SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ महादेव 165 - अभिधानराजेन्द्रः - भाग 6 महादेव यो वीतरागः स महादेव, उच्यते क्रिया सर्वत्र योज्या। तत्र 'य' इति अनिर्दिष्टनामा, 'वि' इति विशेषेण इतो गतो नष्टो रागःप्रेम यस्य स टीतरागः द्वेषक्षय एव च सति रागक्षयो भवतीति वीतद्वेष इत्यपि दृष्टव्यम्। तथा सर्व समस्त द्रव्यप्रदेशपर्यायरूपं वस्तु जानाति विशेषग्रहणतः समरतावरणक्षयाविर्भूतकेवलसंवेदनावबुध्यत इति सर्वज्ञः। सर्वज्ञत्वायभिचरितत्वात्सर्वदर्शितवस्येति सर्वदर्शीत्यपि दृश्यम्। ननु रागद्वेष- | मोहाभावः प्राक् प्रतिपादित एव, तत्प्रतिपादने च वीतरागत्वरार्वज्ञत्वे अवगते एव तत्स्वरूपत्वादेतयोरिति, किमिह धीतरागसर्वज्ञत्योपादानेनति ? अत्रोच्यते-यत एव रागादयो न सन्त्यत एव वीतरागः सर्वज्ञश्च, यत इत्येवं हेतुफलभावेन मलक्षयात्पीतवर्णप्रकर्षवत्कनकमित्यादिन्यायेन गुणातिशयविवक्षणाददोषः, एवंविधन्यायस्य वाक्येषु सद्भिस्तत्र तत्राऽऽश्रितस्य दर्शनाचेति / अथवा-कैश्चिद्वैराग्यज्ञानादयः प्राकृता इष्यन्ते, तेच कैवल्यावस्थायां प्रकृतेर्वियुक्तत्वाद्विनिवर्तन्ते इति, तन्मतव्यपोहार्थत्वाददोषः। तथाहि-ज्ञानवैराग्यादयश्चैतन्य-स्वभावाः, चतन्य चत्मनो रूपम्- "चैतन्य पुरुषस्वरूपम्" इति वचनादिति कथं तन्निवृत्तिः अन्ये पुनराचार्याः-"यस्य संक्लेशजनन'' इत्यादि श्लोकद्वयमर्हच्छास्थावस्थामश्रित्य व्याख्यान्ति / यतः संक्लेशजननानि नागादिविशेषणानि तस्यामेवावस्थायां व्यवच्छेद फलानि भवन्ति / तथाहि रास्य संक्लेशजनन एव रागो नास्ति, शमेन्धनदवानल एव च द्वषः, सज्ज्ञानाच्छादनाशुद्धवृत्तकारक एव च मोहो नास्ति, न पुनः सत्तगततत्कर्भदलिकरूपोऽपि स महादेव इति। "यो वीतराग'' इत्यादि तु भवस्थकेयलिनमाश्रित्येति। ननु महत्त्वं छमस्थावस्थायामनुचितं ततो महत्तरावस्थान्तरस्य सद्भावात् ? नैवम्- एवं हि सिद्धत्वलक्षणस्य महलमावस्थान्तरस्य सद्भावात् केवलिनोऽप्यमहत्त्वप्रसङ्ग इति। अन्यथा वा कथंचिदपौनरुक्तयं भावनीयम् / इह च वीतरागग्रहणेन सरागादीनां नहादेवत्वप्रतिषेध उक्तः। तत्र चभावना प्रागुपदर्शिता। सर्वज्ञ इत्यनेन च कपिलस्य महादेवत्वमपाकृतं, तस्य च तन्मतेनैव सर्वज्ञत्वासंभवात। तथाहि-''बूद्ध्यध्यवसितमर्थं पुरुषश्चेतयते'' इति तन्मतम्। बुद्धश्च प्रकृतिविकारतया कैवल्यावस्थायां प्रकृतिनिवृत्तौ, निवृत्तित्वात्पदार्थमात्रदेतनाऽपि तस्य न स्यात, किं पुनः सर्वज्ञत्वम्। न चैष पक्षो ज्यायान्, पंतनात्मकपुरुषाभ्युमगमे हि चेतनाव्याघातकारिप्रकृतिवियोगे पुरुषस्य सर्वज्ञत्वेनैवाभ्युपगन्तुं युक्ततवादिति / तथा अनेनैव च बुद्धस्थापि महादेवत्वं किंचिज्ज्ञानतवातन्निवारितम् / यदाहुस्तच्छिष्यकाः-सर्व घश्यतु वा मावा, इष्टमर्थ तुपश्यतु। कीटसंज्ञापरिज्ञानं, तस्य नःक्कोपयुज्यते।।१।।" इति। किं च किंचिज्ज्ञत्वमपि तस्य न घटते, एकास्याप्यर्थभ्य सकलस्वपरपर्यायविशेषितस्यासर्वज्ञत्वेन ज्ञातुमशक्यत्वात्। यत आह-''एको भावः सर्वथा येन दृष्टः, सर्वे भावाः सर्वथा तेन दृष्टाः / सर्व भावाः सर्वथा येन दृष्टाः, एको भावः सर्वथा तेन दृष्टः / / 1 / / " अथ सर्वज्ञान संभवत्येव सत्तासाधकप्रमाणाग्राह्यत्वात, तस्य शशविषाणवत। यदाह-"सर्वज्ञोऽसाविति ह्येतत्तत्कालैरपि बोद्धभिः / तज्ज्ञानाय- | विज्ञान-शून्यज्ञातुं न शक्यते॥१॥” इति ? नैवं सत्तासाधकप्रमाणाग्रा- | ह्यत्वस्यासिद्धत्वादाह च-तथाहि-ये अपचयधर्माणस्ते अत्यन्तक्षयिणोऽपि संभवन्ति यथा सामग्रीविशेषाद्वस्त्ररत्नमालादयः, अपचयधर्मकाश्च ज्ञानावरणादयोऽतः सर्वथा क्षायिणोऽपि संभवन्तीति, तेषां चात्यन्तापचये सर्वज्ञत्वादयो भवन्त्येव। न च ज्ञानावरणादीनामपचयधर्मत्वमसिद्ध स्वसन्तानेऽपि ज्ञानादेरुपचयविशेषानुभूत्या तदावरणापचयविशेषस्य सिद्धिरिति / उक्तं च-"दोषावरणयोहानि-निःशेषास्त्यतिशायनात् / कृचिद्यथा स्वहेतुभ्यो, बहिरन्तर्मलादयः।।१।।" तथा-यएते बन्धमोक्षपरलोकादयोऽतीन्द्रियभावास्ते कस्यापि प्रत्यक्षाः अनुमानगोचरत्वाद्, यथाऽनयादय इति। उक्तं च-"सूक्ष्मान्तरितदूरार्थाः, प्रत्यक्षाः कयचिद्यथा। अनुमेयत्वतोऽग्नयादिरिति सर्वज्ञसं स्थितिः॥१॥" इति। एवं च तज्ज्ञानज्ञेयविज्ञानशून्यैरप्यनुमानेनाऽवगम्यते असावचतुर्वेदिना चतुर्वेदीवेति। तथा' यः शाश्वतसुखेश्वरः' क्रिया पूर्ववत्, पुनर्यच्छब्दोपादानमवथाविशेषोपदर्शकम् / अयमभिप्रायो, वीतरागत्वं सर्वज्ञत्वं च रागादिक्षयादाविर्भूतं भवस्थकेवलाद्यवस्थायां महत्त्वकारणं, शाश्वतसुखेश्वरत्वादि तु विशेषणत्रयं भवातीतावस्थायां महत्त्वकारणमिति / तत्र शश्वन्नित्यं भवतीति शाश्वतम्, तच तत्सुखं च निर्वाणजनितानन्दरूपम्, अपरस्यशाश्वतत्वानुपपत्तेरिति शाश्वतसुखम्। तस्येश्वरः स्वामी, स्वयं तत्प्राप्तत्वाच्छाश्वतसुखेश्वरः। ननु सर्वस्यापि वस्तुनः क्षाणिकत्वात्कथं सुखस्य शाश्वतत्वम् ? अत्रोच्यते-न हि सर्वथावस्तुनः क्षणिकत्वमुत्पादविनाशधौव्यरूपत्वात्। इह च बहु वक्तव्यं तत्तु पञ्चदशाष्टकादवसेयमिति / न च तथाभूतसुखस्यासंभव एव, सुखावरणस्यापचयदर्शनेनात्यन्तिकस्यापि तदपचयस्य संभाव्यमानत्वादिति च पूर्वमुक्तप्रायमिति, अनेन च विशेषणेन प्रतिक्षणक्षयाघ्रातवतुवादिपरिकल्पितदेवस्य न महत्त्वम्, तन्मतेन एवंविधसुखाद्यभावात्, तदभावेच महत्त्वव्युदासः। तस्य कल्पनामात्रत्वादिति / तथा क्लिष्टाः क्लेशस्वरूपभवहेतुत्वेन क्लेशिकाः, याः कर्मकलाः-ज्ञानावरणाद्यष्टप्रकारकर्माशास्तेभ्योऽतीतोऽपेतो यः स क्लिष्टकर्मकलातीतः / अनेन च ये मन्यन्ते-"ज्ञानिनो धर्मतीर्थस्य, करिः परमं पदम्। गत्वा गच्छन्ति भूयोऽमि, भवं तीर्थनिकारतः।।१।।" इति। तत्समतदेवस्य महत्त्वव्युदासः / क्लिष्टकर्मकलाभावे हि भवावतारासंभावाद्। आह च-"अज्ञानपाशुपिहितं, पुरातनं कर्मबीजमविनाशि। तृष्णाजलाभिषिक्त, मुञ्चति जन्मान्तर जन्तोः" ||1|| अशुभस्वरूपभवावतारिणश्च स्वकीयतीर्थनिकारासहिष्णोः प्राकृतस्येव कीदृशं महत्त्वमिति।तथा सर्वथा सर्वैः प्रकारैः निष्कलंः सर्वशरीरावयवविरहितस्तदभावे हि सुखसंभवो, यदाह-शरीरमनसोरभावेदुःखाभावः, शरीरत्वेन च दुःखसंभवे कीदृशं महत्त्वम्। अनेन च यच्छरीरतोऽस्य महत्त्वं प्रतिपन्नाः "विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतः'' इत्येतस्य वाक्यस्य श्रूयमाणार्थाभ्युपगमात्तन्मतं व्युदस्तम्, एवंविधस्यासंभवात्, तदसंभवश्च विश्वस्य सर्वतश्चक्षुषैव व्याप्तत्वात्तदन्येषामवयवानामनाधारत्वेनाभावप्रसङ्गात, तैरेव वाक्यान्तरेणान्यथाविधस्य महत्तवाभिधानेन स्वमतविरोधाच आह च-"अपाणिपादोजवनो गृहीता, पश्यत्यचक्षुः स शृणोत्यकर्णः / स वेत्ति विश्वं न च तस्य वेत्ता, तमाहुरग्रयं पुरुष महान्तम्" ॥१॥अन्येतुव्याख्यान्ति-'क्लिष्टकर्मकलातीतो' वातितवाति
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy