SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ महादेव 163 - अभिधानराजेन्द्रः - भाग 6 महादेव मर्थसकलपुरुषचक्रचूडामणेः पूरुषविशेषस्य।यदाह-"रागद्वेषमहामोहः, कदर्थितजगज्जनैः / नाभिभूतं मनो यस्य, महिम्ना तस्य कः समः" दिवक्रीडाविजिगीषाव्यवहारद्युतिस्तुति-मोदमदकान्तिस्वप्नगतिष्विति वचनाद्दीव्यते स्तूयते इति देवः स्तवनीयः। स च प्रेक्षावतामसाधारणगुणगणमाणिक्यमकरनिकेतनायमानत्वेन महानेव स्तवनीय इति / महाश्चासौ देवश्चेति महादेवः। स-इति असावेवोच्यते अभिधीयते, नहादेवस्वरूपवेदिभिर्न पुना रागादिरिपुपराकृतपराकम इति / अथ सर्वप्राणिना रागादिमत्त्वोपलब्धेन सर्वथा तदभावः कस्यापि सम्भवतीति ? नैवं सर्वप्राणिनामनुपलब्धेः प्रतिनियतप्राण्युपलब्धेश्च व्यभिचारित्वात् / किं च स्वात्मन्यपि क्वचिद्विषयविशेषे रागाद्यभावदर्शनात, कस्यापि सार्वदिकः सार्वत्रिकः सर्वथा च रागाद्यभावो भवन्न विरुध्यते। आह च-"दृष्टो रागाद्यसद्भावः, कृचिदर्थे यथाऽऽत्मनः / तथा सर्वत्र कस्यापि, तद्भावे नास्ति वाधकम् ||1||" तथा रागादयो भावाः सम्भाव्यमानसर्वथाक्षयाः देशतः क्षयोपलब्धेः, ये पौद्गलिकभावा अल्पबहुबहुतरादिक्षयेण देशतः क्षयवन्तस्ते सर्वतः क्षयवन्तोऽपि दृष्टाः, यथा रविकरावारिका घनपतयः देशतः क्षयवन्तश्च रागादयोऽतः संभाव्यमानसर्वथाक्षया इति / आह च-"देशतो नाशिनो भावा, दृष्टा निखिलनश्वराः / मेघपक्तयादयो यद-देवं रागादयो मताः" / / 1 / / अथ संभवत्यप्यात्यन्तिकरागाद्यभावे तस्य चित्तवृत्तिरूपत्वेन दुर्विज्ञेयत्वाकथतद्वान् पुरुषविशेषोऽवगन्तव्य ? इति, अत्रोच्च्यते-तस्य स्वरूपाचरिताच / तथाहि-यस्य रूपमत्कामिनीकामनायुधमनक्षमाल चरितं च शुद्रारादिरसापरिकरितमेकान्तशान्तरसानुरजितजेयान्तरारिजयवनासमञ्जसं च स एवासाविति प्रतिपत्तव्यम्। यदाह"रागोऽगनासङ्गमनानुमेयो, द्वेषां द्विषद्दारणहेतिगम्यः। मोह : कुवृत्तागमदोषसाध्यो, नो यस्य देवः स स चैवमर्हन् / / 1 / / शृङ्गरादिरसाङ्गार-र्न दूनं देहिनां हितम्। एकान्तसान्ततोपेत-मार्हतं वृत्तमद्भुतम्।।२।।" देवतान्तराणां तु रागाद्यभावानुचितरूपचरितत्वं सुप्रसिद्धमेव / तथाहि हा लूनशिरा हरिदृशि सरुक् व्यालुप्तशिश्नो हरः, सूर्याऽप्युल्लिखितोऽनलोऽप्यखिलभुक् सोमः कलङ्काङ्कितः / सव थोऽपि विसंस्थुलः खलु संस्थैरुपस्थैः कृतः, भन्मार्गस्खलनाद्भवन्ति विपदः प्रायः प्रभूणामपि / / 1 / / तथा"यद् ब्रह्मा चतुराननः समभवद्देवो हरिमिनः, शको गुहासहस्रसंकुलतनुर्यच्च क्षयी चन्द्रमाः। यजिह्वादलनामवापुरहयो राहुः शिरोमात्रता, तृष्णे ! देवि ! विडम्बनेयमखिला लोकस्य युष्मत्कृता // 2 // " तथा 'ब्रह्मा लूनशिरा'' इत्येतत्कथमत्रोच्यते-किलैकदा त्रयस्त्रिंशदेवकोट्यो मिलिताः, तत्र चते परस्परं मातापितृवर्णनं कुर्वन्ति स्म। तत्र च तैरुक्तनहो महेश्वरस्य न ज्ञायते मातापितराविति, न तावस्य बभूव तुरिदं च देववचनमुपश्रुत्य ब्रह्मणः पञ्चममुखेन गर्दभमुखाकारेण समत्सरमभिहितम्, यदुत मय्यपि सर्वपदार्थज्ञातरि जीवति सति क एवं युवते, तथा महेश्वरस्य पितरौ न ज्ञायते, यतोऽहं जानामि / ततः स तस्य तौ वक्तुमारेभे। ततो महेश्वरेणप्रकाश्यप्रकाशनारम्भकुपितेन कनिष्ठिकानखशुक्तिकरवालव्यापारणेन निखिलसुरसमूहसमक्षं झटिति निकृत्तं तद् ब्रहाणो गईभशिर इत्येवं ब्रह्मा लूनशिराः। अन्ये त्वाः। किल-ब्रह्मवासुदेवयोरात्ममहत्त्वविषयो विवादः समजनि। विवदन्दौ च तौ महादेवमुपस्थितौ। महादेवेन चाभिहितावलं भवतो विवादेन, य एव मदीयलिङ्गस्यान्तं लभते स एव युवयोर्महांस्तदन्यस्त्वितर इति। ततो वासुदेवो लिङ्गस्यान्तोपलम्भनार्थमधस्ताद्गतवान्, स च प्रभूतं यावन्महावेगेन गत्वाऽपि अप्राप्ततदन्तः पातालवज्राग्निना च गन्तुमशक्तस्तत्सन्तापादेव च कृष्णीभूतशरीरः प्रतिनिवृत्य महादेवान्तिकमाजगाम, निवेदितवाश्च यथा नास्ति भवल्लिङ्गस्यान्त इति / ब्रह्मा तूपरिष्टात्तथैव गतोऽप्राप्ततदन्तश्च निर्विण्णो लिङ्गमस्तकान्निपतन्तीं मालामासादितवान् / तां चासौ पप्रच्छ, कुतो भवतीति। तयोक्तं महेश्वरलिङ्गमस्तकात्। कियांश्च ते कालः / ततः समागच्छन्त्या तयोक्तं षण्मासाः / ततो ब्रह्मणोक्तमहं लिङ्गतोपलम्भाय प्रस्थितः किं तु भवत्या यो मार्गः षडभिर्मासरैतिक्रान्तस्तस्यातिबहुत्वान्निर्विण्णोऽहं निवर्तिष्ये। ततो महादेवपृष्टया त्वया साक्ष्य दातव्यम्। तयाऽपि प्रतिपन्नं ततस्तां गृहीत्वा शम्भुसमीपमाजगाम। समापगत्य चोक्तवान्, लब्धो मया लिङ्गान्तः / एषा च संप्रत्ययार्थ ततो माला मयाऽऽनीता / ततः पृष्टाऽसौ, तयाऽप्युक्तमेवमेतत्ततोऽनन्तमपि मल्लिङ्ग सान्तं व्ववस्थापयत एतावित्यसद्धतभाषणकुपितेन शम्भुना कनिष्ठिकानखकुठारेण ब्रह्मणो गहभशिरो लूनम्, माला त्वस्पृश्यतया शापितेति / "हरिदृशि सरुक," इत्येतदेवं श्रूयते / किल-दुर्वासा महर्षिरुर्वशी कामितवान, तया चासावुक्तः / यद्यपूर्वेण यानेन त्वं स्वर्गे समागच्छसि ततोऽहं भवन्तमिच्छामि, तेन च प्रतिपन्नमेतत् / गत वांश्चासी वासुदेवसमीप, कृता च तेन तस्य प्रतिपत्तिः / पृष्टश्च तेनाऽऽगमनकारणम्, उक्तं च तेन स्वर्गेऽहं गन्तुमिच्छामि। ततो भवता स भार्येण गोरूपधारिणा रथारूढोऽह स्वर्गे नेतव्यो, न च गच्छता पश्चाद्भागो निरूपणीयः / प्रतिपन्नच तथा तद्भक्तिभयाभ्यां वासुदेवेन, नेतुं च प्रवृत्तः / ततः स्त्रीत्वात्तथाविधगमनशक्तिविकला लक्ष्मी प्राजनकदण्डेन मुनिः पुनः पुनः प्रणुणोद, तच्च स्नेहादसहमानेन वासुदेवेन तदभिमुख निभालित, तेन च प्रतिपन्नवैतथ्यकारित्वात् कुपितेन वासुदेवो लोचने प्राजनकदण्डेन प्रणोदित इत्येव हरिर्लोचने सरोगः संवृत्त इति / अन्ये त्चाहुः-किलैकदा वासुदेवः सरितटे तपस्यति स्म।तत्र चतापसी काचित् स्नाति स्म। तेन च तस्या निरावरणाया अङ्गेषु सकामा दृष्टिर्निवेशिता। तयाऽपि च लक्षितोऽसौ, ततः शापेन सरोगलोचनः कृत इति। 'व्यालुप्तशिश्नो हर' इत्येतत्पुनरेवं, किलदारुवनाभिधाने तपोवने तापसाः परिवसन्ति स्म। तदुटजेषु च भिक्षार्थं महेश्वरो गृहीतसमस्तस्वकीयालङ्कारोघण्टाटवारतुम्बुरुझङ्काररवमुखरितदिक्चक्रवालः समागच्छति।तापसीश्च स्वदर्शनजनिकामविकाराः परिभुङ्क्ते स्म, ततोऽन्यदा ऋषिभिविज्ञातम्, तथाविधव्यतिकरैः कोपातिरेकाच्छापेन तल्लिङ्गस्यच्छेदः कृतः / तत्र च निखिलजनानां तच्छेदोऽभवत् प्रजानुत्पत्तिश्च। ततो देवैरकाल एवं संहारोमा भूदिति तापसाःप्रसादितास्तेच लिङ्गं तथैव चक्रुः / उक्त
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy