SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ मालोहड 261 - अभिधानराजेन्द्रः - भाग 6 मास णां पूर्वोपदिष्टा एषा प्रतिज्ञा एष हेतुरेतत्कारणमयमुपदेशः। यत्तथाप्रकार मृत्तिकोपलिममशनादिजातं लाभे सति नो प्रतिगृह्णीयादिति। आचा०२ शु०१ चू०१ अ०७ उ० / स्था०। मास पुं०(माष) धान्यभेदे, आचा०१ श्रु०१ अ०५ उ०। आ०म० ज०॥ पञ्चभिर्गुञ्जभिः परिमिते मानविशेषे, त०। प्रज्ञा०॥ माषा: मासा ते मंते ! किं भक्खेया, अभक्खेया ? सोमिला! मासा मे भक्खेया वि, अभक्खेया वि? सेकेणऽद्वेणं० जाव अभक्खेया वि। से नूणं ते सोमिला ! बंभन्नएसु नएसुदुविहा मासा पण्णत्ता, तं जहा-दव्वमासाय, कालमासा या तत्थ णं जे ते कालमासा। ते णं सावणाऽऽदीया आसाढपज्जवसाणा दुवालस / तं जहासावणे भद्दवए आसोएकत्तिए मग्गसिरे पोसे माहे फागुणे चित्ते वइसाहे जेट्ठामूले आसाढे / ते णं समणाणं निग्गंथाणं अभक्खेया / तत्थ णं जे दव्वमासा ते दुविहा पण्णत्ता, तं जहाअत्थमासा य, घण्णमासा य ! तत्थ णं जे ते अत्थमासा ते / दुविहा पण्णत्ता, तं जहा-सुवन्नमासा य, रुप्पमासा य / ते णं समणाणं निग्गंथाणं अभक्खेया। तत्थ णं जे ते धन्नमासा ते दुविहा पण्णत्ता, तं जहा-सत्थपरिणया य, असत्थपरिणयाय। एवं जहा धन्नसरिसवा० जाव से तेणऽटेणं० जाव अभक्खेया वि। भ०१८ श०१० उ०। मास पुं० पक्षद्वयात्मक कालविशेषे, विशे० / आ०म० / भ० / अनु०।। कल्प० / प्रव० / जं० / कर्म० / स्था०। इदानीं (भाष्यकारः) मासनिक्षेपप्ररूपणार्थमाहनामं ठवणा दविए, खेत्ते काले तहेव भावे य। मासस्स परूवणया, पगयं पुण कालमासेणं ||13|| (नाम ति) मासशब्दसंबन्धात् नाममासः,एवं स्थापनामासः। (दविए ति) द्रव्यमासः, एवम् क्षेत्रमासकालमासौ, भावमासश्च. एषा षड़िवधा मासस्य प्ररूपणता-प्ररूपणस्य-प्ररूपणशब्दस्य भावः-प्रवृत्तिनिमित्तं प्ररूपणता प्ररूपणेत्यर्थः / प्रकृतमधिकारः पुनरत्रकालमासेन एष गाथासंक्षेपार्थः सांप्रतमेनामेव गाथां विवरीषुर्नामस्थापने सुप्रतीतत्वादनादृत्य (भाष्यकार:) द्रव्यमासादिव्याख्यानार्थमाहदव्वे भव्वे निव्व-त्तिओ य खेत्तम्मि जम्मि वण्णणया। काले जहिं वणिजइ, नक्खत्तादीव पंचविहो।।१४|| द्रव्यमासो द्विधा-आगमतो, नोआगमतश्च। तत्राऽऽगमतो मासशब्दा- | र्थज्ञाता तत्र चानुपयुक्तः, नोआगमतस्त्रिविधः, तद्यथा-ज्ञशरीरभव्यसरीरतद्व्यतिरिक्तश्च। तत्र ज्ञशरीरभव्यशरीरे प्राग्वत्। तद्व्यतिरिक्तमाह(दत्वे निव्वत्तिओ त्ति) द्रव्ये मासो, भव्य इति भावी एकभविकादि। इह मास इति रूपं प्राकृते माषशब्दस्यापि भवति / तत एकभविकादिरत्र भाषो दष्टव्यः / तत्र एकभविको नाम यो देवो मनुष्यस्तिर्यड् वा अनन्तरमुदत्य माषो भविष्यति बद्धायुष्को येन माषभवायुद्धम् अभिमुखनाम गोत्रो यो माषभवं समुत्पत्तुकामः समवहतः स्वदेशान तत्र विक्षिपन् वर्तते / अथवा तद्व्यतिरिक्तो द्रव्यमाषो द्विधा-(निव्वत्तिओ यत्ति) मूलगुणनिर्वर्तनानिर्वत्तितः, उत्तरगुणनिर्वर्तनानिवर्तितश्च। तत्र मूलगुणनिर्वर्तनानिवर्तितो नाम-येन जीवेन तत्प्रथमतया माषभवानुगतनामगोत्रकर्मोदयतो माषद्रव्यप्रायोग्यानिद्रव्याणि गृहीतानि, उत्तरगुणनिर्वर्तनानिर्वर्जनानिर्वर्तितो माषस्तम्बश्चित्रकर्मणि लिखितः / (खेत्तम्मि इत्यादि) यस्मिन् क्षेत्रे माषस्य वर्णना स माषक्षेत्रप्राधान्यविवक्षायां तत्क्षेत्रमाषः / उपलक्षणमेतत् / तेन यस्मिन् क्षेत्रे मासकल्पः क्रियते स मासः क्षेत्रप्राधान्यविवक्षणात्तत्र क्षेत्र मास इत्यपि द्रष्टव्यम् / तथा-यत्र काले यो मासो वर्ण्यत स कालप्रधानताविवक्षणात्तत्कालमासः, अथवाश्रावणभाद्रपदादिकः / यदि वा-स्वलक्षणनिष्पन्नो नाक्षत्रादिकः पञ्चविधः-पञ्चभेदः कालमासः। (भाष्यकारः) तानेव भेदानुपदर्शयति - नक्खत्ते चंदेया, उउ आइचे य होइ बोधव्यो। अभिवड्डिए य तत्तो, पंचविधो कालमासो उ।।१५।। नक्षत्रेषु भवो नाक्षत्रः / किमुक्तं भवति-चन्द्रश्चारं चरन यावता कालेनाभिजित आरभ्योत्तराषाढानक्षत्रपर्यन्तं गच्छति तत्कालप्रमाणो नाक्षत्रमासः / यदि वा-चन्द्रस्य नक्षत्रमण्डले परिवर्तनतो निष्पन्न इत्युपचारतो मासीऽपि नक्षत्रम् / तथा-(चंदेया इति) चन्द्र भवश्चान्द्रः युगादौ श्रावणे मासे बहुलपक्षप्रतिपद आरभ्य यावत्पौर्णमासीपरिसमाप्तिस्तावत्कालप्रमाणञ्चान्द्रो मासः। एकपौर्णमासीपरावर्त्तश्चान्द्रो मास इति यावत् / अथवा-चन्द्रचारनिष्पन्नत्वादुपचारतो मासोऽपि चन्द्रः / चः समुच्चये। दीर्घत्वर्षित्वात्, (उउ इति) ऋतुः स च किल लोकरूढ्या षष्ट्यहोरात्रप्रमाणो द्विमासात्मकस्तस्यार्द्धमपि मासः, अवयवे समुदायोपचारात्। ऋतुरेव अर्थात्परिपूर्णत्रिंशदहोरात्रप्रमाणः। एष एव ऋतुमासः कर्ममास इति वा, सावनमास इपि वा, व्यवहियते। उक्तं च-"एस चेव उउमासो कम्ममाओ सावणमासो भण्णइ" इति। तथा-(आदिचे इति) आदित्यस्यायमादित्यः / प्रत्युत्तरपदयमादित्यदितेोऽणपवादो वेति ण्यप्रत्ययः / व्यञ्जनात्यम्यन्तस्य सरूपे वा। इति पाक्षिकस्य एकस्य यकारस्य लोपः। स चैकस्य दक्षिणायनस्योत्तरायणस्य वात्र्यशीत्यधिकदिनशतप्रमा-णस्य षष्ठभागमानः, यदिया-आदित्यचारनिष्पन्नत्वादुपचारतो मासोऽप्यादित्यः। (अभिवड्डिए यतत्तो इति) ततश्चतुर्थादादित्यान्मासादनन्तरः पश्च मो मासोऽभिवर्द्धितः, अभिवर्द्धितो नाम मुख्यतस्त्रयोदशचन्द्रमासप्रमाणः, संवत्सरे द्वादशचन्द्रमासप्रमाणात्संवत्सरादेकेन मासेनाभिवर्द्धितत्वात् परं तद् द्वादशभागप्रमाणो मासोऽप्यवयवे समुदायोपचारादभिवर्द्धितः, एष पञ्चविधः कालमासः। तुः पूरणार्थः / तदेवमुक्ता नामतो नाक्षत्रादयः पञ्चापि मासाः। सांप्रतमेतेषामेव मासाना दिनपरिमाणमभिधित्सुस्त दानयनाय (भाष्यकारः) करणमाहरिक्खाई मासाणं, करणमिणमं तु आणणोवाओ। जुगदिणरासिं ठाविय, अट्ठारसयाई तीसाइं॥१६||
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy