________________ मास 262 - अभिधानराजेन्द्रः - भाग 6 मास ऋक्षेषु चन्द्रस्य परिवर्तनतो मासोऽप्याधेये आधारोपचारात् ऋक्षः, ऋक्ष आदिर्येषां ते ऋक्षादयः, आदिशब्दात्चन्द्रमासादिपरिग्रहः / तेषामृक्षादीना मासानामानयनोपायकरणमिदंकयमाणम् / तदेवाह(जुगदिणेत्यादि) युगे चन्द्र-चन्द्राऽभिवर्द्धितचन्द्राऽभिवर्द्धितसंवत्सरप्रमाणे दिनराशिरहोरात्रराशियुगदिनराशिस्तं रथापयित्वा, कियत्प्रमाणमित्याह-अष्टादश शतानि त्रिंशानि त्रिंशदधिकानि एतावान् दिनराशिसुगे भवतीति, कामिवसीयते इति चेत् ? उच्यते-इह सूर्यस्य दक्षिणम् उत्तरं का अवनंत्र्यशीत्यधिकदिनशतात्मकम्, युगे च पञ्च दक्षिणायनानि पोतरायणानि सर्वसंख्यया दशायनानि, ततस्त्र्यशीत्यधिकं दिनशत दशकेन गायले इत्यागतो यथोक्तो दिनराशिरेवं प्रमाण दिनराशि स्थायि . (भाष्यकार:) किमित्याहताहे हराहि भाग, रिक्खाईयाण दिनकरंऽताणं। सत्तट्टी-बावट्ठी-एगट्ठी-सट्ठिभागेहिं॥१७॥ तलो-दिनराशिस्थापनानन्तरमृक्षादीनामृक्षमासप्रभृतीना, दिनकरान्ताना सूर्यभासपर्यन्तानां नक्षत्रचन्द्रादित्यमासानामित्यर्थः / दिनमा - नानयनाय यथाक्रम सप्तषष्टिद्वाषष्ट्येकषष्टिषष्टिभागैः सप्तषष्ट्यादिभिर्भागहास्त्यिर्थः भाग (हराहि त्ति) हर। ततो यथोक्त नक्षत्रादिमासगतदिनपरिमाणभागच्छति / तच्चोत्तरत्र दर्शयिष्यते। सांप्रतमभिवर्द्धितमासगतदिनपरिमाणानयनाय नेदं करणमिति (भाष्यकार:) करणान्तरमाहअभिवञ्जियकरणं पुण, ठाविय रासिं इमं तु कायव्वं / ऊणालीससयाई, पण्णट्ठाई अणूणाई॥१८॥ अभिवर्द्धितकरणमभिवर्द्धितमासगतदिनपरिमाणानयनाय करणं पुनरिदं वक्ष्यमाण कर्त्तव्य-प्रयोक्तव्यमिति प्रयोगः। तदेवाह-स्थापयित्वा राशिं किं प्रमाणमित्यत आह-एकोनचत्वारिंशतानि पञ्चषष्टीनि पञ्चषष्ट्य - धिकान्यनूनानिपरिपूर्णानि। केषां राशिरयमिति चेत् ? उच्यते-अभिबर्द्धितमासगतदिनचतुर्विशत्युत्तरशतभागानाम्। तथाहि-अभिवर्द्धितमासस्य दिनपरिमाणमेक-त्रिंशदहोरात्रा एकविंशत्युत्तरं शतं भागानाम्, अहोरात्राश्च शतं भागानाम, अहोरात्राश्च प्रत्येकम् एकत्रिंशत् चतुर्विशत्युत्तरशतेन गुण्यन्तेजातान्यष्टात्रिंशत् शतानि चतुश्चत्वारिंशदधिकानि३८४४ उपरितनं च एकविंशत्युत्तर शतं तत्र प्रक्षिप्यते जातो यथोक्तप्रमाणो राशिः 3665 / (भाष्यकार:) तं स्थापयित्वा किमित्याहएयस्स भागहरणं, चउवीसेणं सएण कायव्वं / जे लद्धा ते दिवसा, सेसा भागा मुणेयव्वा / / 16 / / एटस्य अनन्तरोदितस्य पञ्चषष्ट्यधिकैकोनचत्वारिंशच्छ तप्रमाणस्य राशेश्चतुर्विशेन-चतुर्विशत्यधिकेन शतेन भागहरणं, भागे च हृते ये अङ्का लब्धास्ते दिवसा ज्ञातव्याः / शेषास्त्वका उद(द्ध) मिताः अहोरात्रस्य चतुर्विशत्युत्तरशत भागाः। भाष्यमअहवा वि तीसइ गुणे, सेसे तेणेव भागहारेणं / भइयम्मि जं तु लब्भइ, ते उ मुहूत्ता मुणेयव्वा / / 20 / / अथवेति प्रकारान्तरद्योतने। तच प्रकारान्तरमिदम्-लब्धदिवसानामुपरि भागास्तावत्तदवस्था एव ध्रियन्ते, तथैव शास्त्रे व्यवहारदर्शनात। अथवा -अपिः समुच्चये / समुच्चयप्रकारान्तरस्ये-वान्यस्य श्रूयमाणत्वात्, शेषे उद्ध(द) रिते राशौ मुहूर्तानयनाय त्रिंशद्गुणे कृते ततस्तेनैव चतुर्विशत्युत्तरशतप्रमाणेन भागहारेण भक्ते यत् लभ्यते ते मुहूर्ता ज्ञातव्याः / तस्स विजं अवसेसं, बावट्ठीए उ तस्स गुणकारो। गुणकारभागहारे, बावट्ठीए य उववट्टो।।२१।। (भा०) तस्यापि मुहूर्तस्य संबन्धि यदवशेषमुद्ध(द)रितं तस्य मुहूर्तगतद्वाषष्टिभागानयनाय द्वाषष्ट्या गुणकारः-गुणकरणम् / किमुक्तं भवतियदवशेष तिष्ठति तत्तु द्वाषष्ट्या गुण्यते, ततो 'गुणकारभागहारे इति' यस्योपरितनस्य राशेर्गुणकरमभवत्स गुणकारयोगात गुणकारः। अधस्तनस्तु गुणकारश्च भागहारश्च गुणकारभागहारम् / समाहारी द्वन्द्वस्तस्मिन षष्ठीसप्तम्योरथ प्रत्यभेदः तत एतदुक्तं भवति-गुणकारभागरयोषिष्ट्या अपवर्तः-अपवर्त्तना क्रियते। दोहिं तु हिए भागे, जे लद्धा तेऽवि सट्ठिभागा उ। एएसिमागयफलं, रिक्खाईणं कमेण इमं / / 22 / / (भा०) भागहारराशेश्चतुर्वित्यधिकशतप्रमाणस्य द्वाषष्ट्याऽपवर्त्तनाया जाती द्वौ, ताभ्यां तु द्वाभ्यां हृते भागे येऽङ्कालब्धास्ते द्विषष्टिभागा एव। तुरेवकारार्थः / मुहूर्तस्य ज्ञातव्याः / सांप्रतमागतप्रतिपादनार्थ-मिदमाह(एएसिमित्या दि) एतेषां भागहाराणामृक्षादीनां नक्षत्रादिमासानां दिनपरिमाणनयनाय भाग हरतां यत् आगतमेव फलमागतफलं तत् क्रमेण ऋक्षादिमासपरिपाट्या इदं वक्ष्यमाणम्। (भाष्यकारः) तदेवाहअहोरत्तं सत्तवीस, तिसत्त सत्तट्ठिभागनक्खत्तो। चंदो उ उगुणतीसं, विसट्ठिभागा य बत्तीसं / / 23 / / नाक्षत्रो नक्षत्रसबन्धी मासः सप्तविंशतिरहोरात्राः सप्तषष्टिभागाः, त्रिःसप्तत्रयो वाराः सप्त एकविंशततिरित्यर्थः२७।२१/६७। तथाहियुगदिनराशिस्त्रिंशदधिकाष्टादशशतप्रमाणो ध्रियते तस्य सप्तषष्टियुगे नक्षत्रमासा इति सप्तषष्ट्या भागो हियते, लब्धाः सप्तविंशतिरहोरात्रा एकविंशतिरहोरात्रस्य सप्तषष्टिभागाः। तथा चान्द्रः चन्द्रमास एकोनत्रिंशदहोरात्रा द्वाषष्टिभागा अहोरात्रस्य द्वात्रिंशत् 26 / 32/62 तथाहितस्यैव युगदिनराशिस्त्रिंशदधि-काऽष्टादशशतमानस्य युगे चन्दमासा द्वाषष्टिरिति, द्वाषष्ट्या भागे हृते एतावदेव लभ्यते इति। भाष्यम् - उदुमासो तीस दिणा, आइचो तीस होइ अद्धं वा। अभिवड्डि एक्कतीसा, इगवीससयं च भागाणं / / 24 / / ऋतुमासः परिपूर्णानि त्रिंशदिनानि एकाषष्टियुगे ऋतुर्मासा इत्येक षष्ट्यानन्तरोदितस्य धुवराशेर्भागहरणे, एतावतो लभ्यमानत्वात्, आदित्यः-आदित्यमासो भवति। त्रिंशदहोरात्रा अहोरात्रस्यार्द्ध यतः सूर्यस्य युगे मासाः / षष्टिस्ततः षष्ट्या ध्रुवराशेर्भागहरणे एतावल्लभ्यते इति अभिवड़ितोऽभिवर्द्धितमासः एकत्रिंशदहोरात्रा एकस्य चाहोरात्रस्य चतुर्विशत्युत्तरशतभागानामेकविंशं शतमेकविंशत्यधिक शत