________________ मास 263 - अभिधानराजेन्द्रः - भाग 6 मास म् 31 / 132/124 / तथाहि-एकोनचत्वारिंशच्छताना पञ्चषष्ट्यधिकानां 3965 चतुर्विशत्युत्तरेण शतेन भागे न्हियमाणे यथोक्तं लभ्यते स्वेति। अथवा (भाष्यकारः) न भागैः संख्या किंतु मुहूर्तादिभिरत आहएकत्तीसंच दिणा, इगुतीसमुहुत्तसत्तरसभागा। एत्थं पुण अहिगारो, नायव्वो कम्ममासेणं / / 25 / / एकत्रिंशदिनानि एकोनत्रिंशन्मुहूर्ताः सप्तदश द्वाषष्टिभागाः 31-2617-62 एकत्रिंशदिनानितावत्पूर्ववत, ततो यदेकविंशत्युत्तरं शतमवशेष जात तत् अहोरात्रस्य त्रिंशन मुहूर्ता इति मुहूर्तानयनाय त्रिंशता गुण्यते, जातानि त्रिंशदधिकानि षट्त्रिंशत् शतानि 3630 एतेषां चतुर्विशत्यधिकेन शतेन य भागहरणम्, लब्धा एकोनत्रिंशन्मुहूर्ताः 26, शेषमवतिष्ठते चतुस्त्रिंशत् 34. सार्द्धषष्टिभागानयनाय द्वाषष्ट्या गुण्यते जातान्येकविंशतिशतान्यष्टोत्तरणि 2108 | तेषां चतुर्विशत्युत्तरशतेन भागो हियते लब्धाः परिपूर्णाः सप्तदश 17 द्वाषष्टिभागाः। अत्रपुनः प्रायश्चित्तविधावधिकारः प्रकृतं ज्ञातव्यो नक्षत्रादीनां मासानां मध्ये कर्ममासेन। संप्रति (भाष्कारः) भावमासप्रतिपादनार्थमाहमूलादिवेदगो खलु, भावे जो वा वि जाणतो तस्स। न हि अग्गिनाणतोऽग्गी, णाणं भावो ततोऽणण्णो // 26 // भावे-भावमासो द्विधा-आगमतो, नोआगमतश्च / तत्र नोआग-मतः खलु मूलादिवदकः / मूलकन्दकाण्डपत्रपुष्पफलवेदकः। किमुक्तं भवतियो धान्यमाषजीवा धान्यमाषभवे वर्तमानो मूलरूपतया कन्दरूपतया काण्डरूपतया पत्ररूपतया पुष्परूपतया फलरूपतया वा धान्यमाषभवायुर्वेदयते स नोआगमतो भावमाषः, प्राकृत भाषशब्दस्यापि भास इतिरूपसंभवादागमत आह-(जो वाऽपि जाणतो तस्स) तस्यमाषस्य मासस्य वा यो ज्ञायकोज्ञाता अपि शब्दादुपयुक्तश्च स आगमतो भावमासः / "उपयोगो भावनिक्षेपः" इति वचनात् / अत्र-पर आह (नहीत्यादि) ननु यदि मासस्य ज्ञाता तत्र चोपयुक्तस्तथापि कथमसौ भावमासः? तग्रिज्ञानोपयुक्तो माणवकोऽग्निः दाहपाकाद्यर्थक्रियाकारित्वाभावात् / अत्र सूरिराह-(नाणमित्यादि) यदेतदुक्तम्- तदसत् सम्यग्वस्तुतत्त्वापरिज्ञानात्, इहाद्यर्थाभिधानप्रत्ययास्तुल्य-नामधेयाः, तथाहि-घटोऽपि घट इत्यभिधीयते, घटशब्दोऽपि, घटज्ञानमपि घट इति / एतच सर्ववादिनामविसंवादस्थानम् / ततो मासज्ञानमपि मासशम्दवाच्यं तच्च भावो जीवगुणत्वात्। स च ज्ञानलक्षणो भावस्तस्मादात्मनोऽनन्य इति मासज्ञानोपयुक्तो भाव मासः अत्र षड्विधमासनिक्षेपमध्ये कालमासेनाधिकारस्तत्रापि कर्ममासेनेत्यनन्तरमेवोक्तम्, शेषास्त्वपाकरणबुद्ध्योपन्यस्ताः / एतदेव निक्षेपप्ररूपणायाः फल यत्प्रस्तुतस्य व्याकरणम्, अप्रस्तुतस्य निराकरणमिति / यदुक्तम्"अप्रस्तुतार्थपाकरणात् प्रस्तुतार्थव्याकरणाच निक्षेपः फलवानिति।" तदेवं मासनिक्षेपप्ररूपणा कृता / व्य०१ उ०१ प्रक० / ज्यो० / वृ०। निञ्चूला दर्शन नक्षत्रेषु भवो नाक्षत्रः किमुक्तं भवति? चन्द्रश्चारं चरन्यावता कालेनाभिजित आरभ्योत्तराषाढानक्षत्रपर्यन्तं गच्छति तत्प्रमाणो नाक्षत्रो मासः, यदिवा-चन्द्रस्य नक्षत्रमण्डले परिवर्तनतानिष्पन्न इत्युपचारतो भासोऽपि नक्षत्रम् (ज०) युगादौ श्रावणमासे बहुलपक्षप्रतिपद आरभ्य यावत् पौर्णमासीपरिसमाप्तिस्तावत्काल-प्रमाणश्चान्द्रो मासः, एकपूर्णिमापरावर्तश्चान्द्रो मास इति यावत्, अथवा-चन्द्रनिष्पन्नत्वादुपचारतो चन्द्रः, सच द्वादशगुणश्चन्द्र-संवत्सरः, चन्द्रमासनिष्पन्नत्वादिति, द्वितीयतुर्यावप्येवं व्युत्पत्तियोऽवगन्तव्यौ, तृतीयस्तु युगसंवत्सरोऽभिवड़ितो नाम मुख्यतस्त्रयोदशचन्द्रमासप्रमाणः संवत्सरो द्वादशचन्द्रमासप्रमाणः संवत्सर उपजायते, कियता कालेन सम्भवतीत्युच्यते-इह युमं चन्द्रचन्द्राभिवर्द्धितचन्द्राभिवर्द्धितरूपपञ्चसंवत्सरात्मकं सूर्यसंवत्सरापेक्षया परिभाव्यमानमन्यूनातिरिक्तानि पञ्च वर्षाणि भवन्ति, सूर्यमासश्च सार्द्धत्रिंशदहोरात्रप्रमाणश्चन्द्रमासश्चैकोनत्रिशहिनानि द्वात्रिंशच द्वाषष्टिांगा दिनस्य, ततो गणितसम्भावनया सूर्यसंवत्सरसत्कत्रिंशन्मासातिक्रमे एकश्चान्द्रमासोऽधिको लभ्यते, स च यथा लभ्यते तथा पूर्वाचार्यप्रदर्शियं करणंगाथा "चंदस्य जो विसेसो, आइच्चस्सय हविज्ञ मासस्स। तीसइगुणिओ संतो, हवइहु अहिमासगो इक्को॥१॥" अस्या अक्षरगमनिका-आदित्यसम्बन्धिनो मासस्य मध्यात् चन्द्रस्यचन्द्रमासस्य यो भवति विश्लेषः, इह विश्लेष कृते सति यदवशिष्यते तदव्युपचाराद्विश्लेषः, स त्रिंशता गुणितः सन् भवत्येकोऽधिकमासः, तत्र सूर्यमासपरिमाणात् सार्द्धत्रिंशदहोरात्ररूपाचन्द्रमासपरिमाणमेकोनत्रिंशद्दिनानि द्वात्रिंशच द्वाषष्टिभागा दिनस्येत्येवंरूपं शोध्यते, ततः स्थितं पश्चादिनमेकमेकेन द्वाषष्टिभागेन न्यूनम, तच दिनं त्रिंशता गुण्यते जातानि त्रिंशदिनानि एकश्च द्वाषष्टिभागस्त्रिंशता मुणितो जाताः त्रिंशद् द्वाषष्टिभागास्ते त्रिशहिनेभ्यः शोध्यन्ते ततः स्थितानि शेषाणि एकोनत्रिंशद्दिनानि द्वात्रिंशच्च द्वाषष्टिभागा दिनस्य एतावत्परिमाणश्चन्द्रमास इति। भवति सूर्यसंवत्सरसत्कत्रिंशन्मासातिक्रमे एकोऽधिकमासो, युगे च सूर्यमासाः षष्टिः ततो भूयोऽपि सूर्यसंवत्सरसत्कत्रिंशन्मासातिक्रमे द्वितीयोऽधिकमासो भवति, उक्तं च"सट्ठीए अइआए, हवइ हु अहिमासगो जुगद्धम्मि। बावीसे पव्वसए, हवइ अबीओ जुगंऽतंमि॥१॥" अस्याप्यक्षरगमनिका-एकस्मिन् युगे-अनन्तरोदितस्वरूपे पर्वणापक्षाणां षष्टौ अतीतायां-पष्टिसंख्येषु पक्षष्वतिक्रान्तेषु इत्यर्थः एतस्मिन् अवसरे युगाढ़ें-युगा प्रमाणे एकोऽधिकमासो भवति। द्वितीयस्त्वधिकमासो द्वाविंशे द्वाविंशत्यधिके पर्वशते-पक्षशतेऽतिक्रान्तेयुगस्यान्तेयुगस्य पर्यवसाने भवति, तेन युगमध्ये तृतीये संवत्सरेऽधिकमासः, पञ्चमे वेति द्वौ युगेऽभिवर्द्धितसंवतत्सरौ। यद्यपि सूर्यवर्षपञ्चकात्मके युगे चन्द्रमासद्वयवनक्षत्रामासाधिक्य-सम्भवस्तथापि नक्षत्रमासस्य लोके व्यवहाराविषयत्वात्, कोऽर्थः? यथा चन्द्रमासो लोके विशेषतो यवनादिभिश्च व्यवहियते तथा न नक्षतमिास इति / एतेषां च नक्षत्रादिसंवत्सराणां मासदिनमाना-नयनादिप्रमाण संवत्सराधिकार वक्ष्यते। एते च चन्द्रादयः पञ्च