________________ महापउम 205 - अभिधानराजेन्द्रः - भाग 6 महापउम तस्तत्र गतः नमुचिना भणितम्। भो श्रमणा ! यदि यूयं धर्मतत्त्व जानीथ तर्हि वदथ ? सर्वेऽपि मुनयः क्षुद्रोऽयमिति कृत्वा मौनन स्थिताः, ततो नमुचिर्भृशं रुष्टः सूरि प्रति भणति-एष वयल्लः किं जानाति ? ततः सूरिभिर्भणित, भणामः किमपि-'यदि ते मुखं खर्जति' इदं वचः श्रुत्वा अनेकशास्त्रविचक्षणेन क्षुल्लकशिष्येण भणितम्, भगवन् ! अहमेवैन निराकरिष्यामि इत्युक्त्वा क्षुल्लकेन सवादे निरुत्तरीकृतः। साधूनामुपरि द्वेष गतः, रात्रौ च चरवृत्त्या एकाक्येव मुनिवधार्थमागतो, देवतया स्तम्भितः, प्रभाते तदाश्चर्य दृष्ट्वा राज्ञा लोकेन च स भृशं तिरस्कृतो विलक्षीभूतो गतो हस्तिनागपुरम, महापद्मयुवराजस्य मन्त्री जातः / / इतश्च पर्वतवासी सिंहबलोनाम राजा, सच कोट्टाधिपतिरिति महापड़ादेश विनाश्य कोट्टे प्रविशति. ततो रुष्टेन महापद्येन नमुचिमन्त्री पृष्टः, सिंहवलराजग्रहणे किंचिदुपायं जानासि ? नमुचिनोक्तं सुष्ठ जानामि। ततो महापद्मप्रेरितोऽसौ सैन्यवृतो गतो निपुणोपायेन दुर्ग भङ्कत्वा सिंहबलो बद्ध आनीतश्च महापद्मान्तिके, महापद्मनोक्तम्, नमुचे! यत्तवेष्ट तन्मार्गय 1 नमुचिनोक्तम्, साम्प्रतं वरः कोशेऽस्तु, अवसरे मार्गयिष्यामि, एवं यौवराज्यं पालयतो महापद्मस्य कियान् कालो गतः। अन्यदा महापदामात्रा ज्वालादेव्या जिनरथः कारितः, अपरमात्रा च मिथ्यात्ववासितया जिनधर्मप्रत्यनीकया लक्ष्मीनाम्न्या ब्रह्मरथः कारितो, भणितश्च पद्मोत्तरो नाम राजा, यथा एष ब्रहारथः प्रथम नगरमध्ये परिभ्रमतु, जिनरथः पश्चात्परिभ्रमतु, इदं च श्रुत्वा ज्वालादेव्या प्रतिज्ञा कृता। यदि जिनरथः प्रथम न भ्रमिष्यति तदा परजन्मनि ममाहारः। ततो राज्ञा द्वावपि रथौ निरुद्धौ, महापद्मन स्वजनन्याः परमामधृतिं दृष्ट्वा नगरानिर्गतः कनापि न ज्ञातः, परदेशे गच्छन् महाटव्यां प्रविष्टः / तत्र च परिभ्रमन तापसाऽऽलये गतः, तापसैर्दत्तसन्मानस्तत्र तिष्ठति। इतश्चम्पायां नगा जनमेजयो राजा परिवसति / स च कालनरेन्द्रेण प्रतिरद्धः, रातो महान् संग्रामो बभूव जनमेजयो नष्टः। तस्यान्तः पुरमपीतस्ततो नष्टम्, जनमेजयस्य राज्ञो नागवतीनाम भार्या, सा मदनावलीपुत्र्या समं नष्टा आगता तं तापसाश्रमम् / समाश्वासिता कुलपतिना तत्रैव स्थिता, कुमारमदनावल्योः परस्परमनुरागो जातः, कुलपतिना तन्मात्रा च तयोः परस्परमनुरागो ज्ञातः / कुलपतिना नागवत्या मात्रा च भणिता मदनावली, यथा पुत्रि ! त्वं किं न स्मरसि नैमित्तिकवचनम् ? यथा चक्रवर्त्तिनस्त्वं प्रमिपत्नी भविष्यसि, ततः कथं यत्र तत्रानुरागं करोषि, कुलपतिनाऽपि कुमारस्य विसर्जनार्थमुक्तम्, कुमार ! त्वमितो गच्छ, सदानीं त्वरितमेव ततो निर्गतः कुमारः, एवं मनोरथं चकार। यथाऽहमेलस्याः सङ्गमेन भरताधिषो भूत्वा ग्रामाकरनगररादिषु सर्वत्र जिनभवनानि कारयिष्यामीति भ्रमन कुमारोऽथ प्राप्तः सिन्धुनन्दनं नामनगरम्। तत्रोद्यानिकामहोत्सवे नगरान्निर्गता नरा नार्यश्चविविधक्रीडाभिः क्रीडन्ति। अस्मिन्नवसरे राज्ञः पट्टहस्ती आलानस्तम्भमुन्मूल्य गृहहट्टभित्तिभङ्गं कुर्वन नगरादहियुवतीजनमध्ये समायातः। ताश्च तं तथाविध दृष्टवा दूरतः प्रधावितुमसमर्थाः तत्रैव स्थिताः। यावदसौ तासामुपरिशुण्डापातं | करोति तावता दूरदेशस्थितेन महापद्येन कराझापूर्णहृदयेन हक्कितोऽसौ करी, सोऽपि वेगेन चलितः कुमाराभिमुखम्, तदानीं ताः सर्वा अपि भणन्ति / हाहाऽस्मद्रक्षणार्थ प्रवृत्तोऽयं करिणा हिंस्यते, एवं तासु प्रलपन्तीषु पश्यन्तीषु च तयोः करिकुमा रयो_रः संग्रामो बभूव। सर्वेऽपि नागरजनास्तत्राऽऽयाताः। सामन्तभृत्यसहितो महसेनराजोऽपितत्राssयातः। भणितं च नरेन्द्रेण, कुमार! अनेन समं संग्राम मा कुरु, कृतान्त इव रुष्टोऽसौ तव विनाशं करिष्यतीति। महापद्म उवाच। राजन् ! विश्वस्तो भव, पश्य मम कलामित्युक्त्वा क्षणेन तंमत्तकरिणं स्वकलया वशीकृतवान् आरूढश्चतं मत्तगज महापद्मः, स्वस्थाने नीतवान्, साधुकारेण तं लोको पूजित्वान्। यथा एष कोऽपि महापुरुषः प्रधानकुलसमुद्भवोऽस्ति, अन्यथा कथमीदृशं रूपविज्ञानं चास्य भवति। ततो राज्ञा स्वगृहे नीत्वा कुमारस्य विविधोपचारकरणपूर्वक कन्याशतं दत्तम्, तेन सम विषयसुखमनुभवतस्तस्य महापद्मकुमारस्य दिवसास्तत्र सुखेन यान्ति / तथाऽपि स ता मदनावलिं हृदयान्न विस्मारयति / अन्यदा रजन्या शय्यातोऽसौ वेगवत्या विद्याधा पहुतः, निद्राक्षये सा तेन दृष्टा, मुष्टि दर्शयित्वा सा कुमारेण भणिता, किं त्वमेवं मामपहरसि? तया भणितं कुमार! शृणु वैतान्ये सूरोदयनाम नगरमस्ति।तत्रेन्द्रधनुमि विद्याधराधिपतिरस्ति, तस्य भार्या श्रीकान्ता वर्त्तते, तस्याः पुत्री जयचन्द्रानाम्नी वर्त्तते। सा च पुरुषद्वेषिणी नेच्छति कथमपि वरम् / ततो नरपत्याज्ञया मया सर्वत्र वरनरेन्द्रा विलोक्य 2 पट्टिकायां लिखिताः, सर्वेऽपि तस्या दर्शिता न कोऽपि रुचितः / अन्यदा मया तस्यास्तव रूपं दर्शितम्, तद्दर्शिनानन्तरमेव सा कामावस्थया गृहीता, भणितं च तया, यद्येष भर्ती न भविष्यति तदाऽवश्यं मया मर्त्तव्यम् / अनयपुरुषस्य मम यावज्जीवं निवृत्तिरेव, एष तस्या व्यतिकरो मया तन्मातृपित्रोापितः / ताभ्यां त्वदानयानाय अहं प्रयुक्ता, अविश्वसन्त्यास्तस्या विश्वासार्थ मया इयं प्रतिज्ञा कृता, यद्यहं तं त्वरितं नाऽऽनयामि तदा ज्वालाकुले ज्वलने प्रविशामि। ततः कुमार! यदि तव प्रसादेन मम मरणं न सम्पद्यते, यथा च मे प्रतिज्ञानिर्वाही भवति तथा प्रसादं कुरु / ततस्तदाज्ञया तया महापद्मः सूर्योदये तत्र नीतः ख्चराधिपतिमिलितः। तेन च सुमुहूर्ते तस्याः पाणिग्रहणं कारितः, पूजिता च वेगवति / इतश्च जयचन्द्राया मातुलभ्रातरौ गगाधरमहीधरनामानौ विद्याधरावतिप्रचण्डौ इमं व्यतिकरं ज्ञात्वा अनेकभटसहितौ महापद्मन समं संग्रामार्थमागतौ। महापद्मोऽपि तयोरागमनं श्रुत्वा सूरोदयपुरादहिर्विद्याधरभटपरिवृतो निर्गतः, सलग्नस्तयोः संग्रामः, तदानीं महापद्मन त्यन्दनाः कुञ्जरा अश्वाः सुभटाः परबलसत्काः सर्वेऽपि बाणैर्विद्धाः / भग्नं स्वं बलं दृष्ट्वा गङ्गाधरमहीधरौ स्वयमुत्थितौ, महापद्मन उभावपि हतौ। ततो लब्धजयः स महापद्मः उत्पन्नस्त्रीरत्नवर्जसर्वरत्नः प्राप्तनवनिधिभत्रिंशत्सहस्त्रमण्डलेश्वरसेवितपादपद्मः परिणीतकोनचतुःषष्टिसहस्त्रन्तः पुरो हयगजरथपदातिकोशसंपनोऽष्टमश्चक्रवर्ती जातस्तथापि षट्खण्डभरतराज्यं स मदनावल्या रहित नीरसंमन्यते। अन्यदातस्मिन्नाश्रमपदेगतस्यतस्य महापद्यचक्रिणः तापसैमान् सत्कारः वृत्तः, जनमेजयेनापिराज्ञामदनावलीतस्मैदत्ता, तेनपरिणीता