________________ मास 264 - अभिधानराजेन्द्रः - भाग 6 मास कृतया द्वाषष्ट्या चतुर्विशत्यधिकशतरूपया एकादश गुण्यन्ते जातम्१३६४ चतुश्चत्वारिंशद द्वाषष्टिभागा अपि सवर्णनार्थ द्विगुणीक्रियन्त कृत्वा च मूलराशौ प्रक्षिप्यन्ते, जातम्-१४५२ एषां द्वादशभिगि हते लब्धमेकविंशत्युत्तरं शतं चतुर्विशत्युत्तरशतभागानाम् / एतावदभिवर्द्धितमासप्रमाणम्, एतेषां कमेणाङ्कस्थापना, यथा इदं च नाक्षत्रादिमासमानं वर्षे द्वादशमासा इति द्वादशगुणं स्वस्ववर्षमान जनयन्ति, स्थापना यथा नक्षत्रः चन्द्रः | ऋतुः | सूर्यः अमिवद्धितः 27 | 26 / / 30 30 / 31 भाग 21 0 30 / 121 124 दिन 62 नक्षत्रः चन्द्रः ऋतुः सूर्यः अभिवर्द्धितः 327 (354 360 | 366 भाग 51 | 12 | 0 o 62 युगसंवत्सराः पर्वभिः पूर्यन्ते इति तानि कति प्रतिवर्ष भवन्तीति पृच्छन्नाह- 'पढ़ मस्स ण' मित्यादि, प्रथमस्ययुगाऽऽदौ प्रवृत्तस्य, भगवन् ! चन्द्रसंवत्सरस्य कति पर्वाणि पक्षरूपाणि प्रज्ञप्तानि ? गौतम ! चतुर्विशतिः पर्वाणि, द्वादशमासात्मकत्वेनास्य प्रतिमासं पर्वद्वयसंभवात्, द्वितीयस्य चतुर्थस्य च प्रश्नसूत्रे एवमेव, अभिवर्द्धितसंवत्सरसूत्रे षड्विंशतिः तस्य त्रयोदशचन्द्रमासात्मकत्वेन प्रतिमासं पर्वद्वयसम्भवात, एवमन्योऽभिवर्द्धितोऽपि, सर्वाग्रमाह-एवमेव पूर्वापरमीलनेन चतुर्विशं पर्वत भवतीत्याख्यातम् / अथ तृतीयः-'प्रमाणसंवत्सरे' इत्यादि, प्रमाणसंवत्सरः कतिविधः प्रज्ञप्तः ? गौतम ! पञ्चविधः प्रज्ञप्तः, तद्यथानाक्षत्र चान्द्रः ऋतुसंवत्सरः आदित्यः अभिवर्द्धितश्च / अत्र नक्षत्रचन्द्राभिवहिताख्याः स्वरूपतः प्रागभिहिताः, ऋतवो लोकप्रसिद्धा वसन्तादयः व्यवहारहेतुः संवत्सरः ऋतुसंवत्सरः, ग्रन्थान्तरे चास्य नाम रावनसंवत्सरः कर्मसंवत्सर इति / आदित्यचारेण दक्षिणोत्तरायणाभ्यां निष्पन्नः आदित्यसंवत्सरः / प्रमाणप्रधानत्वादस्य संवत्सरस्य प्रमाणमेवाभिधीयते, तस्य च मासप्रमाणाधीनत्वादादौ मासप्रमाणम्, तथाहि इह किल चन्द्रचन्द्राभिवर्द्धितचन्द्राभिवर्द्धितनामकसंवत्सरपञ्चकप्रमाणे युगे अहोरात्रराशिस्त्रिंशदधिकाष्टादशशतप्रमाणो भवति, कथमेतदव-सीयते इति चेत्, उच्यते इह सूर्यस्य दक्षिणमुत्तरं वाऽयन यशीत्यधिकदिनशतात्मकम्, युगे च पञ्चदक्षिणायनानि पञ्च चोत्तरायजानि इति / सर्वसंख्यया दशायनानि, ततस्त्र्यशीत्यधिक दिनशत दशकन गुण्यते इत्यागच्छति यथोक्तो दिनराशिः। एवंप्रमाण दिनराशि स्थापयित्वा नक्षत्रचन्द्रऋत्वादिमासानां दिनानयनार्थ यथाक्रम सप्तषष्ट्येकषष्टिद्वाषष्टिलक्षणैर्भागहारैर्भाग हरेत्, ततो यथोक्तं नक्षत्रादिमासचतुष्कगतदिनपरिमाणमागच्छति, तथाहि-युगदिनराशेः 1830 रूपः, अस्य सप्तषष्टियुगे भासा इति सप्ताष्ट्या भागो हियते, यल्लब्ध तन्नक्षत्रमासमानम्, तथाऽस्यैव युगदिनराशेः 1830 रूपस्य एकषष्टियुगे ऋतु मासा इति एकषष्ट्या भागहरणे लब्धम् ऋतुमासमानम्। तथा युगे सूर्यमासाः षष्टिरिति ध्रवराशे: 1830 रूपस्य षष्ट्या भागहारे यल्लब्ध तत्सूर्यमासमानम्, तथाऽभिवर्द्धिते वर्षे तृतीये पञ्चमे वा त्रयोदश चन्द्रमासा भवन्ति, तद्धर्ष द्वादशभागीक्रियते ततएकैको भागोऽभिवर्द्धितमास इत्युच्यत, इह किलाभिवर्द्धितसंवत्सरस्य त्रयोदशचन्द्रमासमानस्य दिनप्रमाणं त्र्यशीत्यधिकानि त्रीणि शतानि चतुश्चत्वारिंशच्च द्वाषष्टिभागाः, कथमिति चेत, उच्यते-चन्द्रमासमानं दिनानि 26/.. एतद्रूपं त्रयोदशभिर्गुण्यते जातानि सप्तसप्तत्युत्तराणि त्रीणि शतानि दिनाना, षोडशोत्तराणि चत्वारि शतानि चांशानां ते च दिनस्य द्वाषष्टिभागास्ततो दिनानयानार्थं द्वाषष्ट्या भागो हियते, लब्धानिषड् दिनानि, तानि च पूक्तिदिनेषु मील्यन्ते जातानि त्रीणि शतानि त्र्यशीत्यधिकानि दिनानां चतुश्चत्वारिंशच द्वाषष्टिभागाः, ततो वर्षे द्वादश मासाः इति।। मासाऽऽनयनाय द्वादशभिर्भागो हियते लब्धा एकत्रिंशदहोरात्राः, शेषास्तिऽन्त्यहोरात्रा एकादश, ते च द्वादशानां भाग न प्रयच्छन्ति तेन यदि एकादश चतुश्चत्वारिंशद्वाषष्टिभागमीलनार्थ द्वाषट्या गुण्यन्ते तदा पूर्णे सशिन त्रुट्यति शेषस्य विद्यमानत्वपात्, तेन सूक्ष्मेक्षिकार्थ द्विगुणी- नाक्षत्रादिसंवत्सरमानम्, स एष प्रमाणसंवत्सर इति निगमनवाक्यम्, एषां च मध्ये ऋतुमासऋतुंसवत्सरावेव लोकैः पुत्रवृद्धिकलान्तरवृद्ध्यदिषु व्यवहियेते, निरंशकत्वेन सुबोधत्वात, यदाह-- "कम्मो निरंसयाए, मासो क्वहारकारगो लोए। सेसा उ संसयाए, ववहारे दुक्करा घेत्तु / / 1 / / अत्र व्याख्या-आदित्यादिसंवत्सरमासाना मध्ये कर्मसंवत्सर-सम्बन्धी मासो निरंशतया-पूर्णत्रिंशदहोरात्रप्रमाणतया लोकव्यवहारकारक: स्यात्, शेषास्तु सूर्यादयो व्यवहारे ग्रहीतुंदुष्कराः सांशतया नव्यवहारपथमवतरन्तीति, निरंशता चैवम्- षष्टिः पलानि घटिका, ते च द्वे मुहूर्तः, ते च त्रिशदहोरात्रः, तेच पञ्चदश पक्षः, तौ द्वौमासः, तेचद्वादश संवत्सर इति / शास्त्रर्वदिभिस्तु सर्वेऽपि मासाः स्वस्वकार्येषु नियोजिताः / तथाहि-अत्र नक्षत्रमासप्रयोजनं संपदायगम्यम्। "वैशाखे श्रावणे मार्गे, पौषे फाल्गुन एव हि। कुर्वीत वास्तुप्रारम्भं न तु शेषेषु सप्तसु॥१॥" इत्यादौ चन्द्रमासस्य प्रयोजनम्, ऋतुमासस्य तु पूर्वमुक्तम्, 'जीव सिंहस्थे धन्धिमीनस्थितेऽके, विष्णौ निद्राणे चाधिमासे न लगम्' इत्यादी तु सूर्यमासाभिवर्द्धितमासयोरिति. पूर्व नक्षत्रसंवत्सरादयः स्वरूपतो निरूपिताः, अत्र तु दिनमानानयनादिप्रमाणकरणेन विशेषेण निर पिता इति न पौनरुक्तयं विभाव्यम् / निशीथभाष्यकाराशयेन नक्षत्रचन्द्रर्तुसूर्याभिवर्द्धितरूपक मासपञ्चकम् / जं०७ वक्षः। वासाणं पढमं मासं कति णक्खत्ता गति? गोयमा ! चत्तारि णक्खत्ता ऐति, तं जहा-उत्तरासाढा अभिई सवणो वणिट्ठा / उत्तरासाढा चउद्दस अहोरते णेइ, अभिई सत्त अहोरते णेइ, सवणो अट्ठ अहोरते णेइ, घणिट्ठा एग अहोरत्तं णेइ। तंसि च णं मासंसि चउरंऽगुलपोरिसीए छायाए सरिए अणुपरिअट्टइ, तस्स णं मासस्स चरिमदिवसे दो पदा चत्तारिअ अगुला पोरिसी भवइ।