SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ महल्लउहंग 181 - अभिधानराजेन्द्रः - भाग 6 महव्वय महल्लउहंग न० (महोहाङ्ग) महाऽटटशतसहस्त्ररूपायां संख्यायाम. ज्यो०२ पाहु०। ('काल' शब्दे 3 भागे स्फुटीभूतम्) महल्लग त्रि० (महत) ज्येष्ठ, ''महल्लग वा वृद्ध वा'' दश०५ अ०३ उ० / आ०म० / आचा०। महल्लियदुवारिया स्त्री० (महाद्वारिका) बृहद्वारायां वसती, आचा०२ श्रु०१ च०१ अ०२ उ०। महल्लियाविमाणपविभत्ति स्त्री० (महाविमानप्रविभक्ति) महा ग्रन्थार्थे विमानप्रविभक्तयाख्ये ग्रन्थे, स्था०१० ठा० / पा०। महव्वय न० (महाव्रत) महान्ति-बृहन्ति च तानि व्रतानि च नियमतो महाव्रतानि। महत्त्वं चैषां सर्वजीवादिविषयत्वेन महाविषयत्वात्। पा०। सूत्र० / नं०11०ा आव०। आचा० / महच तव्रतं च महाव्रतम्, महत्त्वं चास्य श्रावकसम्बन्ध्यणुव्रतापेक्षयेति / सर्वथा हिंसात्यागेषु, ध०३ अधि० आचा०॥प्राणातिपातादिनिवृत्तिलक्षणेषु, आव०४ अ०। प्रव०। स्था० पंच महब्वया पण्णत्ता / तं जहा-सव्वाओ पाणाऽइवायाओ वेरमणं, सव्वाओ मुसावायाओ वेरमणं० जाव सव्वाओ परिग्गहाओ वेरमणं / (सूत्र-३८६) (मंच महव्वयेत्यादि)"पञ्चेति" संख्यान्तरव्यवच्छेदस्तेन न चत्वारि प्रथमाश्चिमतीर्थयाः पञ्चानाभेव भावात्, महान्ति बृहन्ति तानि च तानि व्रतानि च-नियमा महाव्रतानि। महत्त्व चैषां सर्वजीवादिविषयत्वेन महाविषय वात्। उक्तं च-"पढमम्मि सव्वजीवा, बीए चरिमे य सव्वदच्वाइं। सेसा महव्वया खलु, तदेकदेसेण दवाणं" / / 1 / / इति / तेषां द्रव्याणमेकदेशनेत्यर्थः। तथा-यावजीवं त्रिविध त्रिविधेनेति प्रत्याख्यानरूपत्वाच तेषानिति / देशविरतापेक्षया महतो वा गुणिनो व्रतानि महवतानीति, पुंलिङ्गनिर्देशस्तु प्राकृतत्वादिति / प्रज्ञप्तानितथाविधशिष्यापेक्षया प्ररूपितानि महावीरेण आद्यतीर्थकरेण च न शेषरित्येतत् किल सुधर्मस्वामी जम्बूस्वामिनं प्रतिपादयामास / तद्यथा-सर्वस्मात्- निरवशेषात्त्रसस्थावरसूक्ष्मबादरभेदभिन्नात्: कृतकारितानुमतिभेदाचेत्यर्थः / अथवा-द्रव्यतः षड्जीवनिकायविषयात्, क्षेत्रतस्त्रिलोकसम्भवात. काललोऽतीतादे राज्यादिप्रभवाद्वा, भावतो रागद्वेषसमुत्थाचन तु परिस्थूरादेवेति भावः / प्राणानामिन्द्रियोच्छवासायुरादीनामतिपातः प्राणिनः सकाशाद्विभ्रंशः प्राणातिपातः, प्राणिप्राणवियोजनमित्यर्थः / तस्माद्विरमणम् सम्यग्ज्ञानश्रद्धानपूर्वक निवर्त्तनमिति। तथा सर्वस्मात् सद्भावप्रतिषेधा 1 ऽसद्भावोद्भावना 2 ऽर्थान्तरोक्ति 3 गाभेदात् 4 कृतादिभेदाच्च / अथवा-द्रव्यतः सर्वधर्मास्तिकायादिद्रव्यविषयात्. क्षेत्रतः सर्वलोकालोकगोचरात्, कालतोऽतीतादे रात्र्या दिवर्तिनो वा, भावतः कषायनोकषायादिप्रभवापत् / मृषा अलीकं वदनं मृषावादस्तस्माद्विरमणं विरतिरिति, तथा सर्वस्मात् कृतादिभेदात्। अथवा-द्रव्यतः सचंतनाचेतनद्रव्यविषयात्, क्षेत्रतो ग्रामनगरारण्यादिसम्भवात्, कालनोऽती तादे रात्र्यादिप्रभवाद्वा, भावतो रागद्वेषमोहसमुत्थात् / अदत्तं | स्वामिना अवितीर्ण तस्याऽऽदानं ग्रहणमदत्ताऽऽदनं तस्माद्विरमणमिति, तथा सर्वस्मात् कृतकारितानुमतिभेदाद, अथवा-द्रव्यतो दिव्यमानुषतैरश्चभेदात रूप-रूपसहगतभेदाद्वा / तत्र रूपाणि निर्जीवानि प्रतिमारूपाण्युच्यन्ते, रूपसहगतानितु सजीवानि। भूषणविकलानि वा रूपाणि, भूषणसहितानि रूपसहगतानीति। क्षेत्रतस्त्रिलोकसम्भवात्, कालतोऽतीतादे रात्र्यादिसमुत्थाद्वा, भावतो रागद्वेषप्रभवात्। मिथुनं स्त्रीपुंसद्वन्द्र तस्य कर्म मैथुनं तस्माद्विरमणमिति, तथा सर्वस्मात् कृतादेः। अथवाद्रव्यतः सर्वद्रव्यविषयात्, क्षेत्रतः लोकसम्भवात्, कालतोऽतीतादे, रात्र्यादिप्रभवादा, भावतो रागद्वेषविषयात्, परिगृह्यते आदीयते परिग्रहणं वा परिग्रहस्तरमाद्विरमणामिति। स्था०५ ठा०१ उ०। "पंच महव्वयाई राइभोहणच्छट्ठाई। प्रव०७२ द्वार। (एतानि सभावनानि 'पाणइवाया' ऽऽदिशबदेषूक्तानि) आ०चू० / प्रव०॥ अङ्गाआव०। पञ्चा०। (अन्तर्गृहे महाव्रतानि नाख्यातव्यानीत्युक्तम् 'अंतरगिह' शब्द प्रथमभागे 88 पृष्ठे) (पाक्षिकप्रतिक्रमणविधिगताति सूत्राणि 'पडिक्कमण' शब्दे पञ्चमभागे 264 पृष्ठे उक्तानि) 1 केषां तीर्थ पञ्च वा चत्वारि महाद्रतानीति 'वय' शब्दे वक्ष्यते) (सौगतानां दश महाव्रतानि इति पलंब' शब्दे 5 भागे 715 पृष्ठे उक्तम्) महाव्रतानां फलानिवैरत्यागोऽन्तिके तस्य, फलं चाऽकृतकर्मणः। रत्नोपस्थानसदीर्य-लाभो जनुरनुस्मृतिः।।६।। तस्याऽहिसाभ्यासवतोऽन्तिके संनिधौ वैरत्यागः सहजविरोधिनामप्यहिनकुलादीना हिंसात्वपरिहारः, तदुक्तम्- (अहिंसाप्रतिष्ठायाम्''तत्संनिधौ वैरत्यागः" पाद 2 सू०३५) सत्याभ्यासवतश्चाकृतकर्मणोऽविहितानुष्ठानस्यापि फलं तदर्थोपनतिलक्षणक्रियमाणा हि क्रिया यागादिकाः फलं स्वर्गादिकं प्रयच्छन्ति / अस्य तु सत्य तथा प्रकृष्यते, यथाऽकृतायामपि क्रियायां योगी फलमाश्रयते तद्वचनाच यस्य कस्यचित क्रियामकुर्वतोऽपि फलं भवतीति। तदाह-(सत्यप्रतिष्ठायाम्"क्रियाकलाश्रयत्वम्' पाद 2 सू०३६) अस्तेयाभ्यासवतश्चरत्नोपस्थान तत्प्रकर्षान्निरभिलाषस्यापि सर्वतो दिक्कानि रत्नान्युपतिष्ठन्त इत्यर्थः / ब्रहाचर्याभ्यासवतश्च सतो निरतिशयस्य वीर्यस्य लाभः, वीर्य निरोधो हि ब्रहाचर्य, तस्य प्रकर्षाच्च वीर्य शरीरेन्द्रियमनस्सु प्रकर्षमागच्छतीति (अपरिग्रहविषयिका व्याख्या परिगह' शब्दे 5 भागे 556 पृष्ठ)। द्वा०२१ द्वा०। चू० / दश०। (प्रथमं महाव्रतम् प्राणातिपातविरमणम् तच्च पडिक्कमण' शब्दे पञ्चमभागे 285 पृष्ठे दर्शितम्) (द्वितीयं महाव्रतं मृषावादविरमण तच 'मुसावायवेरमण' शब्देऽस्मिन्नेव भागे दीत) (तृतीय महाव्रतम् अदत्तादानविरमणं तच्च अदत्तादानविरमण' शब्दे प्रथमभागे 540 पृष्ठे गतम्) (चतुर्थ मैथुनविरमण तच 'वंभचेर' शब्देऽस्मिन्नेव भागे 1256 पृष्ठे उक्तम् ) (पञ्चमं महाव्रत परिग्रहविरमणं तच परिगवेरमण' शब्दे पञ्चमभागे 557 पृष्ठे गतम्)। इचेयाइं पंच महव्वयाइं राइभोयणवेरमणछट्ठाई अत्तहियऽट्ठाए उवसंपज्जित्ता णं विहरामि। (सूत्र-६)। (इचे याई इत्यादि) इन्येतान्यनन्तरोदितानि पहा महा
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy