________________ महादेव 164 - अभिधानराजेन्द्रः - भाग 6 महादेव वन्तश्चेदम्, 'पूर्वकाले सदा स्तब्धमासीदितस्तु भोगार्थित्वे एव स्तब्धीभविष्यतीति' ततो जना अपि लिङ्गवन्तो जाताः प्रजोत्पत्तिश्चेति / "सूर्योऽप्युल्लिखित इति'' एतदेवं, किल सूर्यस्य रत्नादेवीनामा भार्याऽऽसीत्तस्याश्च यमाभिधानः पुत्रोऽभूत् / सा च आदित्यतापमसहमाना स्वकीयस्थाने स्वप्रतिच्छायां व्यवस्थाप्य समुद्रतटे गत्वा वडवारूपेण तिष्ठति स्म। प्रतिच्छाया च शनैश्चरभद्राभिधाने अपत्ये जनितवती। अन्यदा यमेन बहिस्तादागतेन भोजन याचिता प्रतिच्छाया, सा तु तन्नदत्तवती।ततः कोपात्तेन पाणिप्रहारेण प्रहता, तया च तत्पादः शापेन क्षयीकृतः / तेन च पितुस्तन्निवेदितम्, सोऽप्यचिन्तयत् / कथ स्वमातैवं करोति। ततो नूनं नेयमस्य मातेत्यालोचयता दृष्टा तन्माता वडवारूपा। ततः सूर्यस्तत्र गत्वा तामनिच्छन्तीमपि बलादेव बुभुजे। तत्र च रोषारुणनयनावलोकने नाऽसौ कुष्ठीकृतः / ततश्च सूर्यो निरुजार्थ धन्वन्तरिमुपतस्थौ। स चोवाच / न शरीरोल्लेखनं विना तव प्रगुणताऽस्ति, ततः सूर्येण तनूल्लेखनार्थ देवर्द्धकिरभ्यर्थितः / स उवाच, सहिष्णुना भवितव्यं, नो चेत्त्यक्ष्यामि त्वाम्, तेनोक्तमेवमस्तु / ततो मस्तकादारभ्य जानुनी यावदुल्लेखने कृते गाढ़ पीडितेन सूर्येण सीत्कारः कृतः। तत उल्लेखनादसौ विररामेति। एवमनिच्छद्योषिद्मोगलक्षणात् पुरुषमार्गस्खलनादसौ विपदं प्राप्तवानिति / अन्ये पुनरित्थमाहुः / वडवारूपां स्वभार्यामुपभुज्य तत्पितुरुपालम्भं दत्तवान् यथेयं त्वद्दुहिता मां विहायाऽन्यत्र तिष्ठति / स उवाच / त्वच्छरीरतापमसहमाना किं करोत्वियं वराकी। ततो यद्यनया ते प्रयोजनं ततः शरीरमुल्लेखय, ततः सूर्यो देववर्द्धकिमुपतस्थौ। शेषं तथैव। 'अनलोऽप्यखिलभुक् एवमुच्यते, किल-कश्चिदृषिः स्वकीयोटजावस्थितं वैश्वानरं भक्तिभरणाहुतिभिः पूजयति स्म / स चान्यदा मदीयभार्या भवता रक्षणीयेत्यभिधाय प्रयोजनेन बहिर्गतः / ततः केनचिदृषिणाऽऽगत्य वैश्वानगरसमक्षमेव सोपभुक्ता, क्षणान्तरे समागतोऽसौ, तेन चेगिताकारनिपुणतया परपुरुषसेवितेति लक्षिताऽसौ / पृष्टश्च तेन वैश्वानरः, सा च, यथेह कः समागत आसीत्ततस्तौ न किंचिदूचतुः। ज्ञानोपयोगेन च ज्ञातोऽसावुपपतिस्तेन, ततो रक्षणीयस्यारक्षणात् पृच्छतश्चानिवेदनात् कुपितोऽसौ वैश्वानरं प्रति सर्वभक्षको भवत्वेवंशापंच दत्तवान्। ततश्चाशुच्यादेरप्यसौ भखणस्वभावो जातो, यच किल वैश्वानरो भुङ्क्ते तत् सर्व देवानामुपतिष्ठति, मुख ह्यसौ देवानाम्, ततश्च देवैरशुच्यादिरसास्वादनादुद्विगनैज्ञनिनोपलब्धशापव्यतिकरैरागत्य स मुनिः प्रसादयितुमारेभे / न चासौ प्रससाद, तथापि देवानुवृत्या वैश्वानरस्य सप्त जिहाः कृताः। ततोऽसी सप्ताZिरुच्यते। तत्र द्वाभ्यामाहुतीरेवासौ भुङ्क्ते ताश्च देवानाममृतत्वेनोपतिष्ठन्ति / पञ्चभिस्तु सर्वभक्षक एवावस्थापित इति!'सोमः कलाडित इति तत् पुनरेवं, किल-चन्द्रे बृहस्पतिसमीपेऽध्येतुंगतो देवाचार्यत्वात्तस्य तेन च तद्गृहेऽधीयमानेन तद्भार्योपभुक्ता, ज्ञातं च तद् बृहस्पतिना, शापितश्चासौ तेन, यथा-रे गुरुतल्पग ! कलङ्गिना कालं भवितव्यमिति। स्वर्नाथी भगसहस्त्र संकुलतनुः पुनरेव संवृत्तः। किलगौतममुनेरहिल्यानामा भार्या बभूव, तद्रपाक्षिप्तचेताः सुरपतिस्तदुटजे प्रविश्य तां रेमे, बहिश्च समागतो मुनिः / सोऽपि तद्यान्मार्जाररूपं कृत्वा तदगृहान्निर्गत्य स्वर्ग गतवान् / मुनिस्तु नायं प्राकृतो विडालः, ततः कोव्यमिति पर्यालोचयन्निन्द्र ज्ञातवान्। ततः कोपादसाविन्द्रदेहे भगसहस्त्रं शापेन विहितवान्, स्वच्छान्नांश्च तदुपभोगाय प्रेषितवान् / मुनिस्तु न ययौ, देवस्त्वसावृषिः प्रसादितस्तेन च भगा लोचनीकृता इति। 'ब्रह्मा चतुर्मुख' एवं जातः, किल-ब्रह्मा महोद्याने तपस्यति, ततक्षोभणार्थं च रूपस्य तिल तिलमादाय कृता तिलोत्तमा, अतस्ता प्रेषयामास / अन्याश्च तस्य समाधिध्वंसनाय पूर्वाभिमुखस्थितस्याये गीतनृत्याधुपचारं चक्रुः / तत्राक्षिप्तलोचनमानसं वीक्ष्य दक्षिणतो गत्वा तथैव ताः चक्रुः / स च ध्वस्तसमाधिरपि लज्जामानाभ्यां तदभिमुखो भवितुमशक्नुवंस्ताः प्रति द्वितीयं मुखं कृतवान्, एवमपरस्यां दिशि गतासु तृतीयमुत्तरतो गतासु चतुर्थमुपरिच गतासुपञ्चमं गईभमुखम, एवं पञ्चमुखः संजातः / शम्भुना च गर्दभशिरसि च्छिन्ने चतुर्मुखं इति / हरिस्तु वामन एवं, किल-बलेनिवस्य बन्धनार्थ विष्णुमिनो भूत्वा मठिकानिमित्त पदयमात्रां भुवं तमेव याचितवान्। बलिना च प्रतिपन्ने तहाने पदत्रयेण त्रिलोकमाक्रम्य स्थानवर्जितं तं पाताले तिहितवानिति। क्षयी चन्द्रमाः केथमत्रोच्यते, किलदक्षस्य सप्तविंशतिर्दुहितरस्ताश्चचन्द्रेण परिणीताः, तासु च मध्ये रोहिण्यामसाक्तोऽसौ शेषाभिस्त्वपमानिताभिः पितुर्निवेदितम्, तेन कुपितेन शापात्क्षयी कृतोऽसौ पुनर्देवैः प्रसादितेन चानुग्रहादेकत्र पक्षे वृद्धिमानिति। नागाः पुनरेवं द्विजिह्वाः किल देवः क्षीरसमुद्रमथनादमृतमुत्पादित, तस्य च कुण्डानि भृतानि दर्भश्चाच्छादितानि सप्पास्तद्रक्षणे नियुक्ताः, तत एकान्तमाकलय्य तैस्त पातुभारब्ध, दर्भश्च तजिह्वा द्विधाकृताः। अन्ये त्याहुः अमृतपानभृताना तेषामिन्द्रेण वज्रक्षेपात् जिह्वाभेदो विहित इति। 'राहोः शिरोमात्रता' पुनरेवम्, देवैः किलामृतस्य कुण्डानि भृतानि, विष्णुश्च तद्रक्षायां नियुक्तः / ततश्च कार्यान्तरव्याक्षिप्तस्य तदाहुणा पातुमारब्धं, विष्णुना चनं तथा वीक्ष्य चक्रक्षेपेण तच्छिरच्छेदः कृतः, पीतामृतत्वात्तच्छिरोऽजरामरं संवृत्तमिति / व्याख्यातं ब्रह्मा लूनाशिरा' इत्यादि वृत्तद्वयमिति / तथास एष भुवनत्रयप्रथितसंयमः शङ्करो, विभर्ति वपुषाऽधुना विरहकातरः कामिनीम्। अनेन किल निर्जिता वयमिति प्रियायाः कर, करेण परिताडयन् जयति जातहासः स्मरः / / 1 / / तथादिग्वासा यदि तत्किमस्य धनुषा शस्त्रस्य किं भस्मना। भस्माऽथाऽस्य किमङ्गना यदि च सा कामं परिद्वष्टि किम्।। इत्यन्योन्यविरुद्धचेष्टिमिद पश्यन्निजस्वामिनो, भृङ्गी सान्दशिरावनद्धपरुषं धत्तेऽस्थिशेषं वपुः / / 1 / / एवमपायापगमातिशयद्वारेण महादेवत्वमुक्तमथगुणातिश्यादि प्रतिपादनतस्तदेवाऽऽहयो वीतरागः सर्वज्ञो, यः शाश्वतसुखेश्वरः / क्लिष्टकर्मकलातीतः, सर्वथा निष्कलस्तथा / / 3 / / यः पूज्यः सर्वदेवानां, यो ध्येयः सर्वयोगिनाम् / यः स्रष्टा सर्वनीतीनां, महादेवः स उच्यते / / 4 / /