________________ मंहई 171 - अभिधानराजेन्द्रः - भाग 6 महंत प्रशस्तायाम्, विपा०१ श्रु०३ अ०भ० / सर्वधर्मानुष्ठानानां बृहत्त्याम, प्रश्न० "पहंति त्ति" सर्वधर्मानुष्ठानानां बृहती, आह च-''एक चिअ / एत्थ वयं, निद्दिढ जिणवरेहिं सव्वेहिं / पाणाऽतिवायविरमणमवसेसा / तस्स रक्खा य" ||1|| प्रश्न०१ संव० द्वार। महंगो (देशी) उष्ट्र, दे० ना०६ वर्ग 117 गाथा। महंत त्रि० (महत्) शीघ्रादित्वात्तथारूपम् / प्रा०२ पाद: बृहत्तरे, सूत्र०२ 302 अनविस्तीणे, सूब०१ श्रु०५ अ०२ उ०। महाविस्तीर्णे, निशाल.. गुरम, परन०४ सव०० द्वारा प्रस्त, 14401 श्रु०३ अ०। सूत्र० / तत्रमहच्छब्दनिक्षेपार्थं नियुक्तिकृदाहणामं ठवणा दविए, खेत्ते काले तहेव भावे य। एसो खलु महंतम्मि, निक्खेवो छव्विहो होति / / 142 / / (णाम उदाणेत्यादि) नामस्थापनाद्रव्यक्षेत्रकालभावाऽऽत्मको महति डिवधो निक्षेपो भवति-तत्र नामस्थापने, सुज्ञाने। द्रव्यं महदागमतो, नो आगमतश्च / आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तुज्ञशरीरभव्यक्षरीरव्यतिरिक्त सचित्ताऽचित्तमित-श्रभेदात्विधा / तत्रापि सचित्तद्रव्यं महत् औदारिकादिकं शरीरम्, तत्रौदारिक योजनसहस्त्रपरिमाणं मत्स्यशरीरम्, वैक्रिय तु योजनशतसहस्त्रपरिमाणम्, तैजसकार्मणे तु लोकाऽऽकाशप्रमाणे, तदेतदोदारिकवैक्रियतैजसकार्मणरूप चतुर्विध द्रव्यं सचित्तमहद् / अचित्तमहत् -समस्तलोकव्याप्यचित्तमहास्कन्धः, मिश्रं तु तदेव मत्स्यादिशरीररम्, क्षेत्रमहत् लोकाकाशं, कालमहत् सर्वाऽद्धा, भावमहदोदयिकादिभावरूपतया षोढा / तत्रौदयिको भावः सर्वसंसारिषु विद्यत इति कृत्वा बहवाश्रयत्वान्महान् भवति। कालतोऽप्यसौ त्रिविधः / तद्यथा-अनाद्यपर्यवसितोऽभव्यानाम्, अनादिनपर्यवती भव्यान, सादिसपर्यवासतो नारकादीनागिति क्षायिकस्तु केवलज्ञानदर्शनात्मकः साद्यपर्यवसितत्वात्, कालतो महान् आयौपशमिकोऽप्याश्रयबहुत्वादनाद्यपर्यवसितत्वा च महानिति / औपशमिकोऽपि दर्शनचारित्रमोहनीयानुदयतया शुभभावत्वेन च महान् भवति। पारिणामिकस्तु समस्तजीवाजीवाश्रयत्वादाश्रये महत्वान्महानिति / सान्निपातिकोऽप्याश्रयबहुत्वादेय महानिति। सूत्र०२ श्रु०२ अ०। महदभिधित्सुराहणाम ठवणा दविए, खेत्ते काले पहाणे पइभावे। एएसि महंताणं, पडिवक्खे खुड्डया होति / / 178|| नाममहत्- महदिति नाम, स्थापनामहत-महदिति स्थापना, द्रव्यमहान्- अचित्तमहास्कन्धः / दश०३ अ०। तत्रागमतो ज्ञातानुपयुक्तो | द्रव्यमहत्, नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तम् द्रव्यमहत्, अचित्तमहास्कन्धः दण्डादिकरणेन यश्चतुर्भिः समयैः सकललोकमापूरयति / (उत्त० पाई 6 अ०) क्षेत्रमहल्लोकालोकाकाशम्, कालमहान- अतीतादिभेदः सम्पूर्णः कालः। प्रधानमहत्- सचित्ताचित्तमिश्रभेदात्, सचित्तं त्रिविधम्, द्विपदचतुष्पदापदभेदात्। तत्र द्विपदाना तीर्थकरः प्रधानः, चतुष्पदानां हस्ती, अपदानां पनसः, अचित्तानां वैद्धर्य रत्नम, मिश्राणां तीर्थकर एव वैडूर्यादिविभूषितः प्रधानः इत्यत एव चैतेषा महत्त्वमिति प्रतीत्य महद् आपेक्षिकम, तद्यथा-आमलकं प्रतीत्य महरा विल्वम्, विल्वं प्रतीत्य कपित्थामित्यादि / भावमहत्त्रिविधम्, प्राधान्यतः कालतः आश्रयतश्चेति। प्राधान्यतः क्षायिको महान् मुक्तिहेतुत्वेन तस्यैव प्रधानत्वान, कालतः परिणामिकः जीवत्वाजीवत्वपरिणामस्यानाद्यपर्यवसितत्वान्न कदाचिजीवा अजीवतया परिणमन्ते अजीवाश्च जीवतयति, आश्रयतस्यौदयिक प्रभूत (संसारि) सत्त्वाश्रयत्वात, सर्वसंसा रिणामेवासौ विद्यत इति।दश०३ अ०भुत्वे, यौ मायाम, औ०। महच्छब्दस्य बहवोऽर्थाः। तथाहिमहच्छब्दो बहुत्वे, यथा महाजन इति। अस्ति बृहत्त्वे, यथा महाघोषः / अस्तीत्यर्थे, यथ महाभयमिति। अस्ति प्राधान्ये यथा महापुरुष इति तवेह प्राधान्ये वर्तमानो गृहीत इति। एतन्नियुक्तिकारोदर्शयितुमाहपाहन्ने महसद्दो, दव्वे खेत्ते य कालभावे य: तत्र महावीरस्तव इत्यत्र यो महच्छब्दः स प्राधान्ये वर्तमानो गृहीतः, तच नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् षोढा / प्राधान्ये नामस्थापने क्षुण्णे, द्रव्यप्राधान्यं ज्ञशरीरभव्यशरीरव्यतिरिक्त सत्तिाचित्तमिश्रभेदात् त्रिधा। सचित्तमपि द्विपदचतुष्पदापदभेदात् त्रिधैव। तत्र द्विपदेषु तीर्थकरचक्रवादिकम्, चतुष्पदेषु हस्त्यश्वादिकम्, अपदेषु प्रधान कल्पवृक्षादिकम्, यदिवा-इहैव ये प्रत्यक्षा रूपरसगन्धस्पर्शरुत्कृष्टाः पौण्डरीकादयः पदार्थाः, अचित्तेषुवैडूर्यादयो नानाप्रभावा मणयो, मिश्रेषु तीर्थकरो विभूषित इति / क्षेत्रतः प्रधाना-सिद्धिः धर्मचरणाश्रयणान्महाविदेहं च, उपभोगाङ्गीकरणेन तु देवकुर्वादिक क्षेत्रम्, कालतः प्रधान त्वेकान्तसुषमादि, यो वा कालविशेषो धर्मचरणप्रतिपत्तियोग्य इति / भावप्रधानं त क्षायिको भावः तीर्थकरशरीरापेक्षयौदयिको वा, तत्रेह द्वयनाप्यधिकार इति ! सूत्र०१ श्रु०६ अ० / आ०म० / दीर्घ, ज्ञा०१ श्रु०८ अ०। महत्तत्वे, सत्त्वरजस्तमोरूपात्प्रधानान्महान्-बुद्धिरित्यर्थः / सूत्र०१ श्रु०१ अ०१ उ०। महत्त्वं मेरोरपि महत्तरशरीरकरणसामर्थयम्, तथा प्राप्तिभूमि ठस्याडल्यग्रेण मेरुपर्वताग्रप्रभाकरादिस्पर्शनसामर्थ्य - मिति योगशास्त्रवृत्तौ-"कफविपुण्मलामर्शसौषधिमहर्द्धयः' इत्यस्य व्याख्याने प्रोक्तमस्ति परमत्रोत्कर्षतोऽप्युत्सेधाङ्गुलमानेन लक्षयोजनप्रमाणस्य वैक्रियशरीरस्य संभवान्मेरोरपि महत्तरशरीरकरणं, भूमिष्ठस्थाडल्यग्रेण मेग्रादिस्पर्शनं कथं घटते? इति प्रश्ने, उत्तरम्- यद्यपि "सरीरमुस्सेहंऽगुलेण तह त्ति" उत्सेधाङ्गुलेन शरीरमानमुक्तमस्ति, तथापि तत्प्रायिकं संभाव्यते तेन न काप्यनुपपत्तिः / अन्यथा भूमिष्ठस्याङ्गुल्यग्रेण मेरुपर्वताग्रादिस्पर्शासंभवात् / किं च-यद्येकान्ततः शरीरमुत्सेधाजुलेनैव स्यात्, तदा प्रज्ञापनोपागादावुक्तो द्वादशयोजनप्रमाणशरीरोऽसालिकाजीवो महाविदेहादिवक्रिणां प्रमाणाङ्गुलेन द्वरादशयोजनप्रमाणस्य स्कन्धावारस्य विनाशहेतुः कथं संभवति / कथं वा कृतलक्षयोजनवैक्रियरूपेण सौधर्मदेवलोकं गतेन चमरेन्द्रेण एकः पादः पद्मवरवेदिकायां मुक्तोऽपरश्च सुधर्मासभायामित्यादिकं भगवत्याधुक्तं संभवतीति। प्र०। सेन०२ उल्ला०।