो गाथानुलोम्यात. परमार्थतः पुनरेवं पाठः-जमालिगोविन्दश्रावकः तबनियः श्रावकभिक्षुः गोष्ठे गोष्ठामाहिल, एतानि यथाक्रम, निदर्शनानि / तथा चाऽऽहमतिभेएण जमाली, पुव्वुग्गहिएण होइ गोविंदो। संसग्गिसावगभिक्खू, गोट्ठामाहिल अभिनिवेसे / / 266 / / मतिभेदेन मिथ्यादृष्टिर्जायते यथा-जमालिः, पूर्वयुद्गृहीतेन भवति मिथ्यादृष्टियथा-गोविन्दः, संसर्गात् यथा-श्रावकभिक्षुः, अभिनिवेशेन यथा-गोष्ठामाहिलः, एतानि च दर्शितानि सुप्रतीतानीति न कथ्यन्ते इति / व्य०६ उ०। मिथ्यात्वानिदसविधे मिच्छत्ते पण्णत्ते, तं जहा-अधम्मे धम्मसण्णा 1 धम्मे | अधम्मसण्णा 2 अमग्गे मग्गसण्णा 3 मग्गे उम्मग्गसन्ना 4 अजीवेसु जीवसन्ना 5 जीवेसु अजीवसन्ना 6 असाहुसु साहुसन्ना 7 साहुसु आसाहुसण्णा 8 अमुत्तेसु मुत्तसन्ना 6 मुत्तेसु अमुत्तसण्णा 10 / सूत्र 734 // तत्र अधम् -श्रुतलक्षणविहीनत्वादनागमे अपौरुषेयादौ धर्मसंज्ञाआगमबुद्धिर्मिथ्यात्वम्, विपर्यस्तत्वादिति 1. धर्मे कपच्छेदादिशुद्ध सम्यक् श्रुते आप्तवचनलक्षणेऽधर्मसंज्ञा, सर्व एव पुरुषा रागादिमन्तोऽसर्वज्ञाश्च पुरुषत्वादहभिवेत्यादिप्रमाणतोऽनाप्तास्तदभावान्न तदुपदिष्ट शास्त्रं धर्म इत्यादिकुविकल्पव-शादनागमबुद्धिरिति 2, तथा- उन्मार्गो निर्वृतिपुरी प्रति अपन्थाः वस्तुतत्त्वापेक्षया विपरीतश्रद्धानज्ञानानुष्ठानरूपरतत्र मार्गसंज्ञा-कुवासनातो मार्गबुद्धिः ३,तथामार्गेऽमासिझेति प्रतीतम् 4, तथा -अजीवेषु आकाशपरमाणवादिषु जीवसंज्ञा..'पुरुष एवेदम्' इत्याद्यभ्युपगमादिति। तथा क्षितिजलपवनहुताशन-यजमानाकाशचन्द्रसूर्याख्याः। इति मूर्तयो महेश्वर-सम्बन्धिन्यो भवन्त्यष्टौ / / 1 / / इति 5: तथा जीवषु पृथिव्यादिष्वजीवसंज्ञा, यथा न भवन्ति पृथिव्यादयो जीवाः उपवासादीनां प्राणिधर्माणामनुपलम्भाद घटवदिति 6, तथा असा. धुषु-षड्जीवनिकायवधानिवृत्तेऽप्यौद्देशिकादिभोजिष्वब्रह्मचारिषुसाधुसंज्ञा, यथा-साधव एते सर्वपापप्रवृत्ता अपि ब्रह्ममुद्राधारित्वादित्यादिविकल्परूपेति 7. तथा-साधुषु-ब्रह्मचर्यादिगुणान्वितेषु असाधुसंज्ञा, एते हि कुमारप्रव्रजिता नास्त्येषां गतिरपुत्रत्वात् नादिविरहितत्वाद्वेत्यादिविकल्पात्मिकेति 8, तथा-अमुक्तेषु सकर्मसु लोकव्यापारप्रवृत्तेषु मुक्तसंज्ञा, यथा अणिमाद्यष्टविधं प्रा-प्यैश्वर्यं कृतिनः सदा। मोदन्ते निर्वृतात्मान-स्तीर्णाः परमदुस्तरम्॥१॥ इत्यादिविकल्पात्मिकेति 6, तथा मुक्तेषु-सकलकर्मकृतविकारविरहितेष्वनन्तज्ञानदर्शनसुखवीर्ययुक्तेषु अमुक्तसंज्ञा, न सन्त्येवदृशा मुक्ताः, अनादिकर्मयोगस्य निवर्तयितुम शक्यत्वादनादित्वादेव आकाशात्मयोगस्येवेति।न सन्ति वा मुक्ताः मुक्तस्य विध्यातदीपकल्पत्वादामन एव वा नास्तित्वादित्यादिवि-कल्परूपेति 10 / स्था०१० ठा०३ उ०। अदेवे देवबुद्धिर्या, गुरुधीरगुरौच या। अधर्मे धर्मबुद्धिश्च, मिथ्यात्वं तद्विपर्ययात्।।१।। स्था०। कर्म०। अकार्ये कृते मिथ्यातवदोषःमिच्छत्तं लोअस्स, न वयणमेयमिह तत्तओ एवं। वितहासेवणसंका-कारणओ अहिगमेअस्स / / 563 / / मिथ्यात्वं लोकस्य भवति / कथमित्याह-न वचनम एतज्जैनम् इह' अधिकारे, 'तत्त्वतः' -मरमार्थतः एवम अन्यथाऽयमेवं न कुर्यादित शङ्कया, वितथासेवनया-हेतुभूतया, शङ्ककारणतवाल्लोकस्य अधिक मिथ्यात्वमेतस्यवितथकर्तुरिति गाथार्थः / / 563 / / पं०व०२ द्वार। नि००० / बृ० / मिथ्यामोहनीये कर्मणि, ''मिच्छत्तं वेयंतो, ज अन्नणी कहं परिकहेइ। लिंगत्थो व गिही वा, अकहा देसिया समए / 215 // दश०३ अ०। यदुदयाजिनप्रणीततत्त्वाऽश्रद्धानं तन्मिथ्यात्वम। पं०सं०३ द्वार / कर्म० / मिथ्यात्वमोहनीयकर्मपुद्गलसाचिव्यविशेषादात्मपरिणामे, आव०४ अ०।"मिश्रं तु दरविशुद्धं, भवत्यशुद्धं तु मिथ्यात्वम्' कर्म०१ कर्म० / 'न मिथ्यात्वसमः शत्रुर्न मिथ्यात्वसमं विषम् ! न मिथ्यात्वसमो रोगो, न मिथ्यात्वसमं तमः" ||1|| ध०१ अधि० / ('असदायार' शब्द प्रथमभागे 840 पृष्ठे एतदाद्याः श्लोका दर्शिताः) मिथ्याक्रियाद्यभिलाष, आतु०। इहलोकार्थम् एकाक्षनालिकेरादिपूजन मिथ्यात्वं भवति न वा ? इति प्रश्ने, उत्तरम् ऐहिकफलार्थ दक्षिणवर्तशङ्खादेरिव एकाक्षनालिकेरादेरपि पूजने मिथ्यात्वं ज्ञातं नास्तीति / / 16 / / सेन०१ उल्ला० / श्राद्धाना गोत्रदेवीपूजने मिथ्यात्वं लगति न वा ? इति प्रश्ने, उत्तरम्-यस्य तथाविध धैर्य भवति तेन गोत्रदेवी न पूजनीया एव कुमारपाले नेव, तदभावे तु कदाचित्तत्पूजनेऽप्युचारितसम्यक्त्वभड़ो न भवति यतो देवताभियोगेनेति सम्यक्त्यो
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy