SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ मरण 131 - अभिधानराजेन्द्रः - भाग 6 मरण शरीरमोक्षाऽवसरः प्राप्तः, तथा-कस्मै मरणायालमहमित्येवं 'ज्ञात्वा' आरम्भणमारम्भः शरीरधारणायाऽन्नपानाद्यन्वेषणाऽऽत्मकस्तस्मात चुट्यति-अपगच्छतीत्यर्थः, सुब्ब्यत्ययेन पञ्चम्यर्थ चतुर्थी, पाठान्तर वा 'कम्मुणाओ तिअट्टई कर्माष्टभेदं तस्मात् त्रुटयिष्यतीति त्रुट्यति'वर्तमानसामीप्ये वर्तमानवता' (पा०३-३-१३१) इत्यनेन भविष्यत्कालस्य वर्तमानता / / 2 / / स चाभ्युद्यतमरणाय संलेखना कुर्वन् प्रधानभूतां भावसंलेखनां कुयादित्येतद्दर्शयितुमाह-कषः-संसारस्तस्याऽऽयाः-कषाऽऽयाः क्रोधादयश्चत्वपारस्तान प्रतनून कृत्वा ततो यत्किञ्चनाश्नीयात् तदपि न प्रकाममिति दर्शयति-'अल्पाहारः' स्तोकाशी, षष्ठाटमादिसंलेखनाक्रमायात तपः कुर्वन् यत्रापि पारयेत् तत्राप्यल्पमित्यर्थः / अल्पाहारतय च क्रोधोद्भवः स्यादतस्तदुपशमो विधेय इति दर्शयतितितिक्षते-असदृशजनादपि दुर्भाषितादि क्षमते. रोगातङ्कं वा सम्यक् सहत इति; तथा च संलेखना कुर्वन्नाहारस्याल्पतया अथे' त्यानन्तर्य 'भिक्षुः' 'मुमुक्षुः ग्लायेत्' आहारेण विना ग्लानतां व्रजेत्, क्षणे मूर्छनाहारस्यैवान्तिक पर्यवसानं व्रजेदिति, चत्वारि विकृष्टानीत्यादिसंलेखनाक्रमं विहायाशनं विदध्यादित्यर्थः, यदिवा-ग्लानतामुपगतः सन्नाहारस्यान्तिक-समीपं नव्रजेत्, तथाहि-आहारयामितावत्कतिचिद्दिनानि पुनः संलेखनाशेषं विधास्तेऽहमित्येवं नाहारान्तिकमियादिति॥३॥ किं च-तत्र संलेखनायां व्यवस्थितः सर्वदा वा साधुर्जीवितं-प्राणधाररणलक्षणं नाभिकाङ्केत, नापि क्षुद्वेदनापरीषह सहमानो मरणं प्रार्थयेद् / 'उभयतोऽपि' जीविते मरण वा, न सङ्गं विदध्यात्।।४।। (32) जीगिते भरणे च तथा किं भूतस्तर्हिस्यादित्याहमज्झत्थो निजराऽपेही, समाहिमणुपालए। अन्तो बहिं विउस्सिज्ज, अज्झत्थं सुद्धभेसए।।५।। जं किंचू-वक्कम जाणे, आऊखेमस्समप्पणो। तस्सेव अन्तरद्धाए, खिप्पं सिक्खिज्ज पण्डिए।।६।। गामे वा अदुवा रणे, थंडिलं पडिलेहिया। अप्पपाणं तु विन्नाय, तणाई संथरे मुणी॥७॥ अणाहारो तुयट्टिज्जा, पुट्ठो तत्थऽहियासए। नाइवेलं उवचरे, नाणुस्सेहि वि पुट्ठवं // 8|| रागद्वेषयोर्मध्ये तिष्ठतीति मध्यस्थः, यदिवा-जीवितमरणयोर्निराकालतया मध्यस्थो निर्जरामपेक्षितुं शलमस्येति निर्जरापेखी, स एवंभूतः समाधिमरणस्माधिमनुपालयेत-जीविततमरणाऽऽसंशारहितः कालपर्यायण यद्मरणमापद्यते तत् समाधिस्थाऽनुपालयेदिति भावः / अन्तः कषायान बहिरपि शरीरोपकरणादिकं व्युत्सृज्य आत्मनि-अधिअध्यात्मम्- अन्तःकरणं तच्छुद्धंसक द्वन्द्वोपरमा विस्रोतसिकारहितमन्वे-षयेत्-प्रार्थयेदिति / / 5 / / किं च-उपक्रमणमुपक्रमः उपायस्तं यं कञ्चन जानीत, कस्योपक्रमः ? 'आयु:-क्षेमस्य' आयुषः क्षेमं सम्यक् पालनं तस्य, कस्य सम्बन्धि तदायुः? आत्मनः, एतदुक्तं भवतिआत्मायुषो य क्षेमप्रतपालनोपायं जानीत तं क्षिप्रमेव शिक्षेत्- व्यापारयेत् पण्डितो- बुद्धिमान, तस्यैव संलेखनाकालस्य अन्तरद्धाए' त्ति अन्तरकालेऽर्द्धसंलिखित एव देहे देही यदि कश्चित् वातादिक्षोभात् आतङ्कः आशुजीवितापहारी स्यात्, ततः समाधिमरणमभिकासन् तदुपशमोपायमेषणीयविधिनाऽभ्यङ्गादिकं विदध्यात्, पुनरपि संलिखेत्, यदिवाआत्मनः आयुःक्षेमस्य जीवितस्य यत्किमप्युपक्रमणम्- आयुःपुगलानां संवर्तनं समुपस्थितं तज्जानीत, ततस्तस्यैव संलेखनाकालस्य मध्येऽव्याकुलितमतिः क्षिप्रमेव भक्तपरिज्ञानादिकं शिक्षेत-आसेवेत पण्डितोबुद्धिमानिति॥६॥ संलेखनाशु कायश्च मरणकालं समुपस्थित ज्ञात्वा किं कुर्यादित्याह-ग्रामः प्रतीतो ग्रामशब्देन चात्र प्रतिश्रय उपलक्षितः, प्रतिश्रय एव स्थण्डिलं संस्तारकभुवंप्रत्युपेक्ष्य, तथाऽरण्ये वेत्यनेन चोपाश्रयाद् बहिरित्येतदुपलक्षितम्, उद्याने गिरिगुहायामरण्ये वा स्थण्डिलं प्रत्युपेक्ष्य-विज्ञाय चाल्पप्राण-प्राणिरहित ग्रामादियाचितानि प्रासुकानि दर्भादिमयानि तृणानि संस्तरेत् 'मुनिः' यथोचितकालस्य वेत्तेति // 7 // संस्तीर्य च तृणानि यत्कुत्तिदाह-नि विद्यते आहारोऽस्येत्यनाहारः, तत्र यथाशक्ति-यथासमाधानं च त्रिविधं चतुविर्थ वाऽऽहारं प्रत्याख्यायारोपितपञ्चमहाव्रतःक्षान्तः-क्षामितसमस्तप्राणिगणः समसुखदुःख आवर्जितपुण्यप्राग्भारतया मरणादबिभ्यत् संस्तारके त्वगवर्तनं कुर्यात्, तत्र च स्पृष्टः परीषहोपसर्गस्त्यक्तदेहतया सम्यक् तानध्यासयेद् - अधिसहेत, 'तत्र' मानुष्यैरनुकूलप्रतिकूलैः परीषहोपसर्गः, 'स्पृष्टो-' व्याप्तो, नातिवेलमुपचरेत्-न मर्यादोल्लसनं कुर्यात, पुत्रकलत्रादिसम्बन्धाद् नार्तध्यानवशगो भूयात्, प्रतिकूलै परीषहोपसर्गर्न क्रोधनिनः स्यादिति // 8 // एतदेवदर्शयितुमाहसंसप्पगा य जे पाणा, जे य उड्डमहाचरा / भुञ्जन्ति मंससोणियं, न छणे न पमज्जए ||6|| पाणा देहं विहिंसन्ति, ठाणाओ न वि उन्भमे। आसवेहिं विवित्तेहिं, तिप्पमाणोऽहियासए||१०|| गन्थेहिं विवित्तेहिं,आउकालस्स पारए। पग्गहियतरगं चेयं, दवियस्य वियाणओ॥११॥ अयं से अवरे धम्मे, नायपुत्तेण साहिए। आयवशं पडीयारं, विजहिज्जा तिहा तिहा।।१२।। संसर्पन्तीति संसप्र्पका:-पिपीलिकाक्रोष्ट्रादयो ये प्राणाः-प्राणिनः, ये चोर्ध्वचरा-गृध्रादयः, ये चाधश्चराः बिलवा सित्वात्सादयस्त एवंभूता नानाप्रकाराः 'भुञ्चन्ते' अभ्यवहरन्ति मांसं सिंहव्याघ्रादयः, तथा शोणित मशकादयः, ताश्च प्राणिनः आहारार्थिनः समागतानवन्तिसुकुमारवद्धस्थाऽऽदिभिर्न क्षणुयात्-न हन्यात्, नच भक्ष्यमाणं शरीरावयवं रजोहरणादिना प्रमार्जयेदिति।।६।। किंच-प्राणाः-प्राणिनो देहं मम हिंसन्ति, नतु पुननिदर्शनचारित्राणीत्यतस्त्यक्तदेहाशिनस्तानन्तरायभयाद्न निषेधयेत्, तस्माच्च स्थानान्नाप्युझमेत्नान्यत्र यायात, किंभूतः सन्? आश्रयैःप्राणातिपातादिभिर्विषयकषायादिभिर्वा 'विविक्तैः' पृथग्भूतैरविद्यमानैः
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy