SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ मास 266 - अभिधानराजेन्द्रः - भाग 6 मास म्यते, कोऽर्थः ? वक्ष्यमाणसंख्याङ्कस्वस्वदिनेषु इमानि नक्षत्राणि यदा अस्तमयन्ति तदा श्रावणसेऽहोरात्रसमाप्तिरित्यर्थः, तेनैतानि रात्रिपरिसमापकस्वादाविनक्षत्राण्युच्यन्ते, भगवानाह-गौतम ! चत्वारि नक्षत्राणि नयन्ति, तद्यथा-उत्तराषाढा अभिजिच्छ्वणो धनिष्ठा च। तत्रोत्तराषाढा प्रथमान् चतुर्दश अहोरात्रान् नयति, तदनन्तरमभिजिन्नक्षत्रं सप्ताहोरात्रानयति, ततः श्रवणनक्षत्रमष्टौ अहोरात्रान्नयति, एवं च सर्वसङ्कलनया श्रावणमासस्थैकानत्रिंशद-होरात्रा, गतास्ततः परं श्रावणमासस्य सम्बन्धिनं चरममेकमहोरात्र धनिष्टा नक्षत्रं नयति / एवं श्रावणमासं चत्वारि नक्षत्राणि नयन्ति। अस्य च नेतृद्वारस्य प्रयोजनं रात्रिज्ञानादौ। "ज नेइ जया रति, णक्खत्तं तंमिणहचउभागे। संपत्ते विरमेजा, सज्झायपओसकालंमि॥१॥" इत्यादौ, तदनुरोधेन च दिनमानज्ञानायाह-तस्मिश्च श्रावणमासे प्रथमादहोरात्रादारभ्य प्रतिदिनमन्यान्यमण्डलसंक्रान्त्या तथा कथञ्चनापि परावर्त्तते यथा तस्य श्रावणमासस्यपर्यन्तेषु चतुरड्डुलाधिका द्विपदा पौरुषी भवति / अत्र चायं विशेषः-बस्या संक्रान्तौ यावदिनरात्रिमान तचतुर्थाऽशः पौरुषीयामः प्रहर इति यावत्, आषाढपूर्णिमायां च द्विपदप्रमाणा-पौरुषी, तस्यां च श्रावणसत्कचतुरड्डुलप्रक्षेपं चतुरङ्गुलाधिका पौरुषी भवति। माने मेयोपचारादभेदनिर्देशः, तेन चतुरडलाधिकपौरुष्या छाययेति विशेषणाविशेष्यभावः। एतदेवाह-तस्य श्रावणमासस्य चरमे दिवसे द्वे पदे चत्वारि चाडलानि पौरुधी भवति। अथ द्वितीय मासं पृच्छति'वासाण' मित्यादि, वर्षाणां वर्षाकालस्य भदन्त ! द्वितीय भाद्रपदलक्षण मासं कति नक्षत्राणि नयन्ति ? अस्य वाक्यस्य भावार्थः प्राग्वद् भावनीयः / गौतम ! चत्वारि नक्षत्राणि नयन्ति, तद्यथा-धनिष्ठा शतभिषक् पूर्वभद्रपदा ऊत्तरभद्रपदा च। तत्र धनिष्ठा आधान् चतुर्दश अहोरात्रान् नयति, तदनन्तरं शतभिषक् सप्ताहोरात्रान् नयति, ततः परमष्टावहोरात्रान् पूर्वभद्रापदा नयति, तदनन्तरमेकमहोरात्रमुत्तरभद्रपदा नयति।। एवमेनं भाद्रपदमासं चत्वारि नक्षत्राणि नयन्ति, तस्मिश्च मासेऽष्टाङ्गुलपौरुष्या-अष्टाङ्गुलाधिकपौरुप्या छायया सूर्योऽनुपरावर्तते। अत्र भावार्थः प्राग्वद भावनीयः। एतदेवाह-तस्य भाद्रपदमासस्य चरमे दिवसे द्वेपदे अष्ट चामुलानिपौरुषी भवति। अथ तृतीय पृच्छति-(वासाणं भंते ! त्ति, इत्यादि) वर्षाणां भदन्त! तृतीयं मासं कति नक्षत्राणि नयन्ति ? गौतम ! त्रीणि नक्षत्राणि-उत्तरभद्रापदारेवती अश्विनी च। तत्रोत्तरभद्रपदा चतुर्दश रात्रिन्दिवान नयति, रेवती पञ्चदश रात्रिन्दिवान नयति, अश्विनी एक सत्रिन्दिवं नयति / एवं तृतीय मासं त्रीणि नक्षत्राणि नयन्ति, तस्मिश्च मासे द्वादशाङ्गुलपौरुष्या-द्वादशाङ्गुलाधिकपौरुष्या छायया सूर्योऽनुपरावर्तते / भावार्थः पूर्ववत् / एतदेवाह-तस्य मासस्य चरमे दिवसे रखापादपर्यन्तव-र्तिनी सीमा तत्स्थानि त्रीणि पदानि पौरुषी भवति। किमुक्त भवति ? परिपूर्णानि त्रीणि पदानि पौरुषी भवति। अथ चतुर्थे पृञ्छति-(वासाणमित्यादि) वर्षाणां वर्षाकालस्य भदन्त ! चतुर्थ कार्त्तिकलक्षणं मासं कति नक्षत्राणि नयन्ति ? गौतम ! त्रीणि अश्विनी भरणी कृत्तिका च / तत्राश्विनी चतुर्दशाहोरात्रान्, भरणी पञ्चदशाहोरात्रान, कृत्तिका एकमहोरात्र नयति। तस्मिश्च मासे षोडशागुलपौरुष्याषोडशामुलाधिकपौरुष्या छायया सूर्योऽनुपरावर्त्तते / भावार्थ पूर्ववत् / एतदेवाह-तस्य मासस्य चरमे दिवसे त्रीपिा पदानि चत्वारि चाङ्गुलानि पौरुषी भवति। गतो वर्षाकालः। अथ हेमन्तकालं पृच्छति(हेमन्ताण मित्यादि) हेमन्ताना-हेमन्तकालस्य भदन्त ! प्रथम मार्गशीर्षलक्षणं मासं कति नक्षत्राणि नयन्ति ? गौतम! त्रीणि नक्षत्राणिकृत्तिका रोहिणी मृगशिरश्च / तत्र कृत्तिका चतुर्दशाहोरात्रान्, रोहिणी पञ्चदशाहोरात्रान्, मृगशिर एकमहोरात्रं नयति। तस्मिश्च मासे विंशत्यकुलपौरुष्या-विंशत्यकुलाधिकपौरुष्या छायया सूर्योऽनुपरावर्त्तते / भावार्थः पूर्ववत्। एतदेवाह-तस्य मासस्य यश्चरतो दिवसस्तस्मिन् ! दिवसे त्रीणि पदानि अष्ट चाडलानि पोरुषी भवतीति / अथ द्वितीयं पृच्छति-(हेमन्ताण भन्ते! इत्यादि) हेमन्तकालस्य भदन्त ! द्वितीय पौषनामक मास कति नक्षत्राणि नयन्ति ? गौतम ! चत्वारि नक्षत्राणि नयन्ति। तद्यथा-मृगशिरः आर्द्रा पुनर्वसुः पुष्यश्च। तत्र मृगश्रिश्चतुर्दश रात्रिन्दिवान्नयति, आर्द्रा अष्टौ रात्रिंदिवान, पुनर्वसुः सप्त रात्रिन्टिवान्, पुष्यः एक रात्रिन्दिवं नयति। तदा चतुर्विशत्यङ्गुलपौरुष्याचतुर्विशत्यगुलाधिकपौरुष्या छायया सूर्योऽनुपरावर्त्तते / भावार्थः पूर्ववत् / तस्य मासस्य चरमे दिवसे रेखा-पादपर्यन्तवर्तिनी सीमा, तत्स्थानि चत्वारि पदानि पौरुषी भवति / किमुक्त भवति ? परिपूर्णानि चत्वारि पदानि पौरुषी भवति। अथ तृतीय पृच्छति-(हेमन्ताणमित्यादि) एतत् सुगमम् / अथ चतुर्थं पृच्छति-''हेमन्ताणं भन्ते ! चउत्थं इत्यादि" सुगमम्। अतीतो हेमन्तः। अथ ग्रीष्मं पृच्छति-'गिम्हाणं भन्ते ! पढम' इत्यादि, तथा 'गिम्हाणं भन्ते ! दोचं इत्यादि, तथा 'गिम्हाणं भन्ते ! तचं मास' इत्यादि, तथा 'गिम्हाणं भन्ते चउत्थं' इत्यादि, चत्वार्यपि इमानि ग्रीष्मकालसूत्राणि सुबोधानि. प्रायः प्राक्तनसूत्रानुसारित्वात् / नवर तस्मिश्चाषाढ मासे प्रकाश्यवस्तुनो वृत्तस्य वृत्तया समचतुरस्त्रसंस्थानसंस्थितस्य समचतुरस्रसंस्थानसंस्थितया न्यग्रोधपरिमण्डलसंस्थानस्य न्यग्रोधपरिमण्डलया उपलक्षणमेतत् शेषसंस्थानसंस्थितस्य प्रकाश्यस्य वस्तुनः शेषसंस्थानसंस्थितया। आषाढे हि मासे प्रायः सर्वस्यापि प्रकाश्यस्य वस्तुनो दिवसस्य चतुगिऽतिक्रान्ते शेषे वा स्वप्रमाणा छाया भवति, निश्चयतः पुनराषाढमासस्य चरमदिवसे तत्रापि सर्वाभ्यन्तरे मण्डले वर्तमाने सूर्ये, ततो यत् प्रकाश्यं वस्तु यत्संस्थानं भवति तस्य छायाऽपि तथासंस्थानोपजायते। तत उक्तम्वृत्तस्य वृत्तया इत्यादि। एतदेवाह-स्वकायमनुरङ्गिन्या, स्वस्य-स्यकीयस्य छायानिबन्धनस्य वस्तुनः कायः शरीरं स्वकायस्तमनुरज्यते-अनुकारं विदधातीत्येवंशीला अनुरङ्गिनी, द्विषड्ग्रहेत्यादिना, श्रीसिद्ध० 'युजरञ्जद्विष० / 5-2-40 / इति धिनञ्प्रत्ययस्तया स्वकायमनुरङ्गिन्या छायया सूर्योऽनुप्रतिदिवस परावर्तते / एतदुक्तं
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy