________________ महापउम 206 - अभिधानराजेन्द्रः - भाग 6 महापउम सीरत्रं बभूव / ततो महापद्मश्चक्रवर्तिऋद्धिसमेतो हस्तिनागपुरं प्राप्तः, प्रणनाम च जननीजनकपादान्, ताभ्यामप्यधिकरनेहेन प्रेक्षितः। अत्रान्तरे तत्रैव समवसृतो मुनिसुव्रतस्वामिशिष्यो नागसूरिः, ततो निर्गतः सपरिवारः पद्योत्तरराजः, तं वन्दित्वा पुरो निषण्णः, गुरुणा च तत्पुरो भवनिर्वेदजननी देशना कृता, तां श्रुत्वा वैराग्यमापन्नो राजा गुरुं प्रत्येवमुवाच। भगवन्नह राज्यं स्वस्थं कृत्वा भवदन्तिके प्रव्रजिष्यामि। गुरुणा भणितम्, मा विलम्ब कुर्विति। गुरुं प्रणम्य नगरे प्रविष्टो राजा, आकारिता मन्त्रिण: प्रधानपरिजना विष्णुकुमारश्च / सर्वेषामपि राज्ञा एवमुक्तम्। भो भो ! श्रुता भवद्भिः संसारासारता अहमेतावत्कालं वञ्चितः, यच्छ्रामण्यं नानुष्ठितवान् / ततःसाम्प्रतं विष्णुकुमारं निजराज्येऽभिषिच्य प्रव्रज्या गृह्णामि। ततो विष्णुकुमारेण विज्ञप्तम्, तात् ! ममापि किंधाकोपमैोंगेः, सृतम्, तव मार्गमवानुसरिष्यामि। ततो विष्णुकुमारस्य दीक्षानिश्चय ज्ञात्वा पद्मोत्तरराजेन महापद्म आकारितो भणितश्च, पुत्र ! ममेद राज्य प्रतिपद्यस्व, विष्णुकुमारोऽहं च प्रव्रज्या प्रतिपद्यावः / अथ विनीतेन महापद्येन च भणितम्, तात! निजराज्याभिषेकं विष्णुकुमारस्यैव कुरु, अहं पुनरेतस्यैवाज्ञाप्रतीच्छुको भविष्यामि / राज्ञा भणितम्, वत्स ! मयोक्तोऽप्ययं राज्य न प्रतिपद्यते। अवश्यमयं मया समं प्रव्रजिष्यति / ततः शोभनदिवसे महापद्मस्य कृतो राज्याभिषेकः। विष्णुकुमारसहितः पद्मोत्तरराजः सुव्रतसूरिसमीपे प्रव्रजितः। ततो महापद्मो विख्यातशासनश्चक्रवर्ती जातः। स्वमातृपरमातृकारितौ तौ द्वावपि रथौ तथैव स्तः। महापद्मचक्रिणा तु जननीसत्को जिनरथो नगरीमध्ये भ्रामितः, जिनप्रवचनस्य कृता उन्नतिः। तत्प्रभृति बहुलोको धर्मोद्यममतिर्जिनशासनं प्रतिपन्नः, तेन महापद्मचक्रिणा सर्वस्मिन्नपि भरतक्षेत्रे ग्रामाकरनगरोद्यानादिषु कारितानि जिनायतनान्येककोटिलक्षप्रमाणानि / पद्मोत्तरमुनिरपि पालितनिष्कलङ्कश्रामण्यः शुद्धाध्यवसायेन कर्मजालं क्षपयित्वा समुत्पन्नकेवलज्ञानः संप्राप्तः सिद्धिमिति। विष्णुकुमारमुनेरपि उग्रतपोविहारनिरतस्य वर्द्धमानज्ञानदर्शनचारित्रपरिणामस्य आकाशगमनादिवैक्रियलब्धय उत्पन्नाः / स कदाचिन्मेरुवत्तुङ्गदेहो गमने व्रजति, कदाचिन्मदनवद् रूपवान् भवति। एवं नानाविधलब्धिपात्रः स संजातः / इतश्च ते सुव्रताचार्याः बहुशिष्यपरिवृता वर्षारात्रस्थित्यर्थ हस्तिनागपुरोद्याने समायाताः, ज्ञाताश्च तेन विरुद्धेन नमुचिना, अवरारं ज्ञात्वा तेन राज्ञे विज्ञप्तम्, यथा पूर्वप्रतिपन्नं मम वरं देहि। चक्रिणा उक्तम्, यथेष्ट भार्गय / नमुचिना भणितम्, राजन् ! अहं वेदभणितेन विधिना यज्ञ कर्तुमिच्छामि, अतो राज्य मे देहि। चक्रिणा नमुचिः स्वराज्येऽभिषिक्तः, स्वयमन्तः पुरे प्रविश्य स्थितः। नमुचिर्यज्ञपा(वा)टकमागम्य यागनिमित्त दीक्षितो बभूव / राज्येऽभिषिक्तस्य तस्य वर्धापनार्थ जैनयतीन वर्जयित्वा सर्वेऽपि लिनिनो लोकाश्च समायाताः / नमुचिना सर्वलोकसमक्षमुक्तम्, सर्वेऽपि लोका मम वपिनार्थ समा याताः, जनयतयः केऽपि नाऽऽयाताः, एवं छलं प्रकाश्य सुव्रताचायो आकारिताः, आगताः, नमुचिना भणिताः / भोजैनाचार्याः ! यो यदा ब्राह्मणो वा. 'पा राज्यं प्राप्नोति स तदा पषण्डकैरागत्य दृष्टव्यः, इयं लोकस्थितिः, यतो राजरक्षितानि तपोधनानि भवन्ति। यूयं पुनःस्तब्धाः सर्वे पाखण्डदूषकाः निर्मर्यादा मा निन्दथ। अतो मदीयं राज्यं मुक्त्वाऽन्यत्र यथासुख व्रजत / यो युष्माकं मध्ये कोऽपि नगरे भ्रमन् द्रक्ष्यते स मे वध्यो भविष्यति / सुव्रताचार्यरुक्तम, राजन्नस्माकं राजवर्धापनाचारो नास्ति, तेन वयं त्वद्वपिनकृते नाऽऽयाताः। न च वयं किंचिनिन्दामः, किंतु समभावास्तिष्ठाम्। ततः स रुष्टः प्रतिभणति, यदि श्रमण सप्तदिनोपरि अह द्रक्ष्ये तमहभवश्य मारयिष्यामि, नात्र सन्देहः। एतन्नमुचिवाक्यं श्रुत्वा आचार्याः स्वस्थानमायाताः सर्वेऽपि साधवः पृष्टाः, किमत्र कर्त्तव्यम्। ततः एकेन साधुना भणित, यथा सदा सेविततपोविशेषो विष्णुकुमारनामा महामुनिः साम्प्रतं मेरुपर्वतचूलास्थो वर्तते, स च महापद्मचक्रिणो माताऽस्ति, ततस्तद्वचनादयमुपशमिष्यति, आचार्यरुक्तं तदाकारणार्थ यो विद्यालब्धिसम्पन्नः स तत्र व्रजतु / तत एकेन साधुना उक्तम्. अहं मेरुचूलां यावद्गगने गन्तुं शक्तोऽस्मि, पुनः प्रत्यागन्तुं न शक्तोऽस्मि / गुरुणा भणितम् - विष्णुकुमार एव त्वामिहानेष्यति, तथेति प्रतिपद्य स मुनिराकाशे उत्पतितः / क्षणमात्रेण मेरुचूलायां प्राप्तः, तमायान्तं दृष्ट्वा विष्णुकुमारेण चिन्तितम्, किञ्चिद् गुरुकं सङ्घकार्य समुत्पन्नम्, यदयं मुनिवर्षाकालमध्येऽत्रायातः। ततः स मुनिर्विष्णुकुमारं प्रणम्य आगमनप्रयोजनं कथितवान्, विष्णुकुमारस्तं मुनिं गृहीत्वा स्तोकवलया आकाशमार्गेण गजपुरे प्राप्तः / वन्दितास्तेन गुरवः, गुर्वाज्ञया साधुसहितो विष्णुकुमारमुनिर्नमुचिपर्षदि गतः, सर्वैः सामन्तादिभिर्वन्दितः, नसुचिस्तु तथैव सिंहासने तस्थिवान, नमनाक् विनयं चकार विष्णुना धर्मकथनपूर्व नमुचेरेवं भणितम्, वर्षाकालं यावन्मुनयोऽत्र तिष्ठन्ति / नमुचिना भणितम, किमत्र पुनः पुनर्वचनप्रयासेन, पञ्च दिवसान् यावन्मुनयोऽत्र तिष्ठन्तु। विष्णुना भणितं तव उद्याने मुनयस्तिष्ठन्तु। ततः संजातामर्षण नमुचिना एवं भणितम्, सर्वेः पाषण्डाधमैर्भवद्भिर्न मद्राज्ये स्थयम्, मद्राज्य त्वरितं त्यजत, यदिजीवितेन कार्यम् / ततः समुत्पन्नकोपानलेन विष्णुना भणितम्, तथापि त्रयाणां पादानां स्थानं देहि / ततोक भणितं नमुचिना, दत्तं त्रिपदीस्थानं परं यं त्रिपद्या बहिर्द्रक्ष्यामि तस्य शिरश्छेद करिष्यामि / ततः स विष्णुकुमारः कृतनानाविधरूपो वृद्धि गच्छन् क्रमेण योजनलक्षप्रमाणरूपो जातः / क्रमाभ्यां दर्दर कुर्वन् ग्रामाकरनगरसागराकी भूमिमाकम्पयन् शिखरिणां शिखराणि पातयति स्म। त्रिभुवन्ने क्षोभ कुर्वन् स मुनिः शकेण ज्ञातः / तस्य कोपोपशान्तये शक्रेण गायनदेव्यः प्रेषिताः। ताश्चैवं गायन्ति रम-"सपरसंतावओ, धम्मवणदावओ, दुग्गइगमणहेऊ। कोवो ताओवसमं, करेसु भयवं ति'' एवमादीनि गीतानिता वारंवार श्रावयन्ति स्म। स मुनिमुचिं सिंहासनात्पातितवान्, दत्तपूर्वापरसमुद्रपादः स सर्वजन भापयति स्म। ज्ञातवृत्तान्तो महापद्मश्च - की तत्राऽऽयातः, तेन समस्तसङ्केन सुरासुरैश्च शान्तिनिमित्त विविधोपधारः स उपशामितः / तत्प्रभृति विष्णुकुमारस्त्रिविक्रम इति ख्यातः / उपशान्तकोपः स मुनिरालोचितः प्रतिक्रान्तः शुद्धश्च / यत उक्तम् - "आयरिए गच्छमि, कुलगणसंपे अचेइअविणासे।