________________ मरण 134 - अभिधानराजेन्द्रः - भाग 6 मरण किंचसासएहिं निमन्तिजा, दिव्वं मायं न सद्दहे। तं पडिवुज्झ माहणे, सव्वं नूमं विहूणिय // 24 // शाश्वता यावज्जीवम् अपरिक्षयात् प्रतिदिनदानाद वाऽस्तैिस्तथाभूतर्विभवैः कश्चिन्निमन्त्रयेत् तत्प्रतिबुध्यस्व-था शरीराऽर्थ धनं मृग्यते तदेव शरीरमशाश्वतमिति / तथा दिव्यां मायां न श्रवधीत / तद्यथायदिकश्चिद्देवो मीमांसया प्रत्यनीकत्तया वा भक्त्या वाऽन्यथा वा कोतुकाादना नानार्द्धिदानतो निमन्त्रयेत्, तांच तत्कृता मायां न श्रद्दधीत। तथा बुध्यम्ब-यथा देवमायैषा, अन्यथा कुतोऽयमाकस्मिकः पुरुषो दुर्लभम् तद् द्रव्यं प्रभूततरमेवभूते क्षेत्रे काले भावे च दद्यात् ? एवं द्रव्यादिनिररूपणया देवमाया बुध्यस्व इति / तथा देवाऽङ्गना वा यदि दिव्यं रूपं विधाय प्रार्थयत्तामपि बुध्यस्वेति। 'माहणे त्ति साधुः 'सर्वम्' अशेष 'नूम' विकर्म मायां वा तत् ता वा 'विधूय' अपनीय देवादिमायां बुध्यराति क्रिया // 24 // किञ्चसव्वद्वेहिँ अमुच्छिए, आउकालस्स पारए। तितिक्खं परमं नचा, विमोहन्नयरं हियं // 25 / / ति बेमि। / सर्व च तेऽर्थाश्च सर्वार्थाः, पञ्चप्रकाराः कामगुणास्तत्सम्पादका वा द्रव्यानिचयास्तैस्तेषु वा अमूञ्छितः-अनध्युपपन्नः / आयुःकालस्य यावन्मानं कालमायुः सतिष्ठते असौ आयु:-कालस्तस्य पारम्आयुष्कपुद्गलानां क्षयोमरणं तद्गच्छतीति पारगः / यथोक्तविधिना पादपोपगमनव्यवस्थितः प्रवर्द्धमानशुभाध्यवसायः स्वायुः कालान्तगः स्यादिति / तदेवं पादपोपगमनविधिं परिसमापय्योपसंहारद्वारेण त्रयाणामपि मरणानां कालक्षेत्रपुरुषावस्थाश्रयणात् तुल्यकक्षता पश्चार्धेन दशर्यति-तितिक्षा-परीथहोपसर्गापादितदुःखविशेषसहनं तत् त्रयाणमपि परमप्रधानमस्तीति ज्ञात्वा-अवधार्य 'विमोहान्यतरं हित' मिति। विगतो माहो येषु तानि विमोहानि / भक्तपरिक्षेङ्गितमरणपादपोपगमनानि तेषामन्यतरत् कालक्षेत्रादिकमाश्रित्य तुल्यफलत्वाद्धितम् अभिनेतार्थसाधनादतो यथाशक्ति त्रयाणामन्यतरत् तुल्यबलत्वाद् यथावसरं विधेयम् / इतिः अधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत्।। नयविचारादिकमनुगतं वक्ष्यमाणं च द्रष्टव्यामिति। आचा०१ श्रु०८ अ०८ उ०। (मारणान्तिकसमुद्धातवक्तव्यता 'मारणंतियसमुग्धाय' शब्दे) ('संथार' शब्दे 'संलेहणा' शब्देऽपि च किंचिद् वक्ष्यामि) ('अब्भुज्जयमरण' शब्दे प्रथमभागे 663 पृष्ठे अब्भुद्यतमरणवक्तव्यता) यत एवं ततः किं कर्त्तव्यम् ? इति गुरुरुपदेशमाहतम्हा चंदगविज्झं, सकारणं उजुएण पुरिसेणं। जीवो अविरहियगुणो, कायव्वो मुक्खमग्गम्मि // 68|| 'तम्हा' तस्मात्कारणत् चन्द्रकवेध्यं-वामदक्षिणावर्तभ्रमदष्टवक्राऽऽकमध्यनिर्गच्छदूर्द्धमुखशरप्रयोगतो भूस्थकुण्डिकागततैलान्तः प्रतिबिम्बितगगनस्थाधोमुखपुत्तलिकावा मलोचनरूपश्चन्द्रकस्तद्रपं वेध्यं राधावेध इत्यर्थः। साध्यमित्यध्याहारः। केन पुरुषेण। किंभूतेन उद्युक्तेन उद्यमवता सावधानेनेतयर्थः / कथं? सकारणं स्वर्गापवर्गादिश्रीलाभहेतोरि-त्यर्थः / यथा राधावेधः सकारण राज्यादिलाभकृते केनापि साध्यते एवं चन्द्रकवेध्यमिवानशनं सकारणं मोक्षादिलाभकृले सावधानेन साधयितव्यमिति भावः / तत्साधनोपायश्चायमित्याह-'जीव आत्मा अविरहितगुणोऽमुक्तज्ञानदर्शनचारित्रगुणः कर्त्तव्यः / क्व ? मोक्षमार्गज्ञानदर्शनचा रित्रतपोरुपे। तद्व्यवस्थितो हि चन्द्रकवेध्यसमा प्रान्ताराधनां साधयतीत्यर्थः // 68 / आतु०। (अत्र विशेषः अणसण' शब्दे प्रमिभागे 302 पृष्ठे गतः)। (34) अत्र मरणविधिर्जिनपतिप्रकीर्णकान्तर्गते दशमे मरणविधिप्रकीर्णक उक्तस्तद्यथा - तिहुयणसरीरिवंदं, सप्पवयणरयणमंगलं नमिउं / समणस्स उत्तमऽढे, मरणविहीसंगहं वुच्छं / / 1 / / सुणह सुयसारनिहसं,ख ससमयपरसमयवायनिम्मायं। सीसो समणगुणाऽळ, परिपुच्छइ वायगं कंचि।।२।। अमिजाइसत्तविक्कम-सुयसीलविमुत्तिखंतिगुणकलियं / आयारविणयमद्दव-विजाचरणागरमुदारं / / 3 / / कित्तीगुणगब्भहरं, जसखाणिं तवनिहिं सुयसमिद्धं / सीलगुणनाणदंसण-चरित्तरयणाऽऽगर धीरंग॥४॥ तिविहं तिकरणसुद्धं, मयरहियं दुविहठाणपुणरत्तं / विण्येण कमविसुद्धं, चउस्सिरंवारसावत्तं // 5 // दुओणयं अहाजायं, एयं काउण तस्स किइकम्मं / भत्तीइभरियहियओ, हरिसवसुभिन्नरोमंचो।।६।। उवदेसहेउकुसलं, तं पवयणरयणसिरिघर भणइ / इच्छामि जाणिजे, मरणसमाहिं समासेणं / / 7 / / अब्भुजुयं विहारं, इच्छं जिणदेसियंविउपसत्थं / नाउं महापुरिसदे-सियं तु अब्भुजुयं मरणं / / 8|| तुज्झित्थ सामि सुअजल-हिपारगा समणसंघनिज्जवया। तुझं खु पायमूले, सामन्नं उज्जमिस्सामि / / 6 / / सो मरियमुहुरजलहर-गंभीरसरो निसन्नओ भणइ / सुण दाणि धम्मवच्छल-मरणसमाहिं समासेणं / / 10 / / सुण जह पच्छिमकाले, पच्छिमतित्थयरदेसियमुयारं / पच्छा निच्छिय पच्छं, उविंति अब्भुजुयं मरणं / / 11 / / पव्वजाई सव्वं, काऊणाऽऽलोअणं च सुविसुद्धं / दंसणनाणचरित्ते, निस्सल्लो विहर चिरकालं / / 12 / / आउव्वेयसमत्ती, तिगिच्छए जह विसारओ विज्जो। रोगाऽऽयंकाऽऽगहिओ, सो निरुयं आउरं कुणइ // 13 // एवं पवयणसुयसा-रपारगो सो चरित्तसुद्धीए। पायच्छित्त विहिन, तं अणगारं विसोहेइ।।१४।। (सम्यक्त्वाऽऽराधविषयिका अत्रत्याश्चतस्रो गाथाः 'आराहणा' शब्दे द्वितीयभागे 385 पृष्ठे उक्ताः।) अरहंतसिद्धचेइय-गुरुसु सुयधम्मसाहुवग्गे य।