SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ मरण 133 - अभिधानराजेन्द्रः - भाग 6 मरण नाय प्रादुरेषयेत्-प्रकट प्रत्युपेक्षणयोग्यमशुषिरमन्वेषयेत्॥१७॥ इंगिग- | तमरणे चोदानामभिधाय यन्निषेध्यं तद्दर्शथितुमाह 'जओ गाहा 'यता' यस्मादनुष्टान्नदवष्टम्भनादेवज़वद्वजं गुरुत्वात्कर्म, अवयं वा पापं वा तत्सनुत्पद्येत प्रादुःप्यात्, न तत्र घुणक्षतकाष्ठादाववलम्बेत। नावष्टम्भनादिकां क्रिया कुर्यात, तथा ततः तस्मादुत्क्षेपणापक्षेपणादेः काययोगाद् दुष्प्रणिहितवाग्योगादार्तध्यानादि मनोयोगाचावद्यसमुत्पत्रिहेतोरात्मानमुत्कषेद- उत्क्रामयेत्। पापोपादानादात्मानं निवर्तयेदिति यावत्। तत्र चधतिसंहननाद्युपेतोऽप्रतिकर्मशरीरः प्रवर्द्धमानशुभाध्यवसाय-कण्इकोऽपूर्वापूर्वपरिणामारोही सर्वज्ञप्रणीतागभानुसारेण पदार्थस्वरूपनिरूपणाहितमतिः अन्यदिदं शरीर त्याज्यमित्येवं कृताध्यवसायः सर्वान स्पर्शन् दुःखविशेषाननुकूलप्रतिकूलोपसर्गपरीषहापादिलान्, तथा वातपित्तश्लेष्मद्वन्द्वेतरप्रोद्भूतान् कर्मक्षयायोअतो मयैवत विधं कृतं सोढव्यं चेत्येदध्यवसायी अध्यासचेद् अधिसहेत, यतो यन्मया त्यक्तं शरीरकमेतदेवोपद्रवन्तिन पुनर्जिक्षितधर्माचरणमित्याकलस्य सर्वपीडासहिष्णुर्भवदिति ||18|| गत इङ्गितगरणाधिकारः / / साम्प्रतं पादपोपगमनमाश्रित्याह-(अयंगाहा) अनन्तरमभिधारयमानत्वारोऽव प्रत्यक्षा मरणविधिः स चाऽऽयततरो न केवलं भक्तपरिमायाः, इङ्गितमरणविधिरायततरः, अयं च तस्मादायततरः इति चशब्दार्थः / आय तिर इत्याडभिविधौ सामस्त्येन यत आयतः / अयमनयोर तेशयेनायत आयततरः / यदिवा-अयमनयोरतिशयेनात्तोगृहीत आत्त तरः, यत्नेनाध्यवसित इत्यर्थः / तदेवमयं पादपोपगमनमरणविधिर ततरो दृढतरः स्याद् भवेत्। अत्रापि यदिङ्गितमरणे प्रव्रज्या - संलेखनाटिकमुक्त तत्सर्वे द्रष्टव्यमिति। यहासावायततरः ततः किमिति दर्शयति-यः भिक्षुः एवम् यक्तविधिनैव पादपोपगमनविधिमनुपालयेत् सर्वगात्रनिराधेऽपि, उत्तप्यमानकायोऽपि मूच्र्छन्नपि भरणसमुद्धातगतो वा भक्ष्यमाणमांसशोणितोऽपि क्रोष्टगघपिपललि कादिभिर्महासत्त्वतया शंसितमहाफलविशेषः संस्तस्मात्स्थानात् प्रदेशात द्रव्यता भावतोऽपि शुभाध्ययवसायस्यानान्न व्युझमेत् - न स्थानान्तरं यायात्॥१६॥ किं च- अयमित्यन्तःकरणनिष्पन्नत्वात्प्रत्यक्षः 'उत्तमः' प्रधानो मरणविधिः सत्तिरत्वाद्धार्मोविशेषः पादपोपगमनरूपो मरणविशेष इति / उत्तमत्व कारण दर्शयति-'पूर्वस्थानस्य प्रग्रह' इति पञ्चम्य” षष्ठी। पूर्वस्थानाद्भक्तपरिज्ञङ्गितमरणरूपात्प्रकर्षण ग्रहोऽत्र पादपोपगमने प्रगृहीततरमेतदित्यर्थः / तथाहि-अत्र यदिगितमरणानुमत कायपरिस्पन्दनं तदपि निषध्यते अच्छिन्नमूलपादपवन्निश्चेष्टो निष्क्रियो दह्यमानछिद्यमानी वा विषमपतितो वा तथैवास्ते न तस्मात्स्थानाच लति. चिलातपुत्रवत् / एतदेव दर्शयति-अचिरं स्थानं, तच स्थण्डिलं तत्पूर्वविधिना प्रत्युपेक्ष्य तस्मिन् प्रत्युपेक्षिते स्थण्डिले विहरेदिति। अत्र पादपोपगमनाध्किाराद् विहरण तद्धिधिपालमुक्तम्। तच्च स्थानात् स्थानान्तरसंक्रमणम्। एतदेव च दर्शयति-तिष्ठेत् सर्वगात्रनिरोधेऽपि स्थानान्तररासक्रमणं कुर्यादित्यर्थः / काऽसौ ? 'माहाणे' त्ति साधुः। स हि निषण्णो निषण्ण ऊर्ध्व स्थितो वा निष्प्रतिक ियद्यथा भिक्षिपमडमचेतन इव न चालयेदिति यावत // 20 // एतदेव प्रकारान्तरेण दर्शयितुमाहअचित्तं तु समासञ्ज,ठावए तत्थ अप्पगं। वोसिरे सव्वसो कायं, न मे देहे परीसहा॥२१॥ न विद्यते चित्तमस्मिन्नित्यचित्तम्- अचेतनं जीवरहितमित्यर्थः / तच्च स्थण्डिल फलकादि वा 'समासाद्य लब्ध्वा फलके ऽपि समर्थः कश्चित्काष्ठ वाऽवष्टभ्य तत्राऽऽत्मान स्थापयेत् / व्यवस्थाप्य च त्यक्तचतुर्विधाहारो गेरुरिव निष्प्रकम्पः कृतालोचनादिपरिकर्मा गुरुभिरनुज्ञातो व्युत्सृजेत्। 'सर्वशः' सर्वात्मना 'काय' देहम्। व्युत्सृष्टदेहस्य च यदि केचन परीषहोपसर्गाः स्युस्ततो भावयेत्-'न मे देहे परीषहाः मत्सम्बन्धी देह एव न भवति, परित्यक्तत्वात्, तदभावे कुतः परीषहाः ? यदिवा-नमम देहे परीषहाः / सम्यक्करणेन सहमानस्य तत्कृतपीडयोद्वेगाभावात, अतः परीषहान् कर्मशत्रुजयसहायानितिकृत्वाऽपरीषहान एव मन्येत // 21 // ते पुनः कियन्त काल सोढव्या इतयाशङ्कायुदासार्थमाहजावजीवं परिसहा, उवसग्गा इत्ति संखाय। संवुडे देहभेयाए, इय पन्नेऽहियासए / / 22 / / 'यावज्जीव' यावत प्राणधारण तावत् परीषहा उपसर्गाश्च सोढव्या इत्येतत् 'सङ्ख याय' ज्ञात्वा तानध्यासयेदिति। यदिवा-न मे यावजीव परीषहोपसर्गा इत्येतत् सङ्ख्याय-ज्ञात्वाऽधिसहेत। यदिवा-'यावज्जीव' मिति / यावदेव जीवितं तावत् परीषहोपसर्गजनिता पीडति, तत्पुनः कतिपयनिमेषाऽवस्थायि / एतदवस्थस्य ममान्तमल्पमेवेत्यत एतत्सड्वयायज्ञात्या संवृतो यथानिक्षिप्तत्त्यक्तगात्रो देहभेदाय शरीरत्यागायोत्थित इति कृत्वा 'प्राज्ञः' उचितविधानवेदी, यद्यत्कायपीडाकार्युपतिष्ठत तत्तत्सम्यगधिसहेत // 22 // एवम्भूतं च साधुमुपलभ्य कश्चिद्राजादि गैरुपनिमन्त्रयेत् तत्प्रतिपादनार्थमाहभेउरेसु न रजिज्जा, कामेसु बहुतरेसु वि। इच्छालोभन सेविजा, धुववन्नं संपेहिय / / 23 // भेदनशीला भिदुराः शब्दादयः कामगुणास्तेषु प्रभूततरेष्वपि 'मरज्यत् न राग यायात् / पाठान्तर वा- 'कामेसु बहुलेसु वि' इच्छामदनरूपेषु कामेषु बहुलेषु-अनल्पेष्वपीत्यर्थः / यद्यपि राजा राज्यकन्यादानादिनोपप्रलोभयेत् तथापि तत्र न गाय॑मियात् / तथा इच्छारूपो लोभ इच्छालोभः चक्रवर्तीन्द्रत्वाद्यभिलाषादिको निदानविशेषस्तमसौ निर्जरापेक्षी न सेवेत, सुरर्द्धिदर्शनमोहिता ब्रह्मदत्तवन्निदानं न कुर्यादित्यर्थः / (बहादत्तकथा'ट्ठभदत्त' शब्दे पञ्चमभागे 1271 पृष्ठे गता) तथा चागमः-'इह लोगाऽऽसंसप्पओगे 1 परलोगासंसप्पओगे 2 जीवियासंसप्पओगे 3 मरणासंसप्पओगे 4 कामभोगासंसप्पओगे 5" इत्यादि, 'वर्णः संयमो मोक्षो वा स च सूक्ष्मो दुज्ञेयत्वात्, पाठान्तरं वा 'धुववन्न' मित्यादि। ध्रुवः-अव्यभिचारी स चासौ वर्णश्च ध्रुववर्णस्तं संप्रेक्ष्य धुवा या शाश्वती यशःकीर्ति पालोच्य कामेच्छालाभविक्षेपं कुर्यादिति // 23 //
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy