________________ मरण 130- अभिधानराजेन्द्रः - भाग 6 मरण असणेण वा पाणेण वा०४ अभिकंख साहम्मिएहिं कीरमाणं वेयावडियं साइञ्जिस्सामि लाघवियं आगममाणे० जाव सम्मत्तमेव समभिजाणिया (सूत्र-२२५) एतच पूर्व व्याख्यातमेव, केवलमिह संस्कृतेनोच्यते / पररा भिक्षोरेवं भवति-वक्ष्यमाणम, तद्यथा-अहं च खल्वन्येभ्यो भिक्षयोऽनादिकमाहृत्य दास्याम्यपराहृतं च स्वादयिष्यामीत्येको भङ्गकः 1, तथायस्य भिक्षोरेवं भवति तद्यथा-अहं च खल्वन्येभ्योऽशनादिकमाहृत्य दास्याम्यपराहृतं च नो स्वादयिष्यामीति द्वितीयः२; यरय भिक्षोरेवं भवति तद्यथा-अह च खल्वन्येभ्योऽशनादिकमाहृत्य नो दास्याम्यपराहृतं च स्वादयिष्यामीति तृतीयः 3; तथा-यस्य भिक्षोरेवं भवति-तद्यथाअहं च खल्वन्येभ्यो भिक्षुभ्योऽशनादिकमाहृत्य नो दास्याम्यपराहृतं च नो स्वादयिष्यामीति चतुर्थः 4 / इत्येवं चतुर्णामभिग्रहाणामन्यारमभिग्रह गृह्णीयात् , अथवा-एतेषामेवाद्यानां त्रयाणां भङ्गानामेकपदेनैव कश्चिदभिग्रहं गृह्णीयादिति दर्शयितुमाह-यस्य भिक्षोरेवभूतोऽभिग्रहविशेषो भवति, तद्यथा-अहं च खलु तेन यथाऽतिरिक्तन-आत्मपरिभोगाधिकेन, यथेषणीयेन यत्तेषां प्रतिमाप्रतिपन्नानामेषणीयमुक्तमतद्यथा-पञ्चसु प्राभृतिकासु अग्रहः द्वयोरभिग्रहः, तथा यथापरिगृहीतेनआत्मार्थ स्वीकृतेनाशनादिना निर्जरामभिकाश साधर्मिकस्य वैयावृत्त्य कुर्याद; यद्यपि ते प्रतिमाप्रतिपन्नत्वादेकत्र न भुञ्जते तथाऽप्येकाभिग्रहापादितानुष्ठानत्वात सांभोगिका भण्यन्ते, अतस्तस्य समनोज्ञस्य करणाय उपकरणार्थ वैयावृत्त्यं कुर्यामित्येवंभूतमभिग्रहं कश्चिद् गृह्णाति / तथाऽपरं दर्शयितुमाह-वाशब्दः पूर्वस्मात पक्षान्तरमाह-अपिशब्दः पुनःशब्दार्थे, अहं वा पुनस्तेन यथातिरिक्तन यथैषणीयेन यथापरिगृहीतेनाशनेन पानेन खादिगेन स्वादिभेन निर्जरामभिकाजय साधर्मिकः क्रियमाण वैयावृत्त्यं स्वादयिष्यामि-अभिलपिष्यामि या वाऽन्यः साधर्मिकोऽन्यस्य करोति तं चानुमोदयिष्यामि-यथा सुष्टु भवता कृतमेवं भूतया वाचा, तथा कायेन च प्रसन्नदृष्टिमुखेन, तथा मनसा चेति; किमित्येव करोति ? 'लाघविकम्' इत्यादि गतार्थम्। (30) तदेवमन्यतराभिग्रहवान् भिक्षुरचेलः सचेलो वा शरीरपीडायां सत्यामसत्यां वा आयुःशेषतागवगम्योद्यतरमरणं विदध्यादिति दर्शयितुमाह जस्स णं भिक्खुस्स एवं भवइ-से गिलामि खलु अहं इमम्मि समए इमं सरीरंग अणुपुव्वेणं परिवहित्तए, से अणुपुदेणं आहार संवट्टिजा संवट्टिजा कसाए पयणुए किचा समाहियचे फलगावयट्ठी उट्ठाय भिक्खू अभिनिव्वुडच्चे अणुपविसित्ता गामं वा नगरं वा० जाव रायहाणिं वा तणाईजाइजा० जाव संथरिजा इत्थऽवि समए कायं च जोगं च ईरियं च पच्चक्खाइजा, तं सचं सच्चावाई ओए तिन्ने छिन्नकहकहं आइयढे अणाईए चिचाणं भेउरं कायं संविहुणिय विरूवरूवे परीसहोवसग्गे अस्सि विस्संभणाए भेरवमणुचिन्ने तत्थऽवितस्स कालपरियाए, सेऽवि तत्थ विअन्तिकारए इचेयं विमोहाऽऽययणं हियं सुहं खमं निस्सेसं आणुगामियं ति बेमि / (सूत्र-२२६) णमिति वाक्यालङ्कारे, यस्य भिक्षोरेवम्भूतो वक्ष्यमाणोऽभिप्रायो भवति, तद्यथा-गलायामि खल्वहमित्यादि यावत्तृणानि सस्तरेत, संस्तीर्य च तृणानि यदपरं कुर्यात्तदाह -अत्रापि रामये अबसरे न केवलमन्यत्रानुज्ञाप्य संस्तारकमारुह्य सिद्धसमक्षं स्वत एव महाव्रतारोपणं करोति, तत्रचतुर्विधमप्याहारं प्रत्याचष्टे, ततः पादपोपगमनाय काय च-शरीरं प्रत्याचक्षीत, तद्योगं च-आकुञ्चनप्रसारणोन्मेषनिमेषादिकम्, तथेरणमीर्या तां च सूक्ष्मां कायवाणता मनोगता वाऽप्रशस्तां प्रत्याचक्षीत, तच्च सत्य सत्यवादीत्याद्यनन्तरोद्देशकवन्नेयम् / इतिब्रवीमिशब्दावपि क्षुण्णार्थाविति विमोक्षाध्ययनस्य सप्तमोद्देशकः समाप्तः // 7 // उक्तः सप्तमोद्देशकः। (31) साम्प्रतमष्टम आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशकेषु रोगाऽऽदिसम्भवे कालपर्यायागतं परिज्ञङ्गितमरणपादपोपगमनविधानमुक्तम्, इह तु तदेवानुपूर्वीविहारिणां कालपर्यायागतमुच्यते इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रमुच्यते अनुष्टुप्अणुपुव्वेण विमोहाई, जाई धीरा समासज्ज। वसुमन्तो मइमन्तो, सव्वं नचा अणेलिसं / / 1 / / दुविहं पि विइत्ताणं, वुद्धा धम्मस्स पारगा। अणुपुव्वीइ संखाए, आरम्भाय तिउट्टई / / 2 / / कसाए पयणू किच्चा, अप्पाहारे तितिक्खए। अह भिक्खू गिलाइजा, आहारस्सेव अंतियं / / 3 / / जीवियं नामिकंखिज्जा, मरणं नाऽवि पत्थए। दुहओऽविन सजिजा, जीविए मरणे तहा।।४।। आनुपूर्वी-क्रमः, तद्यथा-प्रव्रज्या-शिक्षा-सूत्राऽर्थग्रहणपरिनिष्ठितस्यैकाकिविहारित्वमित्यादि, यदिवा-आनुपूर्वीसंलेखनाक्रमश्चत्वारि विकृष्टानीत्यादि, तया-आनुपूर्व्यायान्यभिहितानि, कानि पुनस्तानि ? 'विमाहानि' विगतो मोहो येषु येषां वा येभ्यो वा तानि, तथा-भक्तपरिशेगितमरण पादपोपगमनानि यान्येवंभूतानि यथाक्रममायातानि धीराःअक्षोभ्याः समासाद्य-प्राप्य वसु-द्रव्यं संयमस्तद्वन्तो वसुमन्तः, तथा मननं मतिः हेयोपादेयहानोपादानाध्यवसायस्तद्वन्तो गतिमन्तः, तथा सर्व कृत्यमकृत्य च ज्ञात्वा यद्यस्य वा भक्तपरिज्ञानादिकं मरणविधानमुचितं धृतिसहननाद्यपेक्षयाऽनन्य-सदृशम् अद्वितीयम्, सर्व ज्ञात्वा समाधिमनुपालये दिति॥१॥ किं च-द्वे विधे प्रकारावस्येति द्विविधं तपो बाह्यमभ्यन्तर च, तद्विदित्वा-आसेव्य; यदिवा-मोक्षाधिकारे विमोक्तव्य द्विविधं, तदपि बाहां शरीरोपकरणादि आन्तर रागादि, तद् हेयतया विदितवा त्यक्त्वेत्यर्थः, हेयपरित्यागफलत्वात् ज्ञानस्य, '' मिति वाक्यालङ्कार, के विदित्वा ? 'बुद्धा' अवगततत्त्वाः धर्मस्य श्रुतचारित्राख्यस्य पारगाः सम्यग्वेत्तारः, ते बुद्धा धर्मस्वरूपवेदिनः, 'आनुपूर्व्या' प्रव्रज्यादिक्रमेण संयममनुपाल्य मम जीवतः कश्चिद् गुणो नास्तीत्यतः