________________ महाविदेह 212 212 - अभिधानराजेन्द्रः - भाग 6 महाविदेह तस्सद्धे मिहिसे बाहं ||1||" इति वचनात् / महतो धनुःपृष्ठाद्धिदेहाना दक्षिणार्द्धस्योत्तरार्द्धस्य च संबन्धिनो लक्षमेकमष्टपञ्चाशत् सहस्त्राणि शतमेकं त्रयोदशाधिक योजनानां षोडश च कलाः सार्दा योजन 158113 कलाः 16 कलार्द्ध चेत्येवं परिमाणल्लघुधनुःपृष्ठ निषधादिसंबन्धिलक्षमेकं चतुर्विशतिसहस्त्राणि त्रीणि शतानि षट्चत्वारिंशदधिकानि योजनानां नव च कला योजन 124346 कलाः इत्येवं परिमाण शोधय / ततश्च शेषमिदं त्रयस्त्रिंशत् सहस्त्राणि सप्तशतानि सप्तषष्ट्यधिकानि योजनानां सप्त च कलाः सार्धाः योजनानां 33767 कलाः 7 कलार्द्ध 1/2 च, एषामर्द्ध षोडश योजनसहस्त्राणि अष्टौ शतानि त्र्यशीत्यणिकानियोजनानां त्रयोदश च कलाः सपादा इत्येवं रूपा बाहा विदेहाना सम्भवन्ति, अत्र तु त्रयस्त्रिंशत् सहस्त्रादिरूपा उक्रा तत्किभिति ? उच्यते-सर्वत्र वैताढ्यादिषु पूर्वबाहा अपरबाहा च यावती दक्षिणतस्तावती उत्तरतोऽपि परं व्यवहितत्वेन सा संमील्य नोक्ता, इयं तु संमिलितत्वात्संमील्यैवोक्ता, सूत्रे दक्षिणबाहाप्रमाणैवोत्तरबाहेत्येनमर्थ बोधयितुमिति। अथास्य जीवामाह-(तस्स जीवा इत्यादि) तस्य विदेहस्स जीवा बहुमध्यदेशभागे विदेहमध्ये इत्यर्थः / अन्येषां तु वर्षवर्षधराणं चरमप्रदेशपङ्क्तिीवा, अस्यतुमध्यप्रदेशपक्तिरित्यर्थः, इयमेव चजम्बूद्वीपमध्यम्, अत एव चायामेन लक्षयोजनमाना, मध्यमात्परतस्तु जम्बूद्वीपस्य सर्वत्र दक्षिणत उत्तरतो वा लक्षान्न्यूनन्यूनमानत्वात, अथास्य धनुःपृष्ठमाह-(तस्स धणुं इत्यादि) तस्य विदेहस्योभ्योः पार्श्वयोः एतदेव विवृणोति-(उत्तरदाहिणेणं ति) उत्तरपार्श्वे दक्षिणपायें वा एक योजनलक्षम् अष्टपञ्चाशच योजनसहस्त्राणि एकं च योजनशत त्रयोदशोत्तर षोडश चैकोनविंशतिभागान् योजनस्य किञ्चिद्विशेषाधिकान् परिक्षेपेण, यचान्यत्र सार्द्धाः षोडश कला उक्तास्तदत्र किचिद्विशेषाधिकपदेन संगृहीतम्, उद्धरितकलाशास्तु विवक्षिता इति। अत्राधिकार्थसूचनार्थ करणान्तरं दर्श्यते-जम्बूद्वीपपरिधिस्तिस्त्रो लक्षाः षोडश सहस्त्राणि द्वेशते सप्तविंशत्यधिके योजनानां कोशत्रयमष्टाविंशं धनुःशतं त्रयोदशाङ्गुलान्येकमद्धीमुलम्, योजन 316227 क्रोश ३धनूंषि 128 अड्डलानि 13 अडिलम् तत्र योजनराशिरीक्रियते, लब्धमेक लक्षमष्टापञ्चाशत् सहस्त्राणि शतमेकं त्रयोदशाधिक योजनानि 158113, यत्त्वेक योजन शेष तत्कलाः क्रियन्ते लब्धाः एकोनविंशतिः कोशत्रये चलब्धाः सपादाश्चतुर्दश कलाः, उभयमीलने जाताः सपादास्त्रयस्त्रिंशत् कलाः, तासामढे लब्धाः सार्धाः षोडश कलाः / यश्च कलाया अष्टमी भागोऽधिक उद्धरति यानि च धनुषामद्धे लब्धानि चतुःषष्टिर्धषि यानि च सार्द्धत्रयोदशामुलानामढे पादोनानि सप्ताङ्गुलानि तदेतत्सर्वमल्पत्वान्न विवक्षितमिति। अधुना विदेहवर्षस्य भेदान्निरूपयन्नाहमहाविदेहे णं वासे चउविहे चउप्पडोआरे पण्णत्ते / तं जहापुव्वविदेहे 1, अवरविदेहे 2, देवकुरा 3, उत्तरकुरा / महाविदे हस्सणं मंते! वासस्स के रिसए आगारभावषडोआरे पण्णत्ते ? गोयमा / बहुस मरमणिजे भूमिभागे पण्णत्ते० जाव कित्तिमेहि चेव अकित्तिमेहिं चेव / महाविदेहे णं भंते ! वासे मणुआणं के रिसए आयारमावपडोआरे पण्णत्ते ? गोयमा ! तेसि णं मणुआणं छव्विहे संघयणे छविहे संठाणे पंच धणुसयाई उर्ल्ड उच्चत्तेणं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं पुवकोडी आउअं पालेंति पालेत्ता अप्पे गइया णिरयगामी० जाव अप्पेगइया सिज्झंति० जाव अंतं करेंति / से केणऽद्वेणं भंते ! एवं वुइमहाविदेहे वासे म०२ गोअमा ! महाविदेहे णं वासे भारहेरवयमेहवयहेरण्णवयहरिवासरम्मगवासेहिंतो आयामविक्खम्भसंठाणपरिणाहेणं वित्थिण्णतराए चेव विपुलतरए चेव महंततराए चेव सुप्पमाणतराए चेव महाविदेहा य इत्थ मणूसा परिवसंति, महाविदेहे य इत्थ देवे महिड्डिए० जाव पलिओवट्ठिईए परिवसइ, से तेणटेणं गोअमा! एवं वुचइ-महाविदेहे वासे म०२, अदुत्तरं चणं गोअमा ! महाविदेहस्स वासस्स सासए णामधेज्जे पण्णत्ते, जंण कयाइ णाऽसि ण कयाइ नऽस्थि ण कयाइ ण भविस्सइ सूत्र-८५|| (महाविदेहे णं इत्यादि) महाविदेहं वर्ष चतुर्विधचतुष्प्रकार पूर्वविदेहाद्यन्यतरस्य महाविदेहत्वेन व्यपदिश्यमानत्वात्, अत एव चतुर्षुपूर्वापरविदेहदेवकुरुत्तरकुरुरूपेषु क्षेत्रविशेषेषु प्रत्यवतारः-समवतारो विचारणीयत्वेन यस्य तत्तथा, चतुर्विधस्य पर्यायो वाऽयम्, तत्र पूर्वविदेहो यो मेरोर्जम्बूद्वीपगतःप्राग्विदेहः एवं पश्चिमतः सोऽपरविदेहः, दक्षिणतो देवकुरुनामा विदेहः, उत्तरतस्तु उत्तरकुरुनामा विदेहः / ननु पूर्वापर - विदेहयोः समानक्षेत्रानुभावकत्वेन महाविदेहव्यपदेश्यताऽस्तु. देवकुरूतरकुरूणांत्वकर्मभूमिकत्वेन कथं महाविदेहत्वेन व्यपदेशः? उच्यतेप्रस्तुतक्षेत्रयोर्भरताद्यपेक्षया महाभोगत्वात् महाकायमनुष्ययोगित्वा - न्महाविदेहदेवाधिष्ठयत्वाच महाविदेहवाच्यता समुचितैवेति सर्वं सुस्थम्। अथास्य स्वरूप वर्णयितुमाह-(महाविदेह इत्यादि) प्राग्वत, अत्र यावत्करणात्"आलिंगपुक्खरेइ वा जावणाणाविह पंचवण्णेहिं मणीहिं तणोह अउपसोभिए'' इति। संप्रत्यत्र मनुजस्वरूपमाह-'महाविदेहे णं' इत्यादि प्राग्वत्, आभ्यां सूत्राभ्यामस्य कर्मभूमित्वमभाणि, अन्यथा कर्षकादिप्रवृत्तानां तृणादीना कृत्रिमत्वं तद्वर्पतजातानां च मनुष्याणा पञ्चमगतिगामित्व न स्यात् / अथास्य नामार्थ प्रश्नयन्नाह-"सेकेण तु णमित्यादि'' प्राग्वत्, प्रश्नसूत्रं सुगमम् / उत्तरसूत्रे - गौतम ! महाविदेह-वर्ष भारतैरवतहैमवतहैरण्यहरिवर्षरम्यकवर्षेभ्यः आयामविष्कम्भसंस्थानपरिणाहेन, समाहारादेकवद्भावः। तत्राऽयामादित्रिक प्रतीतम्, परिणाहः-परिधिः, अत्र च व्यस्ततया विशेषणनिर्देशेऽपि योजना यथासम्भवं भवतीत्यायामेव महत्तरक एव लक्षप्रमाणजीवाकत्वात्, तथा विष्कम्भेन विस्तीर्णतरक एसाधिकचतुरशीतिषट्शताधि