________________ मिच्छत्त 273 - अभिधानराजेन्द्रः - भाग 6 मिच्छत उ० 1 (अकिरियाऽऽदीना व्याख्या स्वस्वस्थाने) षट् मिथ्यात्वस्थानानि। सूत्र०१ श्रु०१६ अ०। उत्त०। संथा०। णऽत्थि ण णिच्चो ण कुणइ, कयं ण वेएइ णस्थि णिव्वाणं। णऽत्थि य मोक्खोवा छ मिच्छत्तस्स ठाणाई।।५।। सम्म०३ काण्ड। (व्याख्यातानि षडपि स्थानानि 'अणेगंतवाय' शब्द / प्रथमभाग 432 पृष्ट) मिथ्यात्वप्रतिक्रमणम् - मिच्छत्त-दव्वओ, भावओ य / तत्थ दव्यओ-आगम-णोआगमादि य अणेगविह। भावतो पुण मिच्छत्तमोहणीयकम्मोदयसमुत्थेतच भावासदहणाऽसग्गादिलिंगे असुभे आयपरिणामे पण्णते। तंतिविह-संसयियं, अभिग्गहितं, अणभिग्गहितं / णिमित्तं पुण एतस्स अबोधो, असदभिनिवेसो, ससओ वा। आ०चू०६ अ०१६५८ गाथाकी टीका। मिथ्यात्वं च लौकिकलोकोत्तरभेदाद् द्विधा / एकैकमपि देवविषयगुरुविषयभेदाद द्विविधम्, तत्र लौकिकदेवगत-लौकिक देवानां-हरिहरब्रह्मादीनां प्रणामपूजादिना तद्भवनगमनादिना च तत्तद्देशप्रसिद्धमनेकविध ज्ञेयम् 1 / लौकिकगुरुगतमपि लौकिकगुरूणां ब्राह्मणतापसादीना नमस्कृतिकरणं, तदने, पतनं, तदने नमः शिवायेत्यादिभणनं, तत्कथाश्रवणं, तदुक्तक्रियाकरणतः काश्रवणबहुमानकरणादिना च विविधम् 2 / लोकोत्तरदेवगतं तु परतीर्थिकसंगृहीतजिनबिम्बार्चनादिना इहलोकार्थ जैनयात्रागम-नमाननादिना च स्यात् ३/लोकोत्तरगुरुगत च पार्श्वस्थादिषु गुरुत्वबुद्ध्या वन्दनादिना गुरुस्तूपादावैहिकफलार्थं पात्रोपयाचितादिना चेति भेदचतुष्टयी। तदुक्तं दर्शनशुद्धिप्रकरणेदुविहं लोइअमिच्द, देवगयं गुरुगयं गुणेयव्यं। लोउत्तरं पि दुविह, देवगयं गुरुगयं चेव / / 35 / / चउभे मिच्छत्तं, तिविहं तिविहेण जो विवजेइ। अकलंकं सम्मत्तं, होइ फुड तस्स जीवस्स // 36 / / त्रिविधं त्रिविधेनेत्यत्र भावनामेवमाहुःएअ अणतरुत्तं, मिच्छं मणसान चिंतइकरेमि। सयमेव सो कारउ, अन्नेण कए व सुद्ध कयं / / 1 / / एवं वाया न भणइ, करेइ अण्णं च न भणइ करेहि। अन्नकयं न पसंसइ, न कुणइ सयमेव कारणं / / 2 / / फरसन्नभमुहखेवा-इएहिँ नयकारवेइ अन्नेणं। अन्नकयं न पससंइ, अण्णेण कयं न सुट्ट कयं // 3 // ननु त्रिविध त्रिविधेन प्रत्याख्यातमिथ्यात्वस्य मित्यादृष्टिसंसर्गे कथं नानुमतिरूपमिथ्यातवप्रसङ्ग इति चेन्न, तस्याऽप्यतिचाररूपस्य वर्जनीयत्वस्यैवोक्तत्वात् / स्वकुटुम्बादिसम्बन्धिनो मिथ्यादृशो वर्जनाशक्ती संवासानुमतिः स्यादिति चेन्न, आरम्भिणा आरम्भक्रियाया बलात्प्रसवात् सवासानुमतिसंभवेऽपि मिथ्यात्वस्य भावरूपत्वेन तदसंभवात्। अन्यथा संयतरस मिथ्यादृष्टिनिश्राया अपि संभवेन तत्सवासानुमतेर्दुरित्वादिति दिक् / यद्यपि तत्त्ववृत्त्या अदेवादेर्देवत्वादिषुद्ध्याऽऽराधने एव मिथ्यात्वं तथाऽप्यहिकाद्यर्थमपि यक्षाद्याराधनमुत्सर्गतरत्याज्यमेव, परम्परया मिथ्यात्ववृद्धिस्थिरीकरणादिप्रसङ्गेन प्रेत्य दुर्लभबोधित्वापत्तेः / यतः अन्नेसिं सत्ताणं, मिच्छत्तं जो जणेइ मूढप्पा। सो तेण निमित्तेणं, नलहइ बोहिं जिणाभिहि।।१।। रावणकृष्णाद्यालम्बनमपि नोचितमेव कालभेदात्, यतस्तत्समयेऽहद्धर्मस्येतरधर्मेभ्योऽतिशायित्वेन न मिथ्यात्ववृद्धिस्तादृशी, सम्प्रति च स्वभावतोऽपि मिथ्यात्वप्रवृत्तिर्दुर्निवारैवेति / अथ मिथ्यात्वं पञ्चविधम्, यदाहआभिग्गहिअमणाभिग्गहं च तह अभिनिवेसिअंचेव। संसइअमणाभोग, मिच्छत्तं पंचहाए।।१॥ ध०२ अधि०(आभिग्रहिकमिथ्यात्वम् आभिग्गहियमिच्छत्त' शब्दे द्वितीयभागे 252 पृष्ठे गतम्) अनाभिग्रहिकं प्राकृतजनानां, सर्वे देवा वन्द्या न निन्दनीया एवं सर्वे गुरवः सर्वे धर्माइतीत्याधनेकविधम्।। आभिनिवेशिकम् जानतोऽपि यथास्थित दुरभिनिवेशविप्लावितधियो गोष्ठामाहिलादेरिव / 3 / अभिनिवेशोऽनाभोगात्प्रज्ञापकदोषागा वितथश्रद्धानवति सम्यगदृष्टावपि स्याद्, अनाभोगाद् गुरुनियोगाद्वा सम्यगदृष्टरपि स्याद् अनाभोगाद् गुरुनियोगाद्वा सम्यग्दृष्टरपि वितथश्रद्धानभणनात्, तथा चोक्तमुत्तराध्ययननिर्युक्तौ- . ''सम्मदिट्ठी जीवो, उवइट्ठ पवयणं तु सद्दहइ। सदहइ असब्भाव, अणभोगा गुरुणिओगा वा।।१।" इति। तद्वारणाय दुरिति विशेषणं, सम्यग्वत्तृवचनानिवर्त्तनीयत्वं तदर्थः / अनाभोगादिजनितो मुग्धश्रद्धादीनांदितथश्रद्धानरूपोऽभिनिवेशस्तु सम्यग्वक्तुर्वचननिवर्तनीय इति न दोष, तथापि जिनभद्रसिद्धसेनादिप्रावचनिकप्रधानविप्रतिपत्तिविषयपक्षद्वयेऽप्यन्यतरस्य वस्तुनः शास्त्रबाधितत्वात्तदन्यतरश्रद्धानवतोऽभिनिवेशित्वप्रसङ्ग इति तद्वारणार्थ 'जानतोऽपीति शास्त्रतात्पर्यबाध-प्रतिसंघानवतः, सिद्धसेनादयश्च स्वाभ्युपगतमर्थ शास्त्रतात्पर्यबाधं प्रतिसंधाया पि पक्षपातेन न न प्रतिपन्नवन्तः, किन्त्वविच्छिन्नप्रावनिकपरम्परया शास्त्रतात्पर्यमेय स्वाभ्युपगतार्थानुकूलत्वेन प्रतिसंधायेति न तेऽभिनिवेशिनः / गोष्ठामाहिलादयस्तु शास्त्रतात्पर्यबाधं प्रतिसंधायैवान्यथा श्रद्दधत इति न दोषः, इदमपि मतिभेदाभिनिवेशादिमूलभेदादनेकविधम् - जमालिगोष्ठामाहिलादीनाम्। उक्तं च (चतुर्थोद्देशे) व्यवहारभाष्ये"मइभेएण जमाली, पुट्विं बुग्गाहिएण गोविंदा। संसगीए भिक्खू, गोट्ठामाहिलअहिणिवेसे।।२६६।।" त्ति सांशयिक देवगुरुधर्मेष्वयमन्यो वेति संशयानस्य भवति / सूक्ष्मार्थादिविषयस्तुसंशयः साधूनामपि भवति, सच'तमेव सचणीसंके, जंजिणेहिं पवेइअं' इत्याद्यागमोदितभगवद्ववचनप्रामाण्य-पुरस्कारेण निवर्त्तते, स्वरसवाहितया अनिवर्तमानश्च सः सांशयिकमिथ्यात्वरूपः सन्ननाचारापादक एव, अतएवाकाङ्क्षामोहोदयादाकर्षप्रसिद्धिः / इदमपि सर्वदर्शननदर्शनतदेकदेशपदवाक्यादिसंशयभेदेन बहुविधम् / अनाभोगिकं विचारशून्यस्यैकेन्द्रियादेर्वा विशेषाानविकलस्य भवति। इदमपि सर्वाशविशयाव्यक्तबोधस्वरूप विवक्षितकिश्चिदशाव्यक्तबोधस्वरूपं चेत्यनेकविधम् / एतेषु मध्ये आभिग्राहिकाऽऽभिनिवेशिके गुरुके विपर्यासरूपत्वेन सा