________________ महाविदेह 213 - अभिधानराजेन्द्रः - भाग 6 महावीर कत्रयन्निशद्योजनसहस्त्रपमाणत्वात्, तथा संस्थानेन पल्यङ्करूपेण विपुलतरक एव पार्श्वद्वयेऽपीषययोस्तुल्यप्रमाणात्वात् / हैमवतादीना पल्यङ्कसं स्थितत्वेऽपि पूर्वजगतीकोणाना संवृतत्वेन पूवीपरेषयोवैषम्यादिति / तथा परिणहेन सुप्रमाणतरक एव, एतद्धनुः पृष्ठस्य जम्बूद्वीपपरिध्यद्धमानत्यादिति, अत एव महान्- अतिशयेन, विशिष्टोगरीयान्, देहः-शरीमाभोग इति यावत् येषां ते महाविदेहाः / अथवामहान् अतिशयेन, विशिष्टो गरीयान, देहः-शरीरं कलेवरं येषा ते तथा, ईदृशास्तत्रत्या मनुष्याः, तथाहि-तत्र विजयेषु सर्वदा पञ्चधनुःशतोच्छ्या देवकुरूत्तरकुरुषु त्रिगव्यूतोच्छ्रयाः ततो महाविदेहभनुष्ययोगादिदमपि क्षेत्र महाविदेहाः। महाविदेहश्चशब्दः स्वभावाद्बहुवचनान्त एव, एतच्च प्रागेयोक्तम् / ततो बहुवचनेन व्यवहियते, दृश्यते च कचिदेकवचनान्तोऽपि, तदपि प्रमाणम्, पूर्वमहर्षिभिस्तथाप्रयोगकरणात् / अथवामहाविदहनाम देवीऽत्राधिपत्यं परिपालयति, तेन तद्योगादपि महाविदेह इति, शेष प्राग्वत् / जं०४ वक्ष०। स्था० / प्रव०। प्रज्ञान विपा० स० आ० चू०। (उत्तरकुरुवक्तव्यता 'उत्तरकुरा' शब्दे द्वितीयभागे 757 पृष्ठे गता) (कच्छादिविजयानां वर्णकः कच्छाऽऽदिशब्देषु) पिशाचविशेष, प्रज्ञा०१ पद। जम्बुद्दीवे दीवे महाविदेहे वासे चउबिहे पण्णत्ते / तं जहापुव्वविदेहे, अवरविदेहे, देवकुरा, उत्तरकुरा। स्था०४ ठा० / (महाविदेहे कल्याणचिन्ता'कल्लाण' शब्द तृतीयभागे 384 पृष्ठ कृता।) महाविदेहा स्त्री० (महाविदेहा) शरीराबहिर्नरपेक्ष्येण मनोवृत्ती, द्वा०) शरीरादहियां शरीरनैरपेक्ष्येण मनोवृत्तिः सा महाविदेहेत्युच्यते, शरीराऽहंकारविगमात् / अत एवाकल्पितत्वेन महत्त्वात् शरीराऽहंकारे सति हि बहिवृत्तिर्मनसः कल्पितोच्यते। तस्याः कृतसयमायाः सकाशात प्रकाशस्य शुद्धसत्त्वलक्षणस्य यदावरणं क्लेशकर्मादि तत्क्षयो भवति, सर्वे चितमलाः क्षीयन्त इति यावत्। तदुक्तम्- "बहिरकल्पितावृत्तिर्महाविदेहा ततः प्रकाशावरणक्षय इति। द्वा०२६ द्वा०। महाविमाण न० (महाविमान) अनुत्तरविमानेषु, स्था०। उडलोगे पंच अणत्तरा महइमहाविमाणा पण्णत्ता / तं जहाविजए, वेजयंते, जयंते, अपराजिए, सव्वट्ठसिद्धे / स्था०५ ठा०२ उ० / सूत्र०। महाबिल (देशी व्योम्नि, देवना०६ वर्ग 121 गाथा! महाविस पुं० (महाविष) महजम्बूद्वीपप्रमाणशरीरस्यादिविषतया भवनात् विष यस्य सः / ज्ञा०१ श्रु०६ अ०। प्रधानविषयुक्ते, आव०४ अ०। जम्बूद्वीपप्रमाणस्यापि शरीरस्य व्यापनसमर्थे विषे, भ०१५ श०। महाविसय त्रि० (महाविषय) बृहद्गोचरे, पञ्चा०८ विव० / आव०। दर्श०। महाविहिपुं० (महाविधि) बृहद्विधौ, सूत्र०१ श्रु०२ अ०१ उ०। महावीर पुं० (महावीर) महाश्चासौ वीरश्च कर्मविदारणसहिष्णुर्महावीरः।। तक। 'शूर' 'वीर' विक्रान्तौ / कषायादिशत्रुजयान्महाविक्रानतो महावीरः / आ०म०१ अ० / दश०। स्था०। एगे समणे भयवं महावीरे इमीसे ओसप्पिणीए चउव्वीसाए तित्थगराणं चरमतित्थयरे सिद्धे बुद्धे मुत्ते० जाव सव्वदुक्खप्पहीणे / (सूत्र-५३) (एगे समणे इत्यादि) एकः-असहायः, अस्य च सिद्ध इत्यादिना संबन्धः, आम्यति-तपस्यतीति श्रमणः, भज्यत इति भगः-समग्रेश्वर्यादिलक्षणः उक्तं च"ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः। धर्मस्याथ प्रयत्नस्य,पण्णां भग इतीङ्गना।।१।।" इति। स विद्यते यस्येति भगवान, तथा विशेषेणेरयति-मोक्षं प्रति गच्छति गमयति वा प्राणिनः, प्रेरयति वा-कर्माणि निराकरोति, वीरयति वारागादिशबून प्रति पराक्रमयति इति वीरः, निरुक्तितो वा वीरो, यदाह"विदारयति यत्कर्म,तपसाच विराजते। तपोवीर्येण युक्तश्च, तस्माद्द्वीर इति स्मृतः॥१॥" इतरवीराऽपेक्षया महांश्चासौ वीरश्चेति महावीरः, भाष्योक्तं च"तिहुयणविक्खायजसो, महाजसो नामओ महावीरो। विकतो य कसायाऽऽइ सत्तुसेन्नप्पराजयओ // 1 // ईरेइ विसेसेण व, खिवइ कम्माइ गमयइ सिवं वा। गच्छइ अतेण वीरो, स मह वीरो महावीरो // 2 // " इति। अस्यामवसर्पिण्यां चतुर्विशतेस्तीर्थकराणां मध्ये चरमतीर्थकरः सिद्धःकृतार्थो जातः / बुद्धः केवलज्ञानेन बुद्धवान बोध्यम्, मुक्तः कर्मभिः, यावत्करणात् 'अंतकड़े' अन्तो भवस्य कृतो येन सोऽन्तकृतः परिनिव्वुडे' परिनिर्वृतः कर्मकृतविकारविरहात् स्वस्थीभूतः, किमुक्त भवति ?-"सव्वदुकखपहीणे'' सर्वाणि शारीराऽऽदीनि दुःखानि प्रक्षीणानि वा यस्य स, सर्वदुःखप्रक्षीणः सर्वदृःखप्रहीणे वा। सर्वत्र बहुव्रीही तान्तस्य यः परनिपातः स आहितापयादिदर्शनादिति / इह च तीर्थकरेष्वेतस्यैवैकत्वं मोक्षगमने, न तु ऋषभादीना, दशसहस्त्रादिपरिवृतत्वेन तेषां सिद्धत्वात्, उक्तं च"एगो भगवं वीरो, तेत्तीसाए सह निव्वुओ पासो। छत्तीसएहिं पंचहिँ,सएहिँ नेमी उ सिद्धिगओ॥१॥" इति। स्था०१ ठा० / सूत्र० / कर्मदारणसहिष्णौ, सूत्र०१ श्रु०१५ अ० / श्रीमद्वर्द्धमानस्वामिनि, सूत्र०१ श्रु०६ अ० / सर्वलोकचमत्कृतिकारिणि, आचा०१ श्रु०६ अ०३ उ०। आव० / आ०चू० / रा०। अने० / प्रज्ञा०ा पा० / विशे० / स्था० / सूत्र० / अनु० / प्रव०ाल०। (संपूर्णोऽधिकारः 'वीर' शब्दे वक्ष्यते) समणेणं भगवया महावीरेणं अट्ठ रायाणो मुंडे मवित्ता अगाराओ अणगारियं पव्वाविया। णं जहा-"वीरंगय वीरजसे, संजयए णिज्जए य रायरिसी। सेयसिवे उदायणे, तह संखे कासि वद्धणे / / 1 / / " (सूत्र-६२१) स्था०५ ठा०३ उ०।