________________ महापउम 204 - अभिधानराजेन्द्रः - भाग 6 महापउम न्तये यद्ददाति ग्लानेभ्यो वा यद्दीयते, तथा वईलिका-मेघाडम्बर, तत्र हि वृष्ट्या भिक्षा भ्रमणाक्षमो भिक्षुकलोको भवतीति गृहीतमर्थ विशेषतो भक्तं दानाय निरूपयतीति, प्राघूर्णका आगन्तुकभिक्षुका एव, तदर्थ यद्वक्तं तत्तथा, प्राघूर्णको वा गृही स यद्दापयति तदर्थ संस्कृत्य तत्तथा, मूल पुनर्नवादीनां तस्य भोजनं तदेव वा भोजनं, भुज्यत इति भोजनमिति कृत्वा, कन्दः-सूरणादिः, फलं-वुष्यादि, बीजं-दाडिमादीना, हरितमधुरतृणादिविशेषः, जीववधनिमित्तत्वाच्चैषां प्रतिषेध इति। (पंचमहव्वइए इत्यादि) प्रथमपश्चिमतीर्थकराणां हि पञ्च महाव्रतानि शेषाणां महाविदेहजानां च चत्वारीति पञ्चमहाव्रतिकः / एवं सह प्रतिक्रमणेन उभयसंध्यमावश्यकेन यः स तथा, अन्येषा तु कारणजात एव प्रतिक्रमणमिति, उक्तंच सपडिक्कमणो धम्मो, पुरिमस्सयपच्छिमस्सय जिणस्स। मज्झिमयाण जिणाणं, कारणजाए पडिक्कमणं / / 1 / / इति / तथा अविद्यमानानि जिनकल्पिकविशेषाप्रेक्षया असत्वादेव, स्थाविरकल्पिकापेक्षया तु जीर्णमलिनखण्डितश्वेताल्पत्वादिना, चेलानि-वरन्त्राणि, यस्मिन् स तथा / धर्मश्चारित्रं, न च सति चेले अचेलता न लोके प्रतीता / यत उक्तम्जह जलमवगाहंतो, बहुचेलो वि सिरवेढियकडिल्लो। भन्नइ नरो अचेलो,तह मुणओ संतचेला वि॥१॥ अतः परिसुद्धजुन्नकुच्छिय, थोवाऽनिययण्ण-भोगभोगेहिं। मुणओ मुच्छारहिया, संतेहिँ अचेलया होति।।२।। अनियतैरन्यभोगे च सति भोग्यरित्यर्थः / न च वस्त्रं संसक्तिरागादिनिमित्ततया चारित्रविधातायाऽऽध्यात्मशुद्धः शरीराहारादिवदिति / न हि शरीरात् यूकादिसंसक्तिन भवति रागो वा नोत्पद्यते। उक्तं च - अह कुणसि थुल्लवत्था-इएसु मुच्छंधुवं सरीरे वि। अकेज दुल्लभतरे, काहिसि मुच्छ विसेसेणं / / 1 / / इति। अक्रयणीय इत्यर्थः। अध्यात्मशुद्ध्यभावे अचेलकत्वमपि न चारित्राय, यथोक्तम्अपरिगहाविपरसं-तिएसुमुच्छाकसायदोसेहि। अविणिग्गहियप्पाणो, कम्ममलमणंत मजंति।।१।। इति। अथ जिनोदाहरणादचेलकत्वमेव श्रेय इति न वक्तव्यमेतत्, यतोऽभ्यधायिन परोयएसविसया, न य छउमत्था परोवएसं पि। देंतिन य सीसवर्ग, दिक्खंति जिणा जहा सब्वे // 1 // तह सेसेहिं य सव्वं, कजं जइ तेहि सव्वसाहम्म। एवं च कओ तित्थं,न चेदचेल त्ति को गाहो // 2 / / इति। अपिच उचितचेलसद्भावे चारित्रधर्मो भवत्येव तदुपकारित्वाच्छरीराहारादिवदिति, अथ कथं चेलस्य चारित्रोपकारितेति चेत् ? उच्यतेशीतादित्राणतो जीवसंसक्तिनिमित्ततृणपरिहारादिहेतुत्वाद् उक्तं च "तणगहणानलसेवा निवारणा धम्मसुक्कझाणहा। दिटुं कप्पग्गहणं, गिलाणमरणट्ठया चेव / / 1 // " इति। तथा (सेजायरे त्ति) शेरते यस्यां साधवः सा शय्या, तया तरति भवसागरमिति शय्यातरोवसतिदाता, तस्य पण्डिो भक्तादिः शय्यातरपिण्डः, स च असनादिः 4 वस्त्रादिः 4 सूच्यादि 4 श्चेति। तदृग्रहणे दोषास्त्वमीतित्थंकरपडिकुट्ठो, अन्नायं उग्गमो वियन सुज्झे। अविमुत्ति अलाघवया, दुल्लहसेज्जविउच्छेओ।।१।। इति। राज्ञश्चवर्त्तिवासुदेवादेः पण्डिो राजपिण्डः, इदानीमुभयोरपि जिनयोः समानतानिगमनार्थमाह-'"जस्सीलगाहा''-यौशीलसमाचारौ स्वभावानुष्ठाने यस्य स यच्छीलसमाचारस्तावेव शीलसमाचारौ यस्य स तथेति। महापद्मजिनो हि महावीरवदुत्तरफाल्गुनीनक्षत्रजन्मादिव्यतिकर इति। स्था०६ ठा०३ उ०। ति। अरहा णं महापउमे अट्ठ रायाणो मुंडा भवित्ता आगाराओ अणगारियं पव्वावेइस्सति / तं जहा-पउमं पउपगुम्म नलिलं नलिनगुम्म पउमद्धयं धणुद्धयं कण गरहं भरहं (सूत्र-६२५) (अरहा णमित्यादि) सुगम, नवरम् / (महापउमे त्ति) महापद्मो भविष्यदुत्सर्पिण्या प्रथमतीर्थकरः श्रेणिकराजजीव इति / इहैव नवस्थानके वक्ष्यमाणव्यतिकर इति (मुंडा भवित्त त्ति) मुण्डान् भावयित्चेति / रथा०८ ठा०३ उ०। वीरमहापद्मयोरन्तरम् 84007 वर्षाणि 5 भासाः। आव०१ अ० | नं० / पुष्कलावतीविजये पुण्डरीकिणीनगरीराजे पण्डरीककण्डरीकयोः पितरि, आ०म०१अ दर्श०। ('ततलिपुत्त' शब्दे चतुर्थभागे 2352 पृष्ठे कथा) निधिभेदे, दर्श०। आ०चू०। "वत्थाण य उप्पत्ती, णिप्फत्ती चेव सव्वभत्ताणं। रंगाण य धोव्वाण य, सव्वा एसा महापउमे॥५॥" आ०चू०१ अ० ज०। प्रव० स्था०। ति०। महापद्मादयो निधयः / आ०म०१अ० / भारते वर्षे आगाभिन्यामुत्सर्पिण्यां भविष्यति नवमचक्रवर्तिनि, स० / श्रवसर्पिण्यां जाते हस्तिनापुरराजे नवमचक्रवर्तिनि, स०७७ सम० / आव०। प्रव० स्था०। (अयगष्टमचक्रवर्तीति लक्ष्मीवल्लभः) उत्ता चइत्ता भारहं वासं, चक्कवट्टी महिड्डिओ। चइत्ता उत्तमे भोए, महापउमो तवं चरे॥४१॥ हे मुने ! महापद्मोऽपि अष्टमचक्री महर्द्धिकः तपोऽचरत्। किं कृत्वाभारत वासं त्यक्त्वा, पुनरुत्तमान् प्रधानान् भोगान् त्यक्त्वा, पुनरुत्तमान् प्रधानान् भोगान् त्यक्त्वा // 41 // अत्र महापद्मचक्रवर्तिदृष्टान्तः-इहैव जम्बूद्वीपे भारते वर्षे कुरुक्षेत्रे हस्तिनागपुरं नाम नगरम्, तत्र श्रीऋषभवंशप्रसूतः पद्मोत्तरो नाम राजा, तस्य ज्वाला नाम महादेवी, तस्याः सिंहस्वप्नसूचितो विष्णुकुमारनामा प्रथमः पुत्रो, द्वितीयश्चतुर्दशस्वप्नसूचितो महापद्मनामा, द्वावपि वृद्धिं गतो, महापद्मो युवराजः कृतः / इतश्च उज्जयिन्यां नगर्या श्रीधर्मनामा राजा, तस्य नमुचिनामा मन्त्री, अन्यदा तत्र श्रीमुनिसुव्रतस्वामिशिष्यः सुव्रतो नाम सूरिः सवसृतः। तद्वन्दनार्थ लोकः स्वविभूत्या निर्गतः, प्रासादोपरिस्थितेन राज्ञा दृष्टः, पृष्टाश्च सेवकाः। अकालयात्रयाक्वाय लोको गच्छति ? ततो नमुचिमन्त्रिणा भणितम् / देव ! अत्र उद्यामे श्रमणाः समागताः तेषां यो भक्तो लोकः स तद्वन्दनार्थं गच्छति, राज्ञा भणितं वयमपि यास्यामः, नमुचिना उक्तम्- तर्हि त्वया तत्र मध्यस्थेन भाव्यम्, यथाऽहं वादं कृत्वा तान्निरुत्तरीकरोमि / राजा नमुचिसहि